पैप्पलाद-संहिता · अध्याय 12.4
सवितः श्रेष्ठेन रूपेण
(…) ॥
विष्णोः श्रेष्ठेन (…) ॥
त्वष्टः श्रेष्ठेन (…) ॥
भगः श्रेष्ठेन रूपेण-
-अस्या नार्या गवीन्योः ।
पुमांसं पुत्रम् आ धेहि
दशमे मासि सूतवे ॥
अधि स्कन्द वीरयस्व
गर्भम् आ धेहि योन्याम् ।
वृषाणं वृष्ण्यावन्तं
प्रजायै त्वा नयामसि ॥
यद् वेद राजा वरुणो
वेद देवो बृहस्पतिः ।
इन्द्रो यद् वृत्रहा वेद
तं गर्भकरणं पिब ॥
वि जिहीष्व बार्हत्सामे
गर्भस् ते योनिम् आ शयाम् ।
ददन् ते पुत्रं देवाः
सोमपाम् उभयाविनम् ॥
सोमस्य त्व र्त्वियेन-
-उपैमि गर्भकृत्वने ।
ततस् ते पुत्रो जायतां
कर्तवै वीर्येभ्यः ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0