पैप्पलाद-संहिता · अध्याय 1.47
व्याघ्ररूपः सुरभिः
सिंहस्य रेतसा कृतः ।
मध्ये पृथिव्या निष्ठितः
सम् अख्यद् यातुधान्यः ॥
अभि प्रेहि माप विक्थाः
पदे गृभाय मापदे ।
अत्रैव सर्वा जम्भय
याः काश् च यातुधान्यः ॥
प्रतीबोधश् चतुरक्षः
स्रक्त्यो अश्मेव वीडुभित् ।
प्रतीचीः कृत्या आकृत्य-
-अमुं कृत्याकृतं जहि ॥
कृत्याकृतं वलगिनं
मूलिनं शपथेय्यम् ।
इन्द्रस् तु सर्वांस् तान् हन्तु
सप्तघ्नेन रुवाम् इव ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0