भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 18.41

18.41.1

यत् प्राचीं दिशम् अनुव्यचलद्
इन्द्रो भूत्वानु व्य् अचलन् मनो ऽन्नादं कृत्वा ।
मनसान्नादेनान्नम् अत्ति यः (एवं वेद) ॥

18.41.2

यद् दक्षिणां दिशम् अनु व्यचलन्
मारुतं शर्धो भूत्वानु व्य् अचलन् मन्युम् अन्नादं कृत्वा ।
मन्युनान्नादेनान्नम् (अत्ति य एवं वेद) ॥

18.41.3

यत् प्रतीचीं दिशम् अनु व्यचलद्
वरुणो भूत्वानु व्य् अचलद् अपो ऽन्नादीः कृत्वा ।
अद्भिर् अन्नादीभिर् अन्नम् (अत्ति य एवं वेद) ॥

18.41.4

यद् उदीचीं दिशम् अनु व्यचलत्
सोमो राजा सप्तऋषिभिर् भूत्वानु व्य् अचलद् आहुतिम् अन्नादीं कृत्वा ।
आहुत्यान्नाद्यान्नम् (अत्ति य एवं वेद) ॥

18.41.5

यद् ध्रुवां दिशम् अनुव्यचलद्
विष्णुर् भूत्वानु व्य् अचलद् विराजम् अन्नादीं कृत्वा ।
विराजान्नाद्यान्नं (अत्ति य एवं वेद) ॥

18.41.6

यद् ऊर्ध्वं दिशम् अनु व्यचलद्
बृहस्पतिर् भूत्वानु व्य् अचलद् वषट्कारम् अन्नादं कृत्वा ।
वषट्कारेणान्नादेनान्नं (अत्ति य एवं वेद) ॥

18.41.7

यत् पशून् अनुव्यचलद्
रुद्रो भूत्वानु व्य् अचलद् ओषधीर् अन्नादीः कृत्वा ।
ओषधीभिर् अन्नादीभिर् अन्नं (अत्ति य एवं वेद) ॥

18.41.8

यद् देवान् अनुव्यचलद्
ईशानो भूत्वानु व्य् अचलद् बलम् अन्नादं कृत्वा ।
बलेनान्नादेनान्नं (अत्ति य एवं वेद) ॥

18.41.9

यन् मनुष्यान् अनुव्यचलद्
अग्निर् भूत्वानु व्य् अचलत् स्वाहाकारम् अन्नादं कृत्वा ।
स्वाहाकारेणान्नादेन (अन्नम् अत्ति य एवं वेद) ॥

18.41.10

यत् पितॄन् अनुव्यचलद्
यमो भूत्वानु व्य् अचलत् स्वधाकारम् अन्नादं कृत्वा ।
स्वधाकारेणान्नादेन (अन्नम् अत्ति य एवं वेद) ॥

18.41.11

यत् प्रजा अनुव्यचलत्
प्रजापतिर् भूत्वानु व्य् अचलत् प्राणम् अन्नादं कृत्वा ।
प्राणेनान्नादेन (अन्नम् अत्ति य एवं वेद) ॥

18.41.12

यद् अन्तर्देशान् अनुव्यचलद्
वायुर् भूत्वानु व्य् अचलद् वातम् अन्नादं कृत्वा ।
वातेनान्नादेन (अन्नम् अत्ति य एवं वेद) ॥

18.41.13

यद् दिशो ऽनुव्यचलत्
परमेष्ठी भूत्वानु व्य् अचलद् ब्रह्मान्नादं कृत्वा ।
ब्रह्मणान्नादेनान्नम् अत्ति य एवं वेद ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc