भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 1.86

1.86.1

त्रिभ्यो रुद्रेभ्यः प्रवसन् यजामि
ज्येष्ठः कनिष्ठ उत मध्यमो यः ।
ज्योतिष्काराः कवयः सोमपा ये
कण्वा अजन्तु निर् इतो वधेन ॥

1.86.2

इन्द्राग्नी वीतं हविषः संविदानौ
समिद्धो अग्निः समिधा गीर्भिर् इन्द्रः ।
नुदेथां कण्वा निर् इतो अरातिम्
आराद् रक्षांसि तपतं व्य् अस्मत् ॥

1.86.3

वास्तोष्पते सुप्रजसः सुवीरा
षष्ठीस्यामि शरदः शतानि ।
दुर्वास्तु कण्वा अभि निर् णुदस्व
सुवास्त्व् अस्माँ उप सं विशस्व ॥

1.86.4

या तन्तिषत् खलसद् या च गोष्ठे
या जाताः शकधूमे सभायाम् ।
प्रपायां जाता उत याश् च भित्सु
ताश् चातयामः शिवता नो अस्तु ॥

1.86.5

दुद्वा च दुद्वती च स्थस्
तद् वां नाम तद् वां नामधेयम् ।
रुद्रप्रेषिते स्थो ऽव्ये नाम
पर्य् अस्मान् वृङ्क्तम् ।
यो नो द्वेष्टि तम् ऋच्छतम् ॥

1.86.6

वीची नामास्य् अघहारा नाम ।
नमस् ते अस्तु वातके
ऽन्यत्रास्मद् अघं कृधि ॥

1.86.7

ऋजीते परि णो नम-
-अग्रेण परि णो नम ।
अश्मानं तन्वं कृण्महे
अद्या नः सोम मृडय ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc