भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 1.27

1.27.1

अभयं सोमः सविता कृणोत्व्
अभयं द्यावापृथिवी उभे ।
अभयं स्वर् अन्तरिक्षं नो अस्तु
सप्तऋषीणां हविषाभयं नो ऽस्तु ॥

1.27.2

अभयं द्यावापृथिवी इहास्तु नो
अग्निनामित्रान् प्रत्य् ओषतं प्रतीचः ।
मा ज्ञातारं मा प्रतिष्ठां विदन्त
मिथो विघ्नाना उप यन्तु मृत्युम् ॥

1.27.3

पञ्च देवा अभयस्येशत
इन्द्रस् त्वष्टा वरुणो मित्रो अग्निः ।
मायं ग्रामो दुरितम् एन आरद्
अन्यत्र राज्ञाम् अभि यातु मन्युः ॥

1.27.4

अस्मै ग्रामाय प्रदिशश् चतस्र
ऊर्जं सुभूतं सविता दधातु ।
अशत्रुम् इन्द्रो अभयं कृणोतु
मध्ये च विशां सुकृते स्याम ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc