भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 10.13

10.13.1

द्यावापृथिवी सं नह्येथां
मम राष्ट्राय जयन्ती
अमित्रेभ्यो हेतिम् अस्यन्ती ॥

10.13.2

वाता पवमानौ सं नह्येथां
मम राष्ट्राय जयन्ताव्
अमित्रेभ्यो हेतिम् अस्यन्तौ ॥

10.13.3

इन्द्राग्नी सं नह्येथां
(…) ॥

10.13.4

मित्रावरुणा सं (…)
(…) ॥

10.13.5

भवाशर्वा सं (…)
(…) ॥

10.13.6

अश्विना सं नह्येथां
मम राष्ट्राय जयन्ताव्
अमित्रेभ्यो हेतिम् अस्यन्तौ ॥

10.13.7

मरुतः सं नह्यध्वं
मम राष्ट्राय जयन्तो
ऽमित्रेभ्यो हेतिम् अस्यन्तः ॥

10.13.8

पितरः सं नह्यध्वं
मम राष्ट्राय जयन्तो
ऽमित्रेभ्यो हेतिम् अस्यन्तः ॥

10.13.9

सूर्याचन्द्रमसौ सं नह्येथां
मम राष्ट्राय जयन्ताव्
अमित्रेभ्यो हेतिम् अस्यन्तौ ॥

10.13.10

अहोरात्रे सन् नह्येथां
मम राष्ट्राय जयन्ती
अमित्रेभ्यो हेतिम् अस्यन्ती ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc