पैप्पलाद-संहिता · अध्याय 17.24
विद्म ते स्वप्न जनित्रं
पाप्मनः पुत्रो ऽस्य् अभूत्या अधि जातो यमस्य करणः ।
तं त्वा स्वप्न तथा विद्म ।
यो भद्रः स्वप्नः स मम
यः पापस् तं द्विषते प्र हिण्मः ।
तम् अस्मै गमयामस्
तेनैनं विध्यामो
ऽभूत्यैनं विध्यामो
निर्भूत्यैनं विध्यामः
पराभूत्यैनं विध्यामो
ग्राह्यैणं विध्यामस्
तमसैनं विध्यामो
अग्न एनं क्रव्याद आ वृशामो
देवानाम् एनं घोरैः क्रूरैः प्रैषैर् अभि प्रेष्यमो
वैश्वाणरस्यैनं दंष्ट्रयोर् अपि दध्मः ॥
(…) जनित्रं
ग्राह्याः पुत्रो ऽसि निरृत्या अधि (…) ॥
(…) जनित्रं
वरुणस्य पुत्रो ऽसि वरुणान्या अधि (…) ॥
(…) जनित्रम्
अह्नः पुत्रो ऽसि रात्र्या अधि (…) ॥
(…) जनित्रं
दिवस् पुत्रो ऽसि भूम्या अधि (…) ॥
(…) जनित्रं
वनस्पतीनां पुत्रो ऽस्य् ओषदीभ्यो ऽधि (…) ॥
(…) जनित्रं
वानस्पत्यानां पुत्रो ऽसि वीरुद्भ्यो ऽधि (…) ॥
(…) जनित्रं
तन्द्रियाः पुत्रो ऽसि कोटीया अधि (…) ॥
(…) जनित्रं
रक्षसां पुत्रो ऽस्य् अभ्वेभ्यो ऽधि (…) ॥
विद्म ते स्वप्न जनित्रं
गन्धर्वाणां पुत्रो ऽस्य्
अप्सरोभ्यो अधि जातो यमस्य करणः ।
तं त्वा स्वप्न इति त्रीणि ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0