भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 16.124

16.124.1

यच् छुक्रो भवत्य्
आदित्यानाम् एव प्रियं धामोपैति ।
स यः शुक्रं प्राश्नीयाद्
आदित्यानां त्वा प्रियेण धाम्ना प्राश्नामीत्य् एनं प्राश्नीयात् ।
ततश् चैनम् अन्येन धाम्ना प्राश्नात्य्
आदित्येभ्यश् चा वृश्चते ॥

16.124.2

यत् फलीकृतो भवति
विश्वेषाम् एव देवानां प्रियं (…) ।
स यः फलीकृतं प्राश्नीयाद्
विश्वेषां त्वा देवानां प्रियेण धाम्ना (…) ।
(…) प्राश्नाति
विश्वेभ्यो देवेभ्यश् चा वृश्चते ॥

16.124.3

यद् अफलीकृतो भवति
मरुताम् एव प्रियं (…) ।
स यो ऽफलीकृतं प्राश्नीयान्
मरुतां त्वा प्रियेण (…) ।
(…) प्राश्नाति
मरुद्भ्यश् चा वृश्चते ॥

16.124.4

यद् अवक्षामो भवत्य्
अग्नेर् एव (…) ।
स यो ऽवक्षामं प्राश्नीयाद्
अग्नेस् त्वा प्रियेण (…) ।
(…) प्राश्नात्य्
अग्नये चा वृश्चते ॥

16.124.5

यद् अनवक्षामो भवति
मित्रावरुणयोर् एव (…) ।
स यो ऽनवक्षामं प्राश्नीयान्
मित्रावरुणयोस् त्वा प्रियेण (…) ।
(…) प्राश्नाति
मित्रावरुणाभ्यां चा वृश्चते ॥

16.124.6

यद् अक्लिन्नो भवति-
-इन्द्रस्यैव (…) ।
स यो ऽक्लिन्नं प्राश्नीयाद्
इन्द्रस्य त्वा (…) ।
(…) प्राश्नाति-
-इन्द्राय चा वृश्चते ॥

16.124.7

यत् क्लिन्नो भवति
पितॄणाम् एव (…) ।
स यः क्लिन्नं प्राश्नीयात्
पितॄणां त्वा (…) ।
(…) प्राश्नाति
पितृभ्यश् चा वृश्चते ॥

16.124.8

यत् क्षुद्रो भवत्य्
अपाम् एव (…) ।
स यः क्षुद्रं प्राश्नीयाद्
अपां त्वा प्रियेण (…) ।
(…) प्राश्नात्य्
अद्भ्यश् चा वृश्चते ॥

16.124.9

यच् छिथिरो भवति
दिशाम् एव (…) ।
स यः शिथिरं प्राश्नीयाद्
दिशां त्वा (…) । [सेए 1द्
(…) प्राश्नाति
दिग्भ्यश् चा वृश्चते ॥

16.124.10

यद् गुलन्ती भवति
प्रजापतेर् एव (…) ।
स यो गुलन्तिनं प्राश्नीयात्
प्रजापतेष् ट्वा (…) ।
(…) प्राश्नाति
प्रजापतये चा वृश्चते ॥

16.124.11

यच् छुष्को भवत्य्
ऊर्ध्वनभस एव प्रियं धामोपैति ।
स यः शुष्कं प्राश्नीयाद्
ऊर्ध्वनभसस् त्वा प्रियेण धाम्ना प्राश्नामीत्य् एनं प्राश्नीयात् ।
ततश् चैनम् अन्येन धाम्ना प्राश्नात्य्
ऊर्ध्वनभसे चा वृश्चते ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc