भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 15.17

15.17.1

उग्रेण च देवेन च क्षिप्तस्य
(…) ॥

15.17.2

महादेवेन च क्षिप्तस्य
(…) ॥

15.17.3

ईशानेन च क्षिप्तस्य-
-अघस्याघविषा च या ।
अरुन्धति (…) ॥

15.17.4

यत् पृथिव्यां विषं
वीरुत्स्व् अधि यद् विषम् ।
(…) ॥

15.17.5

यद् ओषधीभ्यः संभरन्ति
ब्रह्माणो मेनये विषम् ।
(…) ॥

15.17.6

यद् ब्राह्मणाः संभरन्ति
तृष्टमाशीविषं विषम् ।
(…) ॥

15.17.7

यः क्षिप्तो मृत्युना यस्मैर्
यो दष्टस् तृष्टदंश्मभिः ।
अरुन्धति त्वं तस्यासि
विषस्य विषदूषणी ॥

15.17.8

सं जिहीष्वामुक्था यक्ष्माद्
आरुक्षो लोकम् उत्तमम् ।
अपा जीवसि पात्रेण-
-अधि जीवपुरा इहि ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc