भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 18.55

18.55.1

उद् इह्य् उद् इहि सूर्य वर्चसा माभ्य् उद् इहि ।
द्विषंश् च मह्यं रध्यतु
मा चाहं द्विषते रधं
तवेद् विष्णो बहुधा वीर्याणि ।
त्वं नः पृणीहि पशुभिर् विश्वरूपैः
स्वधायं नो धेहि परमे व्योमन् ॥

18.55.2

उद् इह्य् उद् इहि सूर्य वर्चसा माभ्य् उद् इहि ।
यांश् च पश्यामि यांश् च न
तेषु मे सुमतिं कृधि
तवेद् विष्णो बहुधा वीर्याणि ।
त्वं नः पृणीहि पशुभिर् विश्वरूपैः
स्वधायं नो धेहि परमे व्योमन् ॥

18.55.3

मा त्वा दभन् सलिले अप्स्व् अन्तर्
ये पाशिन उपतिष्टन्त्य् अत्र ।
हित्वाशस्तिं दिवम् आरुक्ष एतां
स नो मृड सुमतौ ते स्याम
तवेद् विष्णो बहुधा वीर्याणि ।
त्वं नः प्रीणीहि पशुभिर् विश्वरूपैः
स्वधायं नो धेहि परमे व्योमन् ॥

18.55.4

त्वं न इन्द्र महते सौभगाय-
-अदब्दैः परि पाह्य् अक्तुभिस्
तवेद् विष्णो बहुधा वीर्याणि ।
त्वं नः पृणीहि पशुभिर् विश्वरूपैः
स्वधायं नो धेहि परमे व्योमन् ॥

18.55.5

त्वं न इन्द्रोतिभिः
शिवाभिः शंतमो भव ।
आरोहन् त्रिदिवं दिवो
गृणानः सोमपीतये
प्रियधामा स्वस्तये
तवेद् विष्णो बहुधा वीर्याणि ।
त्वं नः पृणीहि पशुभिर् विश्वरूपैः
स्वधायं नो धेहि परमे व्योमन् ॥

18.55.6

त्वम् इन्द्रासि विश्ववित्
सर्ववित् पूरुहूतस् त्वम्
इन्द्रेमं सुहव स्तोमम् एरयस्व ।
शिवाभिस् तनूभिर् अभि नः सचस्व
तवेद् विष्णो बहुधा वीर्याणि ।
त्वं नः पृणीहि पशुभिर् विश्वरूपैः
स्वधायं नो धेहि परमे व्योमन् ॥

18.55.7

अदब्धो दिवि पृथिव्याम् उतासि
न त आपुर् महिमानम् अन्तरिक्षे ।
अदब्धेन ब्रह्मणा वावृधानः
स त्वं न इन्द्र दिवि षं शर्म यच्छ
तवेद् विष्णो बहुधा वीर्याणि ।
त्वं नः पृणीहि पशुभिर् विश्वरूपैः
स्वधायं नो धेहि परमे व्योमन् ॥

18.55.8

या त इन्द्र तनूर् अप्स्व् अन्तर्
यान्तर् अग्नौ या पृथिव्यां
या त इन्द्र पवमाने स्वर्विदः ।
ययेन्द्र तन्वान्तरिक्षं समापिथ
तया त इन्द्र तन्वा सं शिशाधि
तवेद् (…) ॥

18.55.9

त्वाम् इन्द्र ब्रह्मणा वर्धयन्तः
सत्रं निषेदुर् ऋषयो नाधमानास्
तवेद् (…) ॥

18.55.10

त्वं रक्षसे प्रतिशश् चतस्रस्
त्वं शोचिषा नभसी वि भासि ।
ऋतस्य पन्थाम् अन्व् एषि विद्वांस्
त्वम् इमा विश्वा भुवनाभि तिष्ठसि
तवेद् विष्णो बहुधा वीर्याणि ।
त्वं नः पृणीहि पशुभिर् विश्वरूपैः
स्वधायं नो धेहि परमे व्योमन् ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc