पैप्पलाद-संहिता · अध्याय 1.89
सर्वा इमा ओषधयः
पृथिव्याम् अधि निष्ठिताः ।
अथैव भद्रिके त्वम्
असुरेभ्यो अजायथाः ॥
शतं जह्य् अप्सरसां
शतं श्वन्वतीनाम् ।
गन्धर्वपत्नीनां शतस्य-
-इन्द्रो अपि कृतच् छिरः ॥
याः पतन्ति पुरो वातं
पतन्ति रेष्मभिः सह ।
चेतन्तीम् अश्मलां पलाम्
इन्द्रो अप्सरसो हनत् ॥
वि वो यशो हवामहे
वि वो हविष्यम् ओदनम् ।
अपावरीर् अपोर्णुत-
-अस्मद् यक्ष्मम् अपोर्णुत
वातस् तेजन्यं यथा ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0