पैप्पलाद-संहिता · अध्याय 11.11
यत् कीनाशं सीरपतिर्
दण्डेन हन्ति मन्युतः ।
यत् किं च खल्यं सादान्ववम्
इन्द्रराशौ तद् आहितम् ॥
उलूखलमुसलं तानि चोदय
सूर्पं नार्य् अपविचे कृणुष्व ।
वाहाय पुत्राय गोतम
इन्द्रराशिं मधुमन्तं कृणोतु ॥
एतत् सूर्पं जरितर् आ हर-
-उलूखलमुसलं कुम्भ्य् आ गहि ।
पुत्रा नो अद्य सुदिनत्वे अह्नि
पित्तम् अश्नन्त मधुमन्तम् अंशुम् ॥
अग्निर् नो दूतः प्रहितो ऽयम् आगन्
स नः सर्वम् अन्नम् अविषं कृणोतु ।
निराविद्धम् अकृतं ब्रह्मणेतो
ऽदोमधं पित्तम् अत्त प्रसूताः ॥
स्वादो पितो मधो पित
उप नः पितव् आ गहि ।
शिवः शिवाभिर् ऊतिभिः ॥
सिंहो भूत्वा गा मृणात्य्
अग्निर् भूत्वा धान्यम् ।
इन्द्रराशिर् अनिर्मितो
मयारं चाव गच्छति ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0