भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 2.28

2.28.1

विश्वं विव्यज्मि पृथिवीव पुष्टम्
आयदायत् प्रति गृह्णाम्य् अन्नम् ।
वैश्वानरस्य महतो महिम्ना-
-अग्निष् टद् विश्वाद् अगदं कृणोतु ॥

2.28.2

यद् अन्नम् अद्मि बहुधा विरूपं
हिरण्यम् अश्वम् उत गाम् अजाम् अविम् ।
वैश्वानरस्य (…) ॥

2.28.3

यद् अन्नम् अद्म्य् अनृतेन देवा
दास्यन्न् अदास्यन्न् उत वा करिष्यन् ।
वैश्वानरस्य (…) ॥

2.28.4

यन् मा हुतं यद् अहुतम् आजगाम
यस्माद् अन्नान् मनसोद्रारजीमि ।
वैश्वानरस्य महतो महिम्ना-
-अग्निष् टद् विश्वाद् अगदं कृणोतु ॥

2.28.5

जमदग्निः कश्यपः स्वाद्व् एतद्
भरद्वाजो मध्व् अन्नं कृणोतु ।
प्रतिग्रहीत्रे गोतमो वसिष्ठो
विश्वामित्रो नः प्र तिरात्य् आयुः ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc