पैप्पलाद-संहिता · अध्याय 12.12
इन्द्रस्य नु वीर्याणि प्र वोचं
यानि चकार प्रथमानि वज्री ।
अहन्न् अहिम् अन्व् अपस् ततर्द
प्र वक्षणा अभिनत् पर्वतानाम् ॥
अहन्न् अहिं पर्वते शिश्रियाणं
त्वष्टास्मै वज्रं स्वर्यं ततक्ष ।
वाश्रा इव धेनवः स्यन्दमाना
अञ्जः समुद्रम् अव जग्मुर् आपः ॥
वृषायमाणो ऽवृणीत सोमं
त्रिकद्रुकेष्व् अपिबत् सुतस्य ।
आ सायकं मघवादत्त वज्रम्
अहन्न् एनं प्रथमजाम् अहीनम् ॥
यद् इन्द्राहन् प्रथमजाम् अहीनाम्
आन् मायिनाम् अमिनाः प्रोत मायाः ।
आत् सूर्यं जनयन् द्याम् उषासं
तादीत्ना शत्रुं न किला विवित्से ॥
अहन् वृत्रं वृत्रतरं व्यंसम्
इन्द्रो वज्रेण महता वधेन ।
स्कधांसीव कुलिशेना विवृक्णा-
-अहिः शयद् उपपृक् पृथिव्याः ॥
अयोद्धेव दुर्मद आ हि जुह्वे
महावीरं तु विबाधम् ऋजीषम् ।
नातारीद् अस्य समृतिं वधानां
सं रुजानाः पिपिष इन्द्रशत्रुः ॥
अपाद् अहस्तो अपृतन्यद् इन्द्रम्
आस्य वज्रम् अधि सानौ जघान ।
वृष्णो वध्रिः प्रतिमानं बभूषन्
पुरुत्रा वृत्रो अशयद् व्यस्तः ॥
नदं न भिन्नम् अमुया शयानं
मनो रुहाणा अति यन्त्य् आपः ।
याश् चिद् वृत्रो महिना पर्यतिष्ठत्
तासाम् अहिः पत्सुतःशीर् बभूव ॥
निचावया अभवद् वृत्रपुत्र-
-इन्द्रो अस्या अव वधर् जभार ।
उत्तरा सूर् अधरः पुत्र आसीद्
दानुः शये सहवत्सा न धेनुः ॥
अतिष्ठन्तीनाम् अनिवेशनानां
काष्ठानां मध्ये निहितं शरीरम् ।
वृकस्य निण्यं वि चरन्त्य् आपो
दीर्घं तम आशयद् इन्द्रशत्रुः ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0