पैप्पलाद-संहिता · अध्याय 18.39
यस्यैवं विद्वान् व्रात्य एकां रात्रिम् अतिथिर् गृहे वसति ।
ये पृथिव्यां पुण्या लोकास् तान् एवैनेनाव रुन्धे ॥
(यस्यैवं विद्वान्) व्रात्यो द्वितीयां रात्रिं (अतिथिर् गृहे वसति) ।
ये अन्तरिक्षे पुण्या लोकास् (तान् एवैनेनाव रुन्धे) ॥
(यस्यैवं विद्वान्) व्रात्यस् तृतीयां रात्रिं (अतिथिर् गृहे वसति) ।
ये दिवि पुण्या लोकास् (तान् एवैनेनाव रुन्धे) ॥
(यस्यैवं विद्वान्) व्रात्यश् चतूर्थीं रात्रिम् आतिथिः (गृहे वसति) ।
सर्वान् एवैनेन पुण्याँल् लोकान् अव रुन्धे ॥
(यस्यैव विद्वान्) व्रात्यः पञ्चमीं रात्रिम् अतिथिः (गृहे वसति) ।
परावत एवैनेन लोकान् अव (रुन्धे) ॥
यस्यैवं विद्वान् व्रात्यो ऽपरिमिता रात्रीर् अतिथिर् गृहे वसति ।
अपरिमितान् एवैनेन लोकान् अव रुन्धे ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0