पैप्पलाद-संहिता · अध्याय 2.14
उद्यन्न् आदित्यः क्रिमीन् हन्तु सूर्यो
निम्रोचन् रश्मिभिर् हन्तु ।
ये अन्तः क्रिमयो गवि ॥
यो विश्वरूपश् चतुरक्षः
क्रिमिः सारङ्गो अर्जुनः ।
हतो हतभ्राता क्रिमिर्
हतमाता हतस्वसा ॥
हतो राजा क्रिमीणाम्
उतैषां स्थपतिर् हतः ।
हतासो अस्य वेशसो
हतासः परिवेशसः ॥
प्र ते शृणामि शृङ्गे
याभ्यां त्वं वितुदायसि ।
अथो भिनद्मि तं कुम्भं
यस्मिन् ते निहितं विषम् ॥
अत्रिवत् त्वा क्रिमे हन्मि
कण्ववज् जमदग्निवत् ।
अगस्त्यस्य ब्रह्मणा
सर्वे ते क्रिमयो हताः ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0