पैप्पलाद-संहिता · अध्याय 1.91
पयो देवेषु पय ओषधीषु
पय आशासु पयो ऽन्तरिक्षे ।
तन् मे धाता सविता च धत्तां
विश्वे तद् देवा अभि सं गृणन्तु ॥
पयो यद् अप्सु पय उस्रियासु
पय उत्सेषूत पर्वतेषु ।
तन् मे धाता सविता च धत्तां
विश्वे तद् देवा अभि सं गृणन्तु ॥
यन् मृगेषु पय आविष्टम् अस्ति
यद् एजति पतति यत् पतत्रिषु ।
तन् मे धाता सविता च धत्तां
विश्वे तद् देवा अभि सं गृणन्तु ॥
यानि पयांसि दिव्य् आर्पितानि
यान्य् अन्तरिक्षे बहुधा बहूनि ।
तेषाम् ईशाने वशिनी नो अद्य
प्र दत्तां द्यावापृथिवी अहृणीयमाने ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0