भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 10.3

10.3.1

अश्व इव रथम् आ दत्स्व
सिंह इव पुरुषं हर ।
हस्तीव नड्वलान् भङ्धि
भ्रातृव्याणां श्रियं वृह ॥

10.3.2

उत् ते कृणोतु कश्यपो
ब्रह्म देवैर् अभिष्टुतम् ।
आप्रीतम् अविराधुकम् ॥

10.3.3

एतं खदिरम् आ हर-
-अथो तेजनम् आ हर ।
उतैतं पर्णम् आ हर-
-आ हरानडुहो बलम् ॥

10.3.4

इध्मान् देवैः समाभृतांस्
तांस् ते प्रादाद् बृहस्पतिः ।
तान् आ धेहि समाहिते
ऽग्नौ सूर्याभिचक्षणे ॥

10.3.5

तेभिष् ट्वम् उत्तरो भव
भ्रातृव्याणां श्रियं वृह ।
अथो एषां पयो हर ॥

10.3.6

आदित्या रुद्रा वसव
ऋषयो भूतकृतश् च ये ।
श्रियं च क्षत्रम् ओजश् च
तुभ्यं देवा असाविषुः ॥

10.3.7

वसुर् असीन्द्रनामा-
-आयुष्माञ् छतशारदः ।
स इन्द्र इव देवेषु
त्विषीमान् विश आ वद ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc