पैप्पलाद-संहिता · अध्याय 13.4
निर् इतो हरितस्रजम्
इन्द्रो वर्तयते रथम् ।
तेनापि लिह्न ईयते
निपिंषन्न् अहिनाम्नः ॥
येनेन्द्र दस्यून् अमृणोर्
येन वृत्रं पराभिनः ।
तेना शतक्रतो त्वम्
अहेर् जातानि जम्भय ॥
प्रत्य् अमोदत पृथिवी
प्रति द्यौः प्रति सूर्यः ।
पैद्वो यद् अश्वमाता
क्रन्देनाहीन् अपावपत् ॥
यदा पैद्वो ऽश्वमाता
क्रन्देनाहीन् अपावपत् ।
रज्जू ष्म दत्वतीः शेरे
पूयन्तीः पृथिवीम् अनु ॥
नापो जीर्यन्ति नामृतं
नेन्द्राणी विधवाभवत् ।
न त्वाम् आस्तेगिषद् विषम्
अश्मानम् इव सायकम् ॥
इन्द्राग्नी मित्रावरुणा
त्वष्टारम् अदितिं भगम् ।
हुवे ऽहम् अर्वन्तं पैद्वं
मा मे ऽयं पुरुषो रिषत् ॥
सद्यो जातो ऽकनिक्रदत्
सोल्बो व्य् अधूनुत ।
क्रन्देनाश्वस्य वाजिनो
ऽहन्यन्ताहयः पृथक् ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0