पैप्पलाद-संहिता · अध्याय 18.54
विषासहिं सहमानं सासहानं सहीयांसं
सहमानं सहोजितम् ।
विश्वजितं स्वर्जितम् अभिजितं
वसुजितं गोजितं संजितं संधनाजितम् ।
ईड्यं नाम ह्वय इन्द्रम् आयुष्मान् भूयासम् ॥
(…) ।
(…) इन्द्रं देवानां प्रियो भूयासम् ॥
(…) ।
(…) इन्द्रं प्रजानां प्रियो भूयासम् ॥
विषासहिं सहमानं सासहानं सहीयांसं
सहमानं सहोजितम् ।
विश्वजितं स्वर्जितम् अभिजितं
वसुजितं गोजितं संजितं संधनाजितम् ।
ईड्यं नाम ह्वय इन्द्रं पशूनां प्रियो भूयासम् ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0