भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 11.7

11.7.1

अति विश्वाः परिष्ठा
स्तेन इव व्रजम् अक्रमीत् ।
ओषधयः प्रचुच्यवुर्
यत् किं च तन्वो रपः ॥

11.7.2

यस्यौषधयः प्रसर्पथ-
-अङ्गम् अङ्गं परुष् परुः ।
तस्माद् यक्ष्मं वि बाधध्वम्
उग्रो मध्यमशीर् इव ॥

11.7.3

अन्या वो अन्याम् अवत्व्
अन्यान्यस्या उपावत ।
ओषधयः संविदाना
इदं मे प्रावता वचः ॥

11.7.4

अवपतन्तीर् अपदं
दिव ओषधयस् परि ।
यं जीवम् अश्नवामहै
न स रिष्याति पूरुषः ॥

11.7.5

या ओषधयः सोमराज्ञीर्
बह्वीः शतविचक्षणाः ।
बृहस्पतिप्रसूतास् ता
नो मुञ्चन्त्व् अंहसः ॥

11.7.6

याः फलिनीर् या अफला
अकोशा याश् च केशिनीः ।
बृहस्पतिप्रसूतास् ता
नो मुञ्चन्त्व् अंहसः ॥

11.7.7

जीवलां नघारिषाम्
आ ते बध्नाम्य् ओषधिम् ।
या त आयुर् उपाहराद्
अप रक्षांसि चातयात् ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc