पैप्पलाद-संहिता · अध्याय 11.13
सहस्रार्घः शतकाण्डः पयस्वान्
अपाम् अग्निर् वीरुधां राजसूयम् ।
स नो ऽयं दर्भः परि पातु विश्वतो
दैवो मणिर् आयुषा सं सृजाति नः ॥
घृताद् उल्लुप्तो मधुमान् पयस्वान्
भूमिदृंहो अच्युतश् चावयिष्णुः ।
नुदन् सपत्नान् अधरांश् च कृण्वन्
दर्भारोह महता महेन्द्रियेण ॥
त्वं भूमिम् अत्य् एष्य् ओजसा
त्वं वेद्यां सीदसि चारुर् अध्वरे ।
त्वां पवित्रम् ऋषयो ऽभरन्त
त्वं पुनीहि दुरितान्य् अस्मत् ॥
तीक्ष्णो राजा विषासही
रक्षोहा विश्वचर्षणिः ।
तेजो देवानां बलम् उग्रम् एतत्
तं ते बध्नामि जरसे स्वस्तये ॥
दर्भेण त्वं कृणु वीर्याणि
दर्भं बिभ्रद् आत्मना मा व्यथिष्ठाः ।
अतिष्ठायो वर्चसैध्वन्यान्
सूर्य इवा भाहि प्रदिशश् चतस्रः ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0