भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 16.127

16.127.1

इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थ-
-इन्द्रस्य नृम्णं स्थेन्द्रस्य शुक्रं स्थेन्द्रस्य वीर्यं स्थ ।
जिष्णवे योगायेन्द्रयोगैर् वो युनज्मि
जिष्णवे योगाय विश्वानि मा रूपाण्य् उप तिष्ठन्तु
युक्ता म आप स्थ ॥

16.127.2

(…)
(…) योगाय क्षत्रयोगैर् वः (…) ॥

16.127.3

(…)
(…) योगाय ब्रह्मयोगैर् वः (…) ॥

16.127.4

(…)
(…) योगायान्नयोगैर् वः (…) ॥

16.127.5

इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थ-
-इन्द्रस्य नृम्णं स्थेन्द्रस्य शुक्रं स्थेन्द्रस्य वीर्यं स्थ ।
जिष्णवे योगायापां योगैर् वो युनज्मि
जिष्णवे योगाय विश्वानि मा रूपाण्य् उप तिष्ठन्तु
युक्ता म आप स्थ ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc