भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 2.23

2.23.1

गवां गृहाणां रसम् ओषधीनाम्
अनुज्येष्ठं वर्च आयुर् विकल्प्य ।
स मा हिंसीः पितरौ वर्धमानो
भद्राच् छ्रेयांसम् अभि लोकम् एहि ॥

2.23.2

यदीदं भक्तं यदि वा विभक्तं
क्षेत्रं देवानां यदि वा पितॄणाम् ।
यदि सूर्य उदिते यदि वा मनुष्यवच्
छिवा नो अस्तु पृथिवी उत द्यौः ॥

2.23.3

ऊर्जो वां भागो वर आ पृथिव्या
देवी द्वारौ ब्रह्मणा वां धारयामि ।
शिवं शग्मम् अवसानं नो अस्तु
रातं देवेभिः पितृभिर् मनुष्यैः ॥

2.23.4

विश्वावसोस् त्वा सदनं कुलायं
गन्धर्वासो वेधसो मह्यम् ऊचुः ।
स मा हिंसीः शेवधिं यं त एतं
शतं हिमाः परि दद्मो मनुष्यम् ॥

2.23.5

रुद्रा उत्से सदम् अक्षीयमाणे
देवा मदन्ति पितरो मनुष्याः ।
अयं भागो भागपतिश् च देवा
उर्वीर् अस्तर्याः शरदस् तरेम ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc