पैप्पलाद-संहिता · अध्याय 16.19
इयम् एव सा या प्रथमा व्यौच्छत्
साप्स्व् अन्तश् चरति प्रविष्टा ।
वधूर् जिगाय नवगज् जनित्री
महान्तो अस्यां महिमानो अन्तः ॥
छन्दःपक्षे उषसा पेपिशाने
समानीं योनिम् अनु सं चरेते ।
सूर्यपत्नी सं चरतः प्रजानती
केतुमती अजरे भूरिरेतसा ॥
ऋतस्य पन्थाम् अनु तिस्र आगुस्
त्रयो घर्मा अनु रेत आगुः ।
प्रजाम् एका जिन्वत्य् ऊर्जम् एका
राष्ट्रम् एका रक्षति देवयूनाम् ॥
अग्नीष्टोमम् अदधुर् या तुरीयासीद्
यज्ञस्य पक्षाम् ऋषयः कल्पयन्तः ।
गायत्रीं त्रिष्टुभं जगतीम् अनुष्टुभं
बृहदर्कीं यजमानाय स्वर् आभरन्तः ॥
पञ्च व्युष्टीर् अनु पञ्च दोहा
गां पञ्चनाम्नीम् ऋतवो ऽनु पञ्च ।
पञ्च दिशः पञ्चदशेन क्ल्̥प्तास्
ता एकमूर्ध्नीर् अभि लोकम् एकम् ॥
षड् जाता भूता प्रथमज र्तस्य
षड् उ सामानि षडहं वहन्ति ।
षड्योगं सीरम् अनु सामसाम
षड् आहुर् द्यावापृथिवी षड् उर्वीः ॥
षड् आहुः शीतान् षड् उ मास उष्णान्
ऋतून् नो ब्रूत यतमो ऽतिरिक्तः ।
सप्त सुपर्णाः कवयो नि षेदुः
सप्त छन्दांस्य् अनु सप्त दीक्षाः ॥
सप्त होमाः समिधो ह सप्त
मधूनि सप्तर्तवो नु सप्त ।
सप्ताज्यानि परि भूतम् आयन्
सप्त होतार ऋतुथा यजन्ति
ताः सप्तगृध्रा इति शुश्रवाहम् ॥
अष्टौ धामानि प्रथमज र्तस्य-
-अष्टेन्द्रर्त्विजो दैव्या ये ।
अष्टयोनिर् अदितिर् अष्टपुत्रा
अष्टमीं रात्रिम् अभि हव्यम् एति ॥
इत्थं श्रेयो मन्यमानेदम् आगां
युष्माकं सख्ये अहम् अस्मि शेवा ।
समानजन्मा क्रतुर् अस्तु वः शिवः
स नः सर्वाः सं चरति प्रजानन् ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0