पैप्पलाद-संहिता · अध्याय 16.47
पृश्निश् चासि पृषती चासि
तस्यास् ते यच्छच् च प्रयच्छच् च (…) ॥
विश्वभृच् चासि विश्वरूपा चासि
तस्यास् ते ददच् च प्रददच् च (…) ॥
गिरन्ती चासि गरर्गृच् चासि
तस्यास् ते वृन्दं च संवृन्दानं च (…) ॥
गुर्वी चासि गुरुभृच् चासि
तस्यास् ते दोहश् च दुहानं च (…) ॥
दितिश् चास्य् अदितिश् चासि
तस्यास् ते पयश् च पयस्वच् च (…) ॥
जूर्णा चासि जरन्ती चासि
तस्यास् ते दक्षश् च दक्षमाणं च (…) ॥
प्रतिष्ठा चासि प्रतिष्ठती चासि
तस्यास् त ओजश् च तेजश् च (…) ॥
लोकिनी चासि लोककृच् चासि
तस्यास् ते श्रवश् च स्रवस्युश् च (…) ॥
उर्वी चासि प्रभवी चासि
तस्यास् ते कुर्वच् च संस्कुर्वाणं च (…) ॥
नीची चास्य् उत्ताना चासि
तस्यास् ते रोहच् च विरोहच् च (…) ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0