पैप्पलाद-संहिता · अध्याय 16.46
क्षा चासि क्षमा चासि
तस्यास् ते भूतं च सुभूतं चेति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्
ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुम्
अयं ते अस्मि तं मा मुमुग्धि ग्राह्या
बन्धेभ्यो विमदं नयेमम् ॥
भूमिश् चासि भूतिश् चासि
तस्यास् ते भुवनं च सुभूतिश् च (…) ॥
पृथ्वी चासि पृथिवी चासि
तस्यास् ते भविष्यच् चाभविष्यच् च (…) ॥
क्षेम्या चासि क्षितिश् चासि
तस्यास् ते कं च नाकं च (…) ॥
दृढा चासि शिथिरा चासि
तस्यास् ते स्वश् च स्वर्गश् च (…) ॥
अमितिश् चासि निरृतिश् चासि
तस्यास् ते मित्रं च मैत्रं च (…) ॥
शितिपृष्ठा चासि विधून्वाना चासि
तस्यास् ते विन्दच् च विन्दमानं च (…) ॥
सुहिता चासि सुहितिश् चासि
तस्यास् ते वित्तिश् च सुवित्तिश् च (…) ॥
वप्सा चासि वप्सती चासि
तस्यास् ते सुवच् च प्रसुवच् च (…) ॥
अप्सराश् चासि सदान्वा चासि
तस्यास् ते स्वं च स्वावं च (…) ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0