पैप्पलाद-संहिता · अध्याय 1.84
यत् ते चतस्रः प्रदिशो
मनो जगाम दूरकम् ।
तत् त आ वर्तयामसि-
-इह क्षयाय जीवसे ॥
यत् ते भूमिं चतुःस्रक्तिं
मनः (…) ॥
यत् ते यमं वैवस्वतं
मनः (…) ॥
यत् ते समुद्रम् अर्णवं
मनः (…) ॥
यत् ते दिवं यत् पृथिवीं
मनः (…) ॥
यत् ते वायुम् अन्तरिक्षं
मनः (…) ॥
यत् ते सूर्यं यद् उषसं
मनः (…) ॥
यत् ते चन्द्रं नक्षत्राणि
मनः (…) ॥
यत् त आपो यद् ओषधीर्
मनः (…) ॥
यत् ते परां परावतं
मनो जगाम दूरकम् ।
तत् त आ वर्तयामसि-
-इह क्षयाय जीवसे ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0