पैप्पलाद-संहिता · अध्याय 18.21
सुखं सूर्य रथम् अंशुमन्तं
स्योनं सुवह्निम् अधि तिष्ठ वाजिनम् ।
यं ते वहन्ति हरितो वहिष्ठाः
शतम् अश्वा यदि वा सप्त बह्वीः ॥
सप्त सूर्यो हरितो यातवे रथे
हिरण्यत्वचसो बृहतीर् अयुक्त ।
अमोचि शुक्रो रजसः परस्ताद्
विधूय देवस् तमो दिवम् आरुहत् ॥
उत् केतुना बृहता देवा आगन्न्
अपावृक् तमो ऽभि ज्योतिर् अश्रैत् ।
दिव्यः सुपर्ण स्थवीरो व्य् अख्यद्
अदित्याः पुत्रो भुवनानि विश्वा ॥
उद्यन् रश्मीन् आ तनुषे
प्रजाः सर्वा वि पश्यति ।
उभा समुद्रौ क्रतुना वि भासि
सर्वां लोकान् परिभूर् भ्राजमानः ॥
पूर्वापरं चरतो माययैतौ
शिशू कुन्दाना परि यातो अर्णवम् ।
विश्वान्य् अन्यो भुवनाभि वस्ते
हैरण्यैर् अन्यं हरितो वहन्ति ॥
दिवि त्वात्रिर् धारयत्
सूर्या मासाय कर्तवे ।
स एषि सुधृतस् तपन्
स्वर् भूतावचाकशत् ॥
उभाव् अन्तौ सम् अर्षति
वत्सः संमातराव् इव ।
नन्व् एतद् इतः पुरा
ब्रह्म देवा अमी विदुः ॥
यत् समुद्रम् अनु श्रितं
तत् सिषासति सूर्यः ।
अध्वास्य विततो महान्
पूर्वश् चापरश् च यः ॥
तं सम् आप्नोति जूतिभिस्
तस्मान् नाप चिकित्सति ।
तेनामृतस्य भक्षं
देवानां नाव रुन्धते ॥
उद् उ त्यं जातवेदसं
देवं वहन्ति केतवः ।
दृशे विश्वाय सूर्यम् ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0