भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 1.32

1.32.1

यद् अग्निर् आपो अदहत् प्रविश्य
यत्राकृण्वन् धर्मधृतो नमांसि ।
तत्र त आहुः परमं जनित्रं
स नः संविद्वान् परि वृङ्धि तक्मन् ॥

1.32.2

यदि शोको यद्य् अभीशोको
रुद्रस्य प्राणो यदि वारुणो ऽसि ।
हुडुर् नामासि हरितस्य देव
स नः संविद्वान् परि वृङ्धि तक्मन् ॥

1.32.3

यद्य् अर्चिर् यदि वासि धूमः
शकल्येषु यदि वा ते जनित्रम् ।
हुडुर् नामासि हरितस्य देव
स नः संविद्वान् परि वृङ्धि तक्मन् ॥

1.32.4

नमः शीताय तक्मने
नमो रूराय कृण्मो वयं ते ।
यो +ऽन्येद्युर् उभयद्युश् चरन्ति
तृतीयकाय नमो अस्तु तक्मने ॥

1.32.5

तृतीयकं वितृतीयं
सदन्दिम् उत हायनम् ।
तक्मानं विश्वशारदं
ग्रैष्मं नाशय वार्षिकम् ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc