भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 2.12

2.12.1

एह यन्तु पशवो ये परेयुर्
वायुर् येषां सहचारं जुजोष ।
त्वष्टा येषां रूपधेयानि वेद-
-अस्मिन् तान् गोष्ठे सविता नि यच्छात् ॥

2.12.2

इमं गोष्ठं पशवः सं स्रवन्तु
बृहस्पतिर् आ नयतु प्रजानन् ।
सिनीवाली नयत्व् आग्रम् एषाम्
आजग्मुषो अनुमतिर् नि यच्छात् ॥

2.12.3

सं सं स्रवन्तु पशवः
सम् अश्वा उत पूरुषाः ।
सं धान्यस्य या स्फातिः
संस्राव्येण हविषा जुहोमि ॥

2.12.4

सं सिञ्चामि गवां क्षीरं
सम् आज्येन बलं रसम् ।
संसिक्ता अस्माकं वीरा
मयि गावश् च गोपतौ ॥

2.12.5

आ हरामि गवां क्षीरम्
आहार्षं धान्यं रसम् ।
आहार्षम् अस्माकं वीरान्
आ पत्नीम् एदम् अस्तकम् ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc