पैप्पलाद-संहिता · अध्याय 1.74
इन्द्रो देवानां वरुणो धृतव्रतः
सोमो वीरुधां जगतः परस्पाः ।
वायुः पशूनां पशुपा जनानाम्
अयं पुरोरा नो अस्यास्तु मूर्धा ॥
मूर्धा दिवो अन्तरिक्षस्य मूर्धा
मूर्धा सिन्धूनाम् उत पर्वतानाम् ।
मूर्धा विश्वस्य भुवनस्य राजा-
-अयं पुरोरा नो अस्यास्तु मूर्धा ॥
मृधस् ते सम्राड् अव हन्तु सर्वाँ
अमित्रान् राजा वरुणो विषूचः ।
इन्द्रः शत्रून् असुनीतिं नयाति ते
ऽयं पुरोरा नो अस्यास्तु मूर्धा ॥
विशस् त्वा राजन् प्रदिशो जुषन्तां
दैवीर् विशः सुप्रकेताः सकेताः ।
विश्वा आशा मनुष्यो वि भाह्य्
अयं पुरोरा नो अस्यास्तु मूर्धा ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0