भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 1.76

1.76.1

ऊर्ध्वो भव प्रति विध्याध्य् अस्मद्
उग्रं धनुर् ओजस्वान् आ तनुष्व ।
प्रति दुर्हार्दं हरसा शृणीहि
कृत्वानम् अग्ने अधरं कृणुष्व ॥

1.76.2

प्रत्य् एनं याहि प्रति भङ्ध्य् एनं
विविध्यन्न् अग्ने वितरं वि भाहि ।
प्रत्यङ् प्रेहि वर्त्मना जर्हृषाणः
कृत्याकृते दुष्कृते माधि वोचः ॥

1.76.3

यो नो दुर्हार्द् धृदयेनाभिवस्ते
यश् चक्षुषा मनसा यश् च वाचा ।
प्रत्यङ् दंष्ट्राभ्याम् अभि तं बुभूषन्
कृत्याकृतं दुष्कृतं निर् दहाग्ने ॥

1.76.4

प्रतीबोधश् चतुरक्षो
दिव्यो अश्मेव वीडुभित् ।
प्रभञ्जञ् छत्रून् प्रति याह्य् अग्ने
कृत्याकृतं दुष्कृतं हृदये विध्य मर्मणि ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc