भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 2.27

2.27.1

शतवारो अनीनशद्
यक्ष्मान् रक्षांसि तेजसा ।
आरोहन् वर्चसा सह
मणिर् दुर्णामचातनः ॥

2.27.2

शृङ्गाभ्यां रक्षो नुदते
मूलेन यातुधान्यः ।
मध्येन यक्ष्मं बाधते
नैनं पाप्माति ?तत्रति ॥

2.27.3

ये यक्ष्मासो अर्भका
महान्तो ये च शब्दिनः ।
सर्वान् दुर्णामहा मणिः
शतवारो अनीनशत् ॥

2.27.4

शतं वीरान् अजनयच्
छतं यक्ष्मान् अपावपत् ।
दुर्णाम्नः सर्वान् हत्वा-
- अप रक्षांसि धूनुते ॥

2.27.5

हिरण्यशृङ्ग ऋषभः
शातवारो अयं मणिः ।
दुर्णाम्नः सर्वान् तृढ्वा-
- अव रक्षांस्य् अक्रमीत् ॥

2.27.6

शतम् अहं दुर्णाम्नीनां
गन्धर्वाप्सरसां शतम् ।
शतं श्वन्वतीनां
शतवारेण वारये ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc