भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 10.14

10.14.1

गन्धर्वाप्सरसः सं नह्यध्वं
मम राष्ट्राय जयन्तो
ऽमित्रेभ्यो हेतिम् अस्यन्तः ॥

10.14.2

सर्पपुण्यजनाः सं (…) ॥

10.14.3

वनस्पतयः सं (…) ॥

10.14.4

वानस्पत्याः सं नह्यध्वं
मम राष्ट्राय जयन्तो
ऽमित्रेभ्यो हेतिम् अस्यन्तः ॥

10.14.5

ओषधयः सं नह्यध्वं
मम राष्ट्राय जयन्त्यो
ऽमित्रेभ्यो हेतिम् अस्यन्त्यः ॥

10.14.6

वीरुधः सं नह्यध्वं
मम राष्ट्राय जयन्त्यो
ऽमित्रेभ्यो हेतिम् अस्यन्त्यः ॥

10.14.7

बृहस्पते सं नह्यस्व
मम राष्ट्राय जयन्न्
अमित्रेभ्यो हेतिम् अस्यन् ॥

10.14.8

प्रजापते सं (…) ॥

10.14.9

परमेष्ठिन् सं नह्यस्व
मम राष्ट्राय जयन्न्
अमित्रेभ्यो हेतिम् अस्यन् ॥

10.14.10

उदारा उद् ईर्ध्वं
विश्वानि भूतानि सं नह्यध्वं
मम राष्ट्राय जयन्त्य्
अमित्रेभ्यो हेतिम् अस्यन्ति ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc