भाषा

ENहिગુ
ग्रंथ पाठ

पद्यावली · अध्याय 1

1.1

(पर्त् इ)
पद्यावली विरचिता रसिकैर् मुकुन्द-
सम्बन्ध-बन्धुर-पदा प्रमोदोर्मि-सिन्धुः ।
रम्या समस्त-तमसां दमनी क्रमेण
संगृह्यते कृति-कदम्बक-कौतुकाय

1.2

ग्रन्थप्रारम्भे मङ्गलाचरणम् ।
नमो नलिन-नेत्राय
वेणु-वाद्य-विनोदिने ।
राधाधर-सुधापान-
शालिने वन-मालिने

1.3

कस्यचित् ॥
भक्ति-प्रह्व-विलोकन-प्रणयिनी नीलोत्पल-स्पर्धिनी
ध्यानालम्बनतां समधि-निरतैर् नीते हित-प्राप्तये ।
लावण्यैक-महा-निधौ रसिकतां राधा-दृशोस् तन्वती
युष्माकं कुरुतां भवार्ति-शमनं नेत्रे तनुर् वा हरेः

1.4

श्री-सारङ्गस्य ॥
ये गोवर्धन-मूल-कर्दम-रस-व्यादष्ट-बर्ह-च्छदा
ये वृन्दावन-कुक्षिषु व्रज-वधू-लीलोपधानानि च ।
ये चाभ्यङ्ग-सुगन्धयः कुवलयापीडस्य दानाम्भसा
ते वो मङ्गलम् आदिशन्तु सततं कंस-द्विषो बाहवः

1.5

शुभाङ्कस्य ॥ (स्क्म् 1.59.3)
सायं व्यावर्तमानखिल-सुरभि-कुलाह्वान-संकेत-नामान्य्
अभीरी-वृन्द-चेतो हठ-हरण-कला-सिद्ध-मन्त्राक्षराणि ।
सौभाग्यं वः समन्ताद् दधतु मधु-भिदः केलि-गोपाल-मूर्तेः
सानन्दकृष्ट-वृन्दावन-रसिक-मृग-श्रेणयो वेणु-नादाः

1.6

उमापतिधरस्य ॥ (स्क्म् 1.57.3)
अथ श्री-कृष्णस्य महिमा ।
अम्भोभिः स्थलतां स्थलं जलधितां धूलीलवः शैलतां
शैली मृत्-कणतां तृणं कुलिशतां वज्रं तृण-क्षीणताम् ।
वह्निः शीतलतां हिमं वहनताम् आयाति यस्येच्छया
लीला-दुर्ललिताद्भुत-व्यसनिनं कृष्णाय तस्मै नमः

1.7

कस्यचित् ॥
वात्सल्याद् अभय-प्रदान-समयाद् आर्तार्ति-निर्वापणाद्
औदार्याद् अघ-शोषणाद् अगणित-श्रेयः-पद-प्रापणात् ।
सेव्यः श्री-पतिर् एव सर्व-जगताम् एते यतः साक्षिणः
प्रह्लादश् च विभीषणश् च करिराट् पाञ्चल्य-हल्या ध्रुवः

1.8

कस्यचित् ॥
अथ भजन-माहात्म्यम् ।
व्याधस्याचरणं ध्रुवस्य च वयो विद्या गजेन्द्रस्य का
कुब्जायाः किम् उ नाम रूपम् अधिकं किं तत् सुदाम्नो धनम् ।
वंशः को विदुरस्य यादवपतेर् उग्रस्य किं पौरुषं
भक्त्या तुष्यति केवलं न च गुणैर् भक्ति-प्रियो माधवः

1.9

श्री-दाक्षिणात्यस्य ॥
अनुचितम् उचितं वा कर्म कोऽयं विभागो
भगवति परम् आस्तां भक्ति-योगो द्रढीयान् ।
किरति विष-महीन्द्रः सान्द्र-पीयूषम् इन्दुर्
द्वयम् अपि स महेशो निर्विशेषं बिभर्ति

1.10

श्री-विष्णुपुरीपादानाम् ॥
यदि मधु-मथन त्वद्-अङ्घ्रि-सेवां
हृदि विदधाति जहाति वा विवेकी ।
तद्-अखिलम् अपि दुष्कृतं त्रिलोके
कृतम् अकृतं न कृतं कृतं च सर्वम्

1.11

तेषम् एव ॥
काषायान् न च भोजनादि-नियमान् नो वा वने वासतो
व्याख्यानाद् अथ वा मुनि-व्रत-भराच् चित्तोद्भवः क्षीयते ।
किन्तु स्फीत-कलिन्द-शैल-तनया-तीरेषु विकीडतो
गोविन्दस्य पदारविन्द-भजनारम्भस्य लेशाद् अपि

1.12

कस्यचित् ॥
अलम् अलम् इयम् एव प्राणिनां पातकानां
निरसन-विषये या कृष्ण कृष्णेति वाणी ।
यदि भवति मुकुन्दे भक्तिर् आनन्द-सान्द्रा
विलुठति चरणाब्जे मोक्ष-साम्राज्य-लक्ष्मीः

1.13

श्री-सर्वज्ञस्य ॥
नानोपचार-कृत-पूजनम् आर्त-बन्धोः
प्रेम्णैव भक्त-हृदयं सुख-विद्रुतं स्यात् ।
यावत् क्षुद् अस्ति जठरे जरठा पिपासा
तावत् सुखाय भवतो ननु भक्ष्य-पेये

1.14

श्री-रामानन्दरायस्य । (च्च्म्क् 13.42; च्च् 2.8.69)
कृष्ण-भक्ति-रस-भावित-मतिः
क्रियतां यदि कुतोऽपि लभ्यते
तत्र लौल्यम् अपि मूल्यम् एकलं
जन्म-कोटि-सुकृतैर् न लभ्यते

1.15

तस्यैव । (च्च् 2.8.70)
ज्ञानम् अस्ति तुलितं च तुलायां
प्रेम नैव तुलितं तु तुलायाम् ।
सिद्धिर् एव तुलितात्र तुलायां
कृष्ण-नाम तुलितं न तुलायाम्

1.16

श्री-श्री-धरस्वामिपादानाम् ॥
अथ नाममाहात्म्यम् ।
अंहः संहरद् अखिलं सकृद्
उदयाद् एव सकल-लोकस्य ।
तरणिर् इव तिमिर-जलधिं
जयति जगन्-मङ्गलं हरेर् नाम

1.17

श्री-लक्ष्मीधराणाम् ॥ (नामकौमुदी 1.2; च्च् 3.3.180)
चतुर्णां वेदानां हृदयम् इदम् आकृष्य हरिणा
चतुर्भिर् यद् वर्णैः स्फुटम् अघटि नारायण-पदम् ।
तद् एतद् गायन्तो वयम् अनिशम् आत्मानम् अधुना
पुनीमो जानीमो न हरि-परितोषाय किम् अपि

1.18

कस्यचित् ॥
योग-श्रुत्य्-उपपत्ति-निर्जन-वन-ध्यानाध्व-सम्भावित-
स्वाराज्यं प्रतिपद्य निर्भयम् अमी मुक्ता भवन्तु द्विजाः ।
अस्माकं तु कदम्ब-कुञ्ज-कुहर-प्रोन्मीलद्-इन्दीवर-
श्रेणी-श्यामल-धाम-नाम जुषतां जन्मास्तु लक्षावधि

1.19

श्री- ईश्वर-पुरी-पादानाम् ॥
कल्याणानां निधानं कलि-मल-मथनं पावनं पावनानां
पाथेयं यन् मुमुक्षोः सपदि परपदप्राप्तये प्रोच्यमानम् ।
विश्राम-स्थानम् एकं कवि-वर-वचसां जीवनं सज्जनानां
बीजं धर्म-द्रुमस्य प्रभवतु भवतां भूतये कृष्ण-नाम

1.20

कस्यचित् ॥
वेपन्ते दुरितानि मोह-महिमा सम्मोहम् आलम्बते
सातङ्कं नख-रजनीं कलयति श्री-चित्रगुप्तः कृती ।
सानन्दं मधुपर्क-सम्भृति-विधौ वेधाः करोत्य् उद्यमं
वक्तुं नाम्नि तवेश्वराभिलषिते ब्रूमः किम् अन्यत् परम्

1.21

कस्यचित् ॥
कः परेत-नगरी-पुरन्दरः
को भवेद् अथ तदीय-किङ्करः ।
कृष्ण-नाम जगद्-एक-मङ्गलं
कण्ठ-पीठम् उररीकरोति चेत्

1.22

श्री- आनन्दाचार्यस्य ।
चेतो-दर्पण-मार्जनं भव-महा-दावाग्नि-निर्वापणं
श्रेयः-कैरव-चन्द्रिका-वितरणं विद्या-वधू-जीवनम् ।
आनन्दाम्बुधि-वर्धनं प्रति-पदं पूर्णामृतास्वादनं
सर्वात्म-स्नपनं परं विजयते श्री-कृष्ण-सङ्कीर्तनम्

1.23

श्री-श्री-भगवतः ॥ (च्च् 3.20.12)
ब्रह्माण्डानां कोटि-सङ्ख्याधिकानाम्
ऐश्वर्यं यच् चेतना वा यद् अंशः ।
आविर्भूतं तन्-महः कृष्ण-नाम
तन् मे साध्यं साधनं जीवनं च

1.24

केषांचित् ॥
विष्णोर् नामैव पुंसाः शमलम् अपहरत् पुण्यम् उत्पादयच् च
ब्रह्मादि-स्थान-भोगाद् विरतिम् अथ गुरोः श्री-पद-द्वन्द्व-भक्तिम् ।
तत्त्व-ज्ञानं च विष्णोर् इह मृति-जनन-भ्रान्ति-बीजं च दग्ध्वा
संपूर्णानन्द-बोधे महति च पुरुषं स्थापयित्वा निवृत्तम्

1.25

श्री-भगवद्-व्यास-पादानाम् ॥
नाम चिन्तामणिः कृष्णश्
चैतन्य-रस-विग्रहः ।
पूर्णः शुद्धो नित्य-मुक्तो
ऽभिन्नत्वान् नाम-नामिनोः

1.26

तेषाम् एव ॥ (पद्मपुराण, च्च् 2.17.133, ह्ब्व् 11.503)
मधुर-मधुरम् एतन् मङ्गलं मङ्गलानां
सकल-निगम-वल्ली-सत्-फलं चित्-स्वरूपम् ।
सकृदपि परिगीतं श्रद्धया हेलया वा
भृगु-वर नर-मात्रं तारयेत् कृष्ण-नाम

1.27

तेषाम् एव ॥ (ह्ब्व् 11.451; स्कान्दपुराण, प्रभास-खण्डे)
स्वर्गार्थीया व्यवसितिर् असौ दीनयत्य् एव लोकान्
मोक्षापेक्षा जनयति जनं केवलं क्लेशभाजम् ।
योगाभ्यासः परम-विरसस् तादृशैः किं प्रयासैः
सर्वं त्यक्त्वा मम तु रसना कृष्ण कृष्णेति रौतु

1.28

कस्यचित् ॥
सदा सर्वत्रास्ते ननु विमलम् आद्यं तव पदं
तथाप्य् एकं स्तोकं न हि भव-तरोः पत्रम् अभिनत् ।
क्षणं जिह्वाग्र-स्थं तव तु भगवन्-नाम निखिलं
स-मूलं सम्भारं कषति कतरत् सेव्यम् अनयोः

1.29

श्री-श्री-धरस्वामिपादानाम् ॥
आकृष्टिः कृत-चेतसां सुमनसाम् उच्चांअनं चांहसाम्
आचण्डालम् अमूक-लोक-सुलभो वश्यश् च मुक्ति-श्रियः ।
नो दीक्षां न च सत्-क्रियां न च पुरश्चर्यां मनाग् ईक्षते
मन्त्रो ऽयं रसना-स्पृग् एव फलति श्री-कृष्ण-नामात्मकः

1.30

श्री-लक्ष्मीधराणाम् ॥ (भगवन्-नाम-कौमुदी 133; च्च् मध्य 15.110)
विचेयानि विचार्याणि
विचिन्त्यानि पुनः पुनः ।
कृपणस्य धनानीव
त्वन्-नामानि भवन्तु नः

1.31

श्री-भवानन्दस्य ॥
नाम्नाम् अकारि बहुधा निज-सर्व-शक्तिस्
तत्रार्पिता नियमितः स्मरणे न कालः ।
एतादृशी तव कृपा भगवन् ममापि
दुर्दैवम् ईदृशम् इहाजनि नानुरागः

1.32

श्री-भगवतः । (च्च् 3.20.16)
अथ नामकीर्तनम् ।
तृणाद् अपि सुनीचेन
तरोर् इव सहिष्णुना ।
अमानिना मानदेन
कीर्तनीयः सदा हरिः

1.33

तस्यैव ॥ (च्च् 3.20.21)
श्री-रामेति जनार्दनेति जगतां नाथेति नारायणे-
त्यानन्देति दयापरेति कमलाकान्तेति कृष्णेति च ।
श्री-मन्-नाम-महामृताब्धि-लहरी-कल्लोलमग्नं मुहु-
र्मुह्यन्तं गलद्-अश्रु-नेत्रमवशं मां नाथ नित्यं कुरु

1.34

श्री-लक्ष्मीधराणाम् ॥ (द्च्प् 2)
श्री-कान्त कृष्ण करुणामय कञ्जनाभ
कैवल्यवल्लभ मुकुन्द मुरान्तकेति ।
नामावलीं विमलमौक्तिकहारलक्ष्मी-
लावण्य-वञ्चनकरीं करवाणि कण्ठे

1.35

तेषामेव ॥ (द्च्प् 3)
कृष्ण राम मुकुन्द वामन वासुदेव जगद्गुरो
मत्स्य कच्छप नारसिंह वराह राघव पाहि माम् ।
देवदानवनारदादिमुनीन्द्रवन्द्य दयानिधे
देवकीसुत देहि मे तव पादभक्तिमचञ्चलाम्

1.36

कस्यचित् ॥ (द्च्प् 4)
हे गोपालक हे कृपा-जल-निधे हे सिन्धु-कन्या-पते
हे कंसान्तक हे गजेन्द्र-करुणा-पारीण हे माधव ।
हे रामानुज हे जगत्-त्रय-गुरो हे पुण्डरीकाक्ष मां
हे गोपीजन-नाथ पालय परं जानामि न त्वां विना

1.37

श्री-वैष्णवस्य ॥ (क्क् 2.108, द्च्प् 5)
श्री-नारायण पुण्डरीक-नयन श्री-राम सीता-पते
गोविन्दाच्युत नन्द-नन्दन मुकुन्दानन्द दामोदर ।
विष्णो राघव वासुदेव नृ-हरे देवेन्द्र-चूडामणे
संसारार्णव-कर्ण-धारक हरे श्री-कृष्ण तुभ्यं नमः

1.38

तस्यैव ॥
भाण्डीरेश शिखण्ड-मण्डन वर श्री-खण्ड-लिप्ताङ्ग हे
वृन्दारर्ण्य-पुरन्दर स्फुरद्-अमन्देन्दीवर-श्यामल ।
कालिन्दी-प्रिय नन्द-नन्दन परानन्दारविन्देक्षण
श्री-गोविन्द मुकुन्द सुन्दर-तनो मां दीनम् आनन्दय

1.39

श्री-गोपाल-भट्टानाम् ॥
श्री-कृष्णकथामाहात्म्यम् ।
श्रुतम् अप्य् औपनिषदं
दूरे हरि-कथामृतात् ।
यन् न सन्ति द्रवच्-चित्त-
कम्पाश्रु-पुलकादयः

1.40

श्री-भगवद्व्यासपादानाम् ॥ [भक्ति-सन्दर्भ 69]
नैव दिव्य-सुख-भोगम् अर्थये
नापवर्गम् अपि नाथ कामये ।
यान्तु कर्ण-विवर दिने दिने
कृष्ण-केलि-चरितामृतानि मे

1.41

श्री-कविरत्नस्य ॥
अहो अहोभिर् न कलेर् विदूयते
सुधा-सुधाराम् अधुरं पदे पदे ।
दिने दिने चन्दन-चन्द्र-शीतलं
यशो यशोदा-तनयस्य गीयते

1.42

तस्यैव ॥
नन्द-नन्दन-कैशोर-
लीलामृत-महाम्बुधौ ।
निमग्नानां किम् अस्माकं
निर्वाण-लवणाम्भसा

1.43

श्री-यादवेन्द्रपुरीपादानाम् ॥
त्वत्-कथामृत-पाथोधौ
विहरन्तो महा-मुदः ।
कुर्वन्ति कृतिनः केचिच्
चतुर्-वर्गं तृणोपमम्

1.44

श्री-श्री-धरस्वामिपादानाम् ॥
तत्रैव गङ्गा यमुना च तत्र
तत्र गोदावरी तत्र सरस्वती च ।
सर्वाणि तीर्थानि वसन्ति तत्र
यत्राच्युतोदार-कथा-प्रसङ्गः

1.45

कस्यचित् ॥
या भुक्ति-लक्ष्मीर् भुवि कामुकानां
या मुक्ति-लक्ष्मीर् हृदि योगभाजाम् ।
यानन्द-लक्ष्मी रसिकेन्द्र-मौलेः
सा कापि लीलावतु माधवस्य

1.46

श्री-शङ्करस्य ॥
अथ श्री-कृष्णध्यानम् ।
फुल्लेन्दीवर-कान्तिम् इन्दु-वदनं बर्हावतंस-प्रियं
श्री-वत्साङ्कम् उदार-कौस्तुभ-धरं पीताम्बरं सुन्दरम् ।
गोपीनां नयनोत्पलार्चित-तनुं गो-गोप-सङ्घावृतं
गोविन्दं कल-वेणु-वादन-परं दिव्याङ्ग-भूषं भजे

1.47

श्री-शारदाकारस्य ॥ [क्क् 3.82; कृष्णस् 106 (प्49fन्) अत्त्रिबुतेद् तो मृत्यु-सञ्जय-तन्त्र; इबिद्. ह्ब्व् 3.114 (सारदा-तिलके च). इन् र्कद् तो स्वायम्भुवागम.]
अंसालम्बित-वाम-कुण्डल-धरं मन्दोन्नत-भ्रू-लतं
किञ्चित्-कुञ्चित-कोमलाधर-पुटं साचि-प्रसारेक्षणम् ।
आलोलाङ्गुलि-पल्लवैर् मुरलिकाम् आपूरयन्तं मुदा
मुले कल्प-तरोस् त्रिभङ्ग-ललितं ध्यायेज् जगन्-मोहनम्

1.48

कस्यचित् ॥ (क्क् 2.102)
अधरे विनिहित-वंशं
चम्पक-कुसुमेन कल्पितोत्तंसम् ।
विनतं दधानम् अंसं
वामं सततं नमामि जितकंसम्

1.49

श्री-पुरुषोत्तम-देवस्य ।
व्यत्यस्त-पाद-कमलं ललित-त्रिभङ्गी-
सौभाग्यम् अंस-विरलीकृत-केश-पाशम् ।
पिञ्छावतंसम् उररीकृत-वंश-नालम्
अव्याज-मोहनम् उपैमि कृपा-विशेषम्

1.50

श्री-नारदस्य ।
अथ भक्त-वात्सल्यम् ।
अतन्द्रित-चमू-पति-प्रहित-हस्तम् अस्वीकृत-
प्रणीत-मणि-पादुकं किम् इति विस्मृतान्तः पुरम् ।
अवाहन-परिष्क्रियं पतग-राजम् आरोहतः
करि-प्रवर-बृंहिते भगवतस् त्वरायै नमः

1.51

श्री-दाक्षिणात्यस्य ।
श्री-द्रौपदी-त्राणे तद्-वाक्यम् ।
तमसि रविर् इवोद्यन्-मज्जताम् अप्लवानां
प्लव इव तृषितानां स्वादु-वऋसीव मेघः ।
निधिर् इव निधनानां तीव्र-दुःखामयानां
भिषग् इव कुशलं नो दातुम् आयाति शौरिः

1.52

श्री-व्यास-पादानाम् ।
अथ तद्-भक्तानां माहात्म्यम् ।
प्रह्लाद-नारद-पराशर-पुण्डरीक-
व्यासाम्बरीष-शुक-शौनक-भीष्म-दाल्भ्यान् ।
रुक्माङ्गदोद्धव-विभीषण-फाल्गुनादीन्
पुण्यानिमान् परमभागवतान् नमामि

1.53

श्री-दाक्षिणात्यस्य ॥
श्री-विष्णोः श्रवणे परीक्षिद् अभवद् वैयासकिः कीर्तने
प्रह्लादः स्मरणे तद्-अङ्घ्रि-भजने लक्ष्मीः पृथुः पूजने ।
अक्रूरस् त्व् अभिवन्दने कपि-पतिर् दास्ये ऽथ सख्ये ऽर्जुनः
सर्वस्वात्म-निवेदने बलिर् अभूत् कृष्णाप्तिर् एषां परा

1.54

कस्यचित् ॥ (च्च् 2.22.136; ब्र्स् 1.2.365)
तेभ्यो नमोऽस्तु भव-वारिधि-जीर्ण-पङ्क-
संलग्न-मोक्षण-विचक्षण-पादुकेभ्यः ।
कृष्णेति वर्ण-युगल-श्रवणेन येषाम्
आनन्दथुर् भवति नर्तित-रोम-वृन्दः

1.55

औत्कलस्य ॥
हरि-स्मृत्याह्लाद-स्तिमित-मनसो यस्य कृतिनः
स-रोमाञ्चः कायो नयनम् अपि सानन्द-सलिलम् ।
तम् एवाचन्द्रार्कं वह पुरुष-धौरेयम् अवने
किम् अन्यैस् तैर् भारैर् यम-सदन-गत्यागति-परैः

1.56

श्री-सर्वानन्दस्य ।
त्वद्-भक्तः सरितां पतिं चुलुकवत् खद्योतवद् भास्करं
मेरुं पश्यति लोष्ट्रवत् किम् अपरं भूमेः पतिं भृत्यवत् ।
चिन्तारत्न-चयं शिला-शकलवत् कल्प-द्रुमं काष्ठवत्
संसारं तृण-राशिवत् किम् अपरं देहं निजं भारवत्

1.57

श्री-सर्वज्ञस्य ।
मीमांसा-रजसा मलीमस-दृशां तावन् न धीर् ईश्वरे
गर्वोदर्क-कुतर्क-कर्कश-धियां दूरेऽपि वार्ता हरेः ।
जानन्तोऽपि न जानते श्रुति-सुखं श्री-रङ्गि-सङ्गाद् ऋते
सुस्वादुं परिवेषयन्त्य् अपि रसं गुर्वी न दर्वी स्पृशेत्

1.58

श्री-माधव-सरस्वती-पादानाम् ।
ज्ञानावलम्बकाः केचित्
केचित् कर्मावलम्बकाः ।
वयं तु हरि-दासानां
पाद-त्राणावलम्बकाः

1.59

कस्यचित् ।
अथ भक्तानां दैन्योक्तिः
नामानि प्रणयेन ते सुकृतिनां तन्वन्ति तुण्डोत्सवं
धामानि प्रथयन्ति हन्त जलदश्यामानि नेत्राञ्जनम् ।
सामानि श्रुतिशुष्कलीं मुरलिकाजातान्यलंकुर्वते
कामानिर्वृतचेतसाम् अपि विभो नाशापि नः शोभते

1.60

समाहर्तुः ॥
संसाराम्भसि सम्भृत-भ्रम-भरे गम्भीर-ताप-त्रय-
ग्राहेणाभिगृहीतम् उग्रगतिना क्रोशन्तम् अन्तर्-भयात् ।
दीप्रेणाद्य सुदर्शनेन विबुध-क्लान्ति-च्छिदाकारिणा
चिन्ता-सन्तति-रुद्धम् उद्धर हरे मच्-चित्त-दन्तीश्वरम्

1.61

समाहर्तुः ॥
विवृत-विविध-बाधे भ्रान्ति-वेगाद् अगाधे
बलवति भव-पूरे मज्जतो मे विदूरे ।
अशरण-गण-बन्धो हा कृपा-कौमुदीन्दो
सकृद् अकृत-विलम्बं देहि हस्तावलम्बम्

1.62

समाहर्तुः ।
नृत्यन् वायु-विघूर्णितैः स्व-विटपैर् गायन्न् अलीनां रुतैर्
मुञ्चन्न् अश्रु मरन्द-बिन्दुभिर् अलं रोमाञ्चवान् अङ्कुरैः ।
माकन्दोऽपि मुकुन्द मूर्च्छति तव स्मृत्या तु वृन्दावने
ब्रूहि प्राणसमान चेतसि कथं नामापि नायाति ते

1.63

श्री- ईश्वरपुरीपादानाम् ।
या द्रौपदी-परित्राणे
या गजेन्द्रस्य मोक्षणे ।
मय्य् आर्ते करुणामूर्ते
सा त्वरा क्व गता हरे

1.64

श्री- औत्कलस्य
दीन-बन्धुर् इति नाम ते स्मरन्
यादवेन्द्र पतितोऽहम् उत्सहे ।
भक्त-वत्सलतया त्वयि श्रुते
मामकं हृदयम् आशु कम्पते

1.65

श्री-जगन्नाथसेनस्य ।
स्तावकास् तव चतुर्मुखादयो
भावकास् तु भगवन् भवादयः ।
सेवकाः शतमुखादयः सुरा
वासुदेव यदि के तदा वयम्

1.66

श्री-धनञ्जयस्य ।
परम-कारुणिको न भवत्-परः
परम-शोच्यतमो न च मत्-परः ।
इति विचिन्त्य हरेः मयि पामरे
यद् उचितं यदुनाथ तद् आचर

1.67

कस्यचित् ।
भवोद्भव-क्लेश-कशा-शताहतः
परिभ्रमन्न् इन्द्रिय-कापथान्तरे ।
नियम्यतां माधव मे मनो-हयस्
त्वद्-अङ्घ्रि-शङ्कौ दृढ-भक्ति-बन्धने

1.68

कस्यचित् ।
न ध्यातोऽसि न कीर्तितोऽसि न मनाग् आराधितोऽसि प्रभो
नो जन्मान्तर-गोचरे तव पदाम्भोजे च भक्तिः कृता ।
तेनाहं बहु-दुःख-भाजनतया प्राप्तो दशाम् ईदृशीं
त्वं कारुण्य-निधे विधेहि करुणां श्री-कृष्ण दीने मयि

1.69

श्री-शङ्करस्य ।
शरणम् असि हरे प्रभो मुरारे
जय मधुसूदन वासुदेव विष्णो
निरवधि-कलुषौघ-कारिणं मां
गति-रहितं जगदीश रक्ष रक्ष

1.70

कस्यचित् ॥
दिनादौ मुरारे निशादौ मुरारे
दिनार्धे मुरारे निशार्धे मुरारे ।
दिनान्ते मुरारे निशान्ते मुरारे
त्वम् एको गतिर् नस् त्वम् एको गतिर् नः

1.71

श्री-दाक्षिणात्यस्य ॥
अयि नन्द-तनुज किङ्करं
पतितं मां विषमे भवाम्बुधौ
कृपया तव पाद-पङ्कज-
स्थित-धूली-सदृशं विचिन्तय

1.72

श्री-भगवतः । (च्च् 3.20.32)
अथ भक्तानां निष्ठा
न वयं कवयो न तार्किका
न च वेदान्तनितान्तपारगाः ।
न च वादिनिवारकाः परं
कपटाभीरकिशोरकिङ्कराः

1.73

श्री-सार्वभौम-भट्टाचार्याणाम् ॥
परिवदतु जनो यथा तथा वा
ननु मुखरो न वयं विचारयामः
हरि-रस-मदिरा मदातिमत्ता
भुवि विलुठाम नटाम निर्विशाम

1.74

तेषाम् एव ॥ (ब्र्स् 2.2.15)
नाहं विप्रो न च नरपतिर् नापि वैश्यो न शूद्रो
नाहं वर्णी न च गृहपतिर् नो वनस्थो यतिर् वा ।
किन्तु प्रोद्यन्-निखिल-परमानन्द-पूर्णामृताब्धेर्
गोपी-भर्तुः पद-कमलयोर् दास-दासानुदासः

1.75

श्री-भगवतः । (च्च् 2.13.80)
धन्यानां हृदि भासतां गिरि-वर-प्रत्यग्र-कुञ्जौकसां
सत्यानन्द-रसं विकार-विभव-व्यावृत्तम् अन्तर्-महः ।
अस्माकं किल वल्लवी-रति-रसो वृन्दाटवी-लालसो
गोपः कोऽपि महेन्द्र-नील-रुचिरश् चित्ते मुहुः क्रीडतु

1.76

श्री- ईश्वर-पुरीपादानाम् ।
रसं प्रशंसन्तु कविता-निष्ठा
ब्रह्मामृतं वेद-शिरो-निविष्ठाः ।
वयं तु गुञ्जाकलितावतंसं
गृहीत-वंशं कम् अपि श्रयामः

1.77

श्री-यादवेन्द्र-पुरीपादानाम् ॥
ध्यानातीतं किम् अपि परमं ये तु जानन्ति तत्त्वं
तेषाम् आस्तां हृदय-कुहरे शुद्ध-चिन्मात्र आत्मा ।
अस्माकं तु प्रकृति-मधुरः स्मेर-वक्त्रारविन्दो
मेघ-श्यामः कनक-परिधिः पङ्कजाक्षोऽयम् आत्मा

1.78

श्री-कवि-रत्नस्य ॥ (ब्र्स् 3.2.28)
जातु प्रार्थयते न पार्थिव-पदं नेन्द्रे पदे मोदते
सन्धत्ते न च योग-सिद्धिषु धियं मोक्षं च नाकाङ्क्षति ।
कालिन्दी-वन-सीमनि स्थिर-तडिन्-मेघ-दूतौ केवलं
शुद्धे ब्रह्मणि वल्लवी-भुज-लता-बद्धे मनो धावति

1.79

तस्यैव ॥
सन्ध्या-वन्दन भद्रम् अस्तु भवतो भोः स्नान तुभ्यं नमो
भो देवाः पितरश् च तर्पण-विधौ नाहं क्षमः क्षम्यताम् ।
यत्र क्वापि निषद्य यादव-कुलोत्तमस्य कंस-द्विषः
स्मारं स्मारम् अघं हरामि तद् अलं मन्ये किम् अन्येन मे

1.80

श्री-माधवेन्द्र-पुरी-पादानाम् ॥
देवकी-तनय-सेवकीभवन्
यो भवानि स भवानि किं ततः ।
उत्पथे क्वचन सत्पथेऽपि वा
मानसं व्रजतु दैव-देशितं

1.81

कस्यचित् ॥
मुग्धं मां निगदन्तु नीति-निपुणा भ्रान्तं मुहुर् वैदिकाः
मन्दं बान्धव-सञ्चया जड-धियं मुक्तादराः सोदराः ।
उन्मत्तं धनिनो विवेक-चतुराः कामं महा-दाम्भिकं
मोक्तुं न क्षमते मनाग् अपि मनो गोविन्द-पाद-स्पृहाम्

1.82

श्री-माधवस्य ॥
श्यामम् एव परं रूपं
पुरी मधु-पुरी वरा ।
वयः कैशोरकं ध्येयम्
आद्य एव परो रसः

1.83

रघुपत्युपाध्यायस्य । (च्च् 2.19.106)
पुरतः स्फुरतु विमुक्तिश्
चिरम् इह राज्यं करोतु वैराज्यम् ।
पशुपाल-बालक-पतेः
सेवाम् एवाभिवाञ्छामि

1.84

श्री-सुरोत्तमाचार्यस्य ॥
क्षौणी-पतित्वम् अथवैकम् अकिञ्चनत्वं
नित्यं ददासि बहु-मानम् अथापमानम् ।
वैकुण्ठ-वासम् अथवा नरके निवासं
हा वासुदेव मम नास्ति गतिस् त्वद्-अन्या

1.85

श्री-गर्भकवीन्द्रस्य ॥
दिशतु स्वाराज्यं वा
वितरतु ताप-त्रयं वापि ।
सुखितं दुःखितम् अपि मां
न विमुञ्चतु केशवः

1.86

श्री-कविराजमिश्रस्य ॥
अथ भक्तानां सोत्कण्ठाप्रार्थना ।
नन्दनन्दन-पदारविन्दयोः
स्यन्दमान-मकरन्द-बिन्दवः ।
सिन्धवः परम-सौख्य-सम्पदां
नन्दयन्तु हृदयं ममानिशम्

1.87

श्री-कराचार्याणाम् ।
इह वत्सान् समचारयद्
इह नः स्वामी जगौ वंशीम् ।
इति सास्रं गदतो मे
यमुनातीरे दिनं यायात्

1.88

श्री-रघुपत्युपाध्यायस्य ।
अनुशीलन-कुञ्ज-वाटिकायां
जघनालम्बित-पीत-शाटिकायाम् ।
मुरली-कल-कूजिते रतायां
मम चेतोऽस्तु कदम्ब-देवतायाम्

1.89

श्री-गोविन्दस्य ।
आरक्त-दीर्घ-नयनो नयनाभिरामः
कन्दर्प-कोटि-ललितं वपुर् आदधानः ।
भूयात् स मेऽद्य हृदयाम्बुरुहाधिवर्ती
वृन्दाटवी-नगर-नागर-चक्रवर्ती

1.90

श्री-भवानन्दस्य ।
लावण्यामृत-वन्या
मधुरिम-लहरी-परीपाकः ।
कारुण्यानां हृदयं
कपट-किशोरः परिस्फुरतु

1.91

श्री-सार्वभौम-भट्टाचार्याणाम् ।
भवन्तु तत्र जन्मानि
यत्र ते मुरलीकलः ।
कर्णपेयस्त्वम् आयाति
किं मे निर्वाणवार्तया

1.92

तेषम् एव ।
आस्वाद्यं प्रमदारद-च्छदम् इव श्रव्यं नवं जल्पितं
बालाया इव दृश्यम् उत्तम-वधू-लावण्य-लक्ष्मीर् इव ।
प्रोद्घोष्यं चिर-विप्रयुक्त-वनिता-सन्देश-वाणीव मे
नैवेद्यं चरितं च रूपम् अनिशं श्री-कृष्ण नामास्तु मे

1.93

केषांचित् ।
नयनं गलद्-अश्रु-धारया
वदनं गद्गद-रुद्धया गिरा ।
पुलकैर् निचितं वपुः कदा
तव नाम-ग्रहणे भविष्यति

1.94

श्री-भगवतः । (च्च् 3.20.36)
न धनं न जनं न सुन्दरीं
कवितां वा जगद्-ईश कामये
मम जन्मनि जन्मनीश्वरे
भवताद् भक्तिर् अहैतुकी त्वयि

1.95

तस्यैव । (च्च् 3.20.29)
गोवर्धन-प्रस्थ-नवाम्बुवाहः
कलिन्द-कन्या-नव-नील-पद्मम् ।
वृन्दावनोदार-तमाल-शाखी
ताप-त्रयस्याभिनवं करोतु

1.96

श्री-गौडीयस्य ।
अनङ्ग-रस-चातुरी-चपल-चारु-नेत्राञ्चलश्
चलन्-मकर-कुण्डल-स्फुरित-कान्ति-गण्ड-स्थलः ।
व्रजोल्लसित-नागरी-निकर-रास-लास्योत्सुकः
स मे सपदि मानसे स्फुरतु कोऽपि गोपालकः

1.97

श्री-माधवेन्द्र-पुरीपादानाम् ।
अथ भक्तानाम् उत्कण्ठा ।
श्रुतयः पलालकल्पाः
किम् इह वयं साम्प्रतं चिनुमः ।
आह्रियत पुरैव नयनैर्
आभीरीभिः परं ब्रह्म

1.98

श्री-रघुपत्युपाध्ययस्य ॥
कं प्रति कथयितुम् ईशे
सम्प्रति को वा प्रतीतिम् आयातु
गो-पति-तनया-कुञ्जे
गोप-वधृंई-विंअं ब्रह्म

1.99

तस्यैव ॥(च्च् 2.19.98)
ज्ञातं काण-भुजं मतं परिचितैवान्वीक्षिकी शिक्षिता
मीमांसा विदितैव साङ्ख्य-सरणिर् योगे वितीर्णा मतिः ।
वेदान्तां परिशीलिताः सरभसं किं तु स्फुरन्-माधुरी-
धारा काचन नन्दसूनु-मुरली मच्-चित्तम् आकर्षति

1.100

श्री-सार्वभौम-भट्टाचार्याणाम् ।
अमरी-मुख-सीधु-माधुरीणां
लहरी काचन चातुरी कलानाम् ।
तरलीकुरुते मनो मदीयं
मुरली-नाद-परम्परा मुरारेः

1.101

तेषाम् एव ।
अपहरति मनो मे कोऽप्य् अयं कृष्ण-चौरः
प्रणत-दुरित-चोरः पूतना-प्राण-चौरः ।
वलय-वसन-चौरो बाल-गोपी-जनानां
नयन-हृदय-चौरः पश्यताम् सज्जनानाम्

1.102

कस्यचित् ।
अलं त्रि-दिव-वार्तया किम् इति सार्वभौम-श्रिया
विदूरतर-वर्तिनी भवतु मोक्ष-लक्ष्मीर् अपि ।
कलिन्द-गिरि-नन्दिनी-तट-निकुञ्ज-पुञ्जोदरे
मनो हरति केवलं नव-तमाल-नीलं महः

1.103

श्री-हरि-दासस्य ।
अवलोकितमनुमोदितम्
आलिङ्गितम् अङ्गनाभिर् अनुरागैः ।
अधिवृन्दावन-कुञ्जं
मरकत-पुञ्जं नमस्यामः

1.104

श्री-सर्व-विद्या-विनोदानाम् ।
कदा द्रक्ष्यामि नन्दस्य
बालकं नीप-मालकम् ।
पालकं सर्व-सत्त्वानां
लसत्-तिलक-भालकम्

1.105

श्री-माधवेन्द्र-पुरी-पादानाम् ।
कदा वृन्दारण्ये मिहिर-दुहितुः सङ्ग-माहिते
मुहुर् भ्रामं भ्रामं चरित-लहरीं गोकुल-पतेः ।
लपन्न् उच्चैर् उच्चैर् नयन-पयसां वेणिभिर् अहं
करिष्ये सोत्कण्ठं निविडम् उपसेकं विटपिनाम्

1.106

समाहर्तुः ।
दुरारोहे लक्ष्मीवति भगवतीनाम् अपि पदं
दधाना धम्मिल्ले नटति कठिने योपनिषदाम् ।
रुतिर् वंशी-जन्मा धृत-मधुरिमा सा मधुरिपोर्
अकस्माद् अस्माकं श्रुति-शिखरम् आरोक्ष्यति

1.107

समाहर्तुः ।
अत्रासीत् किल नन्द-सद्म शकटस्यात्राभवद् भञ्जनं
बन्ध-च्छेदकरोऽपि दामभिर् अभूद् बद्धोऽत्र दामोदरः ।
इत्थं मथुरा-वृद्ध-वक्त्र-विगलत्-पीयूष-धारां पिबन्
आनन्दाश्रुधरः कदा मधुपुरीं धन्यश् चरिष्याम्य् अहम् ॥
(qउओतेद् इन् ब्र्स् 1.3.40 - यथा पद्यावल्याम्, बुत् नोत् fओउन्द् इन् थिस् एदितिओन्)
उत्फुल्लता-पिञ्छ-मनोरम-श्री-र्
मातुः स्तन-न्यस्त-मुखारविन्दः ।
सञ्चालयन् पाद-सरोरुहाग्रं
कृष्णः कदा यास्यति दृक्-पथं मे

1.110

कस्यचित् ।
अथ मोक्षानादरः ।
भक्तिः सेवा भगवतो
मुक्तिस् तत्-पद-लङ्घनम् ।
को मूढो दासतां प्राप्य
प्राभवं पदमिच्छति

1.111

श्री-शिव-मौनिनाम् ।
भव-बन्ध-च्छिदे तस्यै
स्पृहयामि न मुक्तये ।
भवान् प्रभुर् अहं दास
इति यत्र विलुप्यते

1.112

श्री-हनुमतः ।
हन्त चित्रीयते मित्र
स्मृत्वा तान् मम मानसम् ।
विवेकित्नोऽपि ये कुर्युस्
तृष्णाम् आत्यन्तिके लये

1.113

केषांचित् ।
का त्वं मुक्तिर् उपागतास्मि भवती कस्माद् अकस्माद् इह
श्री-कृष्ण-स्मरणेन देव भवती दासी-पदं प्रापिता ।
दूरे तिष्ठ मनाग् अनागसि कथ कुर्याद् अनार्यं मयि
त्वद्-गन्धान् निज-नाम-चन्दन-रसालेपस्य लोपो भवेत्

1.114

कस्यचित् ।
अथ श्री-भगवद्धर्मतत्त्वम् ।
अर्च्ये विष्णौ शिला-धीर् गुरुषु नर-मतिर् वैष्णवे जाति-बुद्धिर्
विष्णोर् वा वैष्णवानां कलि-मल-मथने पाद-तीर्थे ऽम्बु-बुद्धिः ।
श्री-विष्णोर् नाम्नि मन्त्रे सकल-कलुष-हे शब्द-सामान्य-बुद्धिर्
विष्णौ सर्वेश्वरेशे तद्-इतर-सम-धीर् यस्य वा नारकी सः

1.115

श्री-दाक्षिणात्यस्य ॥
हत्यां हन्ति यद्-अङ्घ्रि-सङ्ग-तुलसी स्तेयं च तोयं पदोर्
नैवेद्यं बहु-मद्य-पान-दुरितं गुर्व्-अङ्गना-सङ्गजम् ।
श्री-शाधिन-मतिः स्थितिर् हरि-जनैस् तत्-सङ्गजं किल्बिषं
शालाग्राम-शिला-नृसिंह-महिमा कोऽप्य् एष लोकोत्तरः

1.116

श्री-आगमस्य । (ह्ब्व् 5.446)
अथ नैवेद्यार्पणे विज्ञप्तिः ।
द्विज-स्त्रीणां भक्ते मृदुनि विदुरान्ने व्रज-गवां
दधिक्षेरे सख्युः स्फुट-चिपिट-मृष्टौ मुररिपो ।
यशोदायाः स्तन्ये व्रज-युवति-दत्ते मधुनि ते
यथासीद् आमोदस् तम् इमम् उपहारेऽपि कुरुताम्

1.117

श्री-रामानुजस्य ।
या प्रीतिर् विदुरार्पिते मुररिपो कुन्त्य्-अर्पिते यादृशी
या गोवर्धन-मूर्ध्नि या च पृथुके स्तने यशोदार्पिते ।
भारद्वाज-समर्पिते शबरिका-दत्तेऽधरे योषितां
या वा ते मुनि-भामिनी-विनिहितेऽन्नेऽत्रापि ताम् अर्पये

1.118

कस्यचित् ।
क्षीरे श्यामलयार्पिते कमलया विश्राणिते फाणिते
दत्ते लड्डूनि भद्रया मधुरसे सोभाभया लम्भिते ।
तुष्टिर्या भवतस् ततः शतगुणां राधा-निदेशान् मया
नस्तेऽस्मिन् पुरतस् त्वम् अर्पय हरे रम्योपहारे रतिम्

1.119

समाहर्तुः ॥
अथ श्री-मथुरामहिमा ।
हे मातुर् मथुरे त्वम् एव नियतं धन्यासि भूमी-तले
निर्व्याजं नतयः शतं सविधयस् तुभ्यं सदा सन्तु नः ।
हित्वा हन्त नितान्तम् अद्भुत-गुणं वैकुण्ठम् उत्कण्ठया
त्वय्य् अम्भोज-विलोचनः स भगवान् येनावतीर्णो हरिः

1.120

कस्यचित् ।
अत्रासीत् किल नन्द-सद्म शकटस्यात्राभवद् भञ्जनं
बन्ध-च्छेद-करोऽपि दामभिर् अभूद् बद्धोऽत्र दामोदरः ।
इत्थं मथुरा-वृद्ध-वक्त्र-विगलत्-पीयूष-धारां पिबन्
नान्दाश्रु-धरः कदा मधु-पुरीं धन्यश् चरिष्याम्य् अहम्

1.121

श्री-कवि-शेखरस्य । (ब्र्स् 1.3.40)
यत्राखिलादि-गुरुर् अम्बुज-सम्भवोऽपि
स्तम्बात्मना जनुर् अनुस्पृहयाम्बभूव ।
चक्रध्वजाङ्कुश-लसत्-पद-राजि-रम्या
सा राजतेऽद्य मथुरा हरि-राज-धानी

1.122

कस्यचित् ॥
बीजं मुक्ति-तरोर् अनर्थ-पटली-निस्तारकं तारकं
धाम प्रेम-रसस्य वाञ्छित-धुरा-सम्पारकं पारकम् ।
एतद् यत्र निवासिनाम् उदयते चिच्-छक्ति-वृत्ति-द्वयं
मथ्नातु व्यसनानि माथुर-पुरी सा वः श्रियं च क्रियात्

1.123

समाहर्तुः ॥
वितरति मुर-मर्दनः प्रभुस्ते
न हि भजमान-जनाय यं कदापि ।
वितरसि बत भक्ति-योगम् एतं
तव मथुरे महिमा गिराम् अभूमिः

1.124

तस्यैव ॥
श्रवणे मथुरा नयने मथुरा
वदने मथुरा हृदये मथुरा ।
पुरतो मथुरा परतो मथुरा
मधुरा मधुरा मथुरा मथुरा

1.125

श्री-गोविन्द-मिश्राणाम् ।
अथ श्री-वृन्दाटवी-वन्दनम् ।
त्वं भज हिरण्यगर्भं
त्वम् अपि हरं त्वं च तत्-परं ब्रह्म ।
विनिहित-कृष्णानन्दाम्
अहं तु वृन्दाटवीं वन्दे

1.126

कस्यचित् ।
अथ श्री-नन्दप्रणामः ।
श्रुतिम् अपरे स्मृतिम् इतरे
भारतम् अन्ये भजन्तु भव-भीताः
अहम् इह नन्दं वन्दे
यस्यालिन्दे परं ब्रह्म

1.127

रघुपत्युपाध्यायस्य । (च्च् 2.19.96)
बन्धूकारुण-वसनं
सुन्दर-कूर्चं मुकुन्द-हृत-नयनम् ।
नन्दं तुन्दिल-वपुषं
चन्दन-गौर-त्विषं वन्दे

1.128

समाहर्तुः ।
अथ श्री-यशोदावन्दनम् ।
अङ्कग-पङ्कज-नाभां
नव-घनाभां विचित्र-रुचि-सिचयाम् ।
विरचित-जगत्-प्रमोदां
मुहुर् यशोदां नमस्यामि

1.129

समाहर्तुः ।
अथ श्री-कृष्णशैशवम् ।
अतिलोहित-कर-चरणं
मञ्जुल-गोरोचना-तिलकम् ।
हठ-परिवर्तित-शकटं
मुररिपुम् उत्तान-शायिनं वन्दे

1.130

कस्यचित् ।
अर्धोन्मीलित-लोचनस्य पिबतः पर्याप्तम् एकं स्तनं
सद्यः प्रस्तुत-दुग्ध-दिग्धम् अपरं हस्तेन सम्मार्जतः ।
मात्रा चाङ्गुलि-लासितस्य वदने स्मेरायमाने मुहुर्
विष्णोः क्षीर-कणोरु-धाम-धवला दन्त-द्युतिः पातु वः

1.131

श्री-मङ्गलस्य । (ब्र्क् 5.1736)
गोपेश्वरी-वदन-फूत्-कृति-लोल-नेत्रं
जानु-द्वयेन धरणीम् अनु सञ्चरन्तम् ।
कञ्चिन् नव-स्मित-सुधा-मधुराधराभं
बालं तमाल-दल-नीलम् अहं भजामि

1.132

श्री-रघुनाथ-दासस्य । (ब्र्क् 5.1738)
क्वाननं क्व नयनं क्व नासिका
क्व श्रुतिः क्व शिखेति देशितः ।
तत्र तत्र निहिताङ्गुली-दलो
वल्लवी-कुलम् अनन्दयत् प्रभुः

1.133

कवि-सार्वभौमस्य ॥ (ब्र्क् 5.1740)
इदानीम् अङ्गम् अक्षालि
रचितं चानुलेपनम् ।
इदानीम् एव ते कृष्ण
धूलि-धूसरितं वपुः

1.134

सार्वभौम-भट्टाचार्याणाम् । (ब्र्क् 5.1742)
पञ्च-वर्षम् अतिलोलम् अङ्गने
धावमानम् अलकाकुलेक्षणम् ।
किञ्किणी-वलय-हार-नूपुरं
रञ्जितं नमत नन्द-नन्दनम्

1.135

आगमस्य । (ब्र्क् 5.1749)
अथ शैशवे तारुण्यम्
अधर-मधुरे कण्ठं कण्ठे सचाटु दृशौ दृशोर्
अलिकम् अलिके कृत्वा गोपीजनेन स-सम्भ्रमम् ।
शिशुर् इति रुदन् कृष्णो वक्षः-स्थले निहितश् चिरान्
निभृत-पुलकः स्मेरः पायात् स्मरालस-विग्रहः

1.136

दिवाकरस्य । (स्क्म् 1.51.4; ब्र्क् 5.1751)
ब्रूमस् त्वच्-चरितं तवाधिजननि च्छद्मातिबाल्याकृते
त्वं यादृग् गिरि-कन्दरेषु नयनानन्दः कुरङ्गी-दृशाम् ।
इत्य् उक्तः परिलेहन-च्छलतया न्यस्ताङ्गुलिः स्वानने
गोपीभिः पुरतः पुनातु जगतीम् उत्तान-सुप्तो हरिः

1.137

वनमालिनः ॥ (स्क्म् 1.51.5)
वनमालिनि पितुर् अङ्के
रचयति बाल्योचितं चरितम् ।
नवनव-गोप-वधूटी-
स्मित-परिपाटी परिस्फुरति

1.138

श्री-मुकुन्द-भट्टाचार्यस्य । (ब्र्क् 5.1752)
नीतं नवनवनीतं कियद्
इति कृष्णओ यशोदया पृष्टः ।
इयद् इति गुरु-जन-सविधे
विधृत-धनिष्ठा-पयोधरः

1.139

कस्यचित् ॥ (राङ्गस्य) (ब्र्क् 5.1753)
क्व यासि ननु चौरिके प्रमुषितं स्फुटं दृश्यते
द्वितीयम् इह मामकं वहसि कञ्चुके कन्दुकम् ।
त्यजेति नव-गोपिका-कुच-युगं निमथ्नन् बलाल्
लसत्-पुलक-मण्डलो जयति गोकुले केशवः

1.140

दीपकस्य ॥ (स्प्द् 74, स्म्व्; ब्र्क् 5.1754)
अथ गव्य-हरणम्
दूर-दृष्ट-नव-नीत-भाजनं
जानु-चङ्क्रमण-जात-सम्भ्रमम् ।
मातृ-भीति-परिवर्तिताननं
केशवं किम् अपि शैशवं भजे

1.141

कस्यचित् ॥ (ब्र्क् 5.1756)
सम्मुष्णन् नवनीतम् अन्तिक-मणि-स्तम्भे स्व-बिम्बोद्गमं
दृष्ट्वा मुग्धतया कुमारम् अपरं सञ्चिन्तयन् शङ्कया ।
मन्-मित्रं हि भवान् मयात्र भवतो भागः समः कल्पितो
मा मां सूचय सूचयेत्य् अनुनयन् बालो हरिः पातु वः

1.142

केषांचित् ॥
दधिमथननिनादैस्त्यक्तनिद्रः प्रभाते
निभृतपदमगारं वल्लवीनां प्रविष्टः ।
मुखकमलसमीरैराशु निर्वाप्य दीपान्
कवलितनवनीतः पातु मां बालकृष्णः

1.143

कस्यचित् ॥
सव्ये पाणौ नियमित-रवं किञ्किणी-दाम धृत्वा
कुब्जीभूय प्रपद-गतिभिर् मन्द-मन्दं विहस्य ।
अक्ष्णोर् भङ्ग्या विहसित-मुखीर् वारयन् सम्मुखीना
मातुः पश्चाद् अहरत हरिर् जातु हैयङ्गवीनम्

1.144

श्री-श्रीमतः ॥
पद-न्यासान् द्वाराञ्चल-भुवि विधाय त्रि-चतुरान्
समन्ताद् आलोलं नयन-युगलं दिक्षु विकिरन् ।
स्मितं बिभ्रद् व्यक्तं दधि-हरण-लीला-चटुल-धीः
सशङ्कं गोपीनां मधुरिपुर् अगारं प्रविशति

1.145

समाहर्तुः ॥
मृद्नन् क्षीरादि-चौर्यान् मसृण-सुरभिणी सृक्वणी पाणि-धर्षैर्
आघ्रायाघ्राय हस्तं सपदि परुषयन् किङ्किणी-मेखलायाम् ।
वारं वारं विशाले दिशि दिशि विकिरन् लोचने लोलतारे
मन्दं मन्दं जनन्याः परिसरम् अयते कूट-गोपाल-बालः

1.146

कस्यचित् ॥
अथ हरेः स्वप्नायितम्
शम्भो स्वागतम् आस्यताम् इत इतो वामेन पद्मोद्भव
क्रौञ्चारे कुशलं सुखं सुरपते वित्तेश नो दृश्यते ।
इत्थं स्वप्न-गतस्य कैटभ-रिपोः श्रुत्वा जनन्या गिरः
किं किं बालक जल्पसीत्य् अनुचितं थूथूत्-कृतं पातु वः

1.147

मयूरस्य ॥ (स्क्म् 1.53.1; ब्र्क् 5.1758)
धीरा धरित्रि भाव भारम् अवेहि शान्तं
नन्व् एष कंस-हतकं विनिपातयामि ।
इत्य् अद्भुत-स्तिमित-गोप-वधू-श्रुतानि
स्वप्नायितानि वसुदेव-शिशोर् जयन्ति

1.148

सुदेवस्य ॥ (स्क्म् 1.53.2)
अथ पित्रोर् विस्मापन-शिक्षणादि
कालिन्दी-पुलिने मया न न मया शीलोपशल्ये न न
न्यग्रोधस्य तले मया न न मया राधा-पितुः प्राङ्गने ।
दृष्टः कृष्ण इतीरिते सनियमं गोपैर् यशोदा-पतेर्
विस्मेरस्य पुरो हसन् निज-गृहान् निर्यन् हरिः पातु वः

1.149

उमापतिधरस्य ॥ (स्क्म् 1.52.4)
वत्स स्थवर-कन्दरेषु विचरन् दूर-प्रचारे गवां
हिंस्रान् वीक्ष्य पुरः पुराण-पुरुषं नारायणं ध्यास्यसि ।
इत्य् उक्तस्य यशोदया मुरारिपोर् अव्याज् जगन्ति स्फुरद्-
बिम्बोष्ठ-द्वय-गाढ-पीडन-वशाद् अव्यक्त-भावं स्मितम्

1.150

अभिनन्दस्य ॥ (स्क्म् 1.52.1)
रामो नाम बभूव हुं तद् अबला सीतेति हुं तां पितुर्
वाचा पञ्चवटी-वने निवसतस् तस्याहरद् रावणः ।
कृष्णस्येति पुरातनीं निज-कथाम् आकर्ण्य मात्रेरितां
सौमित्रे क्व धनुर् धनुर् धनुर् इति व्यग्रा गिरः पान्तु वः

1.151

कस्यचित् । (र्सक्; क्क् 2.72; ब्र्क् 5.1760)
श्यामोच्चन्द्रा स्वपिति न शिशो नैति माम् अम्ब निद्रा
निद्राहेतोः शृणु कथां काम् अपूर्वां कुरुष्व ।
व्यक्तः स्तम्भान् नरहरिर् अभूद् दानवं दारयिष्यन्न्
इत्य् उक्तस्य स्मितम् उदयते देवकी-नन्दनस्य

1.152

सर्वानन्दस्य । (स्र्क् 123; स्क्म् 1.52.2; शतानन्दस्य; ब्र्क् 5.1761)
अथ गोरक्षादिलीला
देवस् त्वाम् एक-जङ्घावलयित-गुडी-मूर्ध्नि विन्यस्त-बाहु-
र्गायन् गोयुद्धगीतिर् उपरचित-शिरःशेखरः प्रग्रहेण ।
दर्प-स्फूर्जन् महोक्ष-द्वय-समर-कला-बद्ध-दीर्घानुबन्धः
क्रीडा-गोपाल-मूर्तिर् मुररिपुर् अवताद् आत्त-गोरक्ष-लीलः

1.153

योगेश्वरस्य । (स्क्म् 1.58.3)
यावद् गोपा मधुर-मुरली-नाद-मत्ता मुकुन्दं
मन्द-स्पन्दैर् अहह सकलैर् लोचनैर् आपिबन्ति ।
गावस् तावन् मसृण-यवस-ग्रास-लुब्धा विदूरं
याता गोवर्धन-गिरि-दरी-द्रोणिकाभ्यन्तरेषु

1.154

श्री-केशव-च्छत्रिणः ।
अथ गोपीनां प्रेमोत्कर्षः ।
धैर्यं नाम-परिग्रहेऽपि जघने यद्य् अंशुकालम्बनं
गोपीनां च विवेचनं निधुवनारम्भे रहो-मार्गणम् ।
साध्वी-सच्-चरितं विलास-विरतौ पत्युर् गृहान्वेषणं
तत् तद् रौरव-रक्षणं मुररिपोर् वंशी-रवापेक्षणम्

1.155

सर्व-विद्याविनोदानाम् ।
विलोक्य कृष्णं व्रज-वाम-नेत्राः
सर्वेन्द्रियाणां नयनत्वम् एव ।
आकर्ण्य तद्-वेणु-निनाद-भङ्गीम्
ऐच्छन् पुनस् ताः श्रवणत्वम् एव

1.156

कस्यचित् ।
अथ गोपीभिः सह लीला
कालिन्दी-जल-केलि-लोल-तरुणीर् आवीत-चीनांशुका
निर्गत्याङ्ग-जलानि सारितवतीर् आलोक्य सर्वा दिशः ।
तीरोपान्त-मिलन्-निकुञ्ज-भवने गूढं चिरात् पश्यतः
शौरेः सम्भ्रमयन्न् इमा विजयते साकूत-वेणुर् ध्वनिः

1.157

पुरुषोत्तमदेवस्य ।
तासु कृष्णस्य भावः ।
स्वेदाप्लावित-पाणि-पद्म-मुकुल-प्रक्रान्त-कम्पोदयाद्
विस्रस्ताम् अविजानतो मुरलिकां पादारविन्दोपरि ।
लीला-वेल्लित-वल्लवी-कवलित-स्वान्तस्य वृन्दावने
जीयात् कंसरिपोस् त्रिभङ्ग-वपुषः शून्योदयः फूत्कृतिः

1.158

चिरञ्जीवस्य ।
श्री-कृष्णस्य प्रथम-दर्शने राधा-प्रश्नः
भ्रूवल्लि-ताण्डव-कला-मधुरानन-श्री-ः
कङ्केल्लि-कोरक-करम्बित-कर्ण-पूरः ।
कोऽयं नवीन-निकषोपल-तुल्य-वेषो
वंशीरवेण सखि माम् अवशीकरोति

1.159

कस्यचित् । (ब्र्स् 3.5.20)
इन्दीवरोदर-सहोदर-मेदुर-श्री-र्
वासो द्रवत्-कनक-वृन्द-निभं दधानः ।
आमुक्त-मौक्तिक-मनोहर-हार-वक्षाः
कोऽयं युवा जगद्-अनङ्ग-मयं करोति

1.160

सर्व-विद्या-विनोदानाम् ॥ (उन् 15.7)
सख्या उत्तरम्
अस्ति कोऽपि तिमिर-स्तनन्धयः
किञ्चिद् अञ्चित-पदं स गायति ।
यन् मनाग् अपि निशम्य का वधूर्
नावधूत-हृदयोपजायते

1.161

कस्यचित् ।
श्री-राधायाः पूर्व-रागः
मनोगतां मन्मथ-बाण-बाधाम्
आवेदयन्तीव तनोर् विकारैः ।
दीनानना वाचम् उवाच राधा
तदा तदाली-जन-सम्मुखे सा

1.162

श्री-पुरुषोत्तम-देवस्य ।
यदवधि यामुन-कुञ्जे
घन-रुचिर् अवलोकितः कोऽपि ।
नलिनी-दल इव सलिलं
तदवधि तरलायते

1.163

कविचन्द्रस्य ॥
अकस्माद् एकस्मिन् पथि सखि मया यामुन-तटं
व्रजन्त्या दृष्टो यो नव-जलधर-श्यामल-तनुः ।
स दृग्-भङ्ग्या किं वाकुरुत न हि जाने तत इदं
मनो मे व्यालोलं क्वचन गृहकृत्यो न लगते

1.164

जयन्तस्य । (भक्ति-रसायन; ब्र्स् 3.5.27)
पुरो नील-ज्योत्स्ना तद् अनु मृगनाभी-परिमलस्
ततो लीला-वेणु-क्वणितम् अनु काण्ची-कल-रवः ।
ततो विद्युद्-वल्ली-वलयित-चमत्कार-लहरी-
तरङ्गाल् लावण्यं तद् अनु सहजानन्द उदगात्

1.165

कस्यचित् ।
अद्य सुन्दरि कलिन्द-नन्दिनी-
तीर-कुञ्ज-भुवि केलि-लम्पटः ।
वादयन् मुरलिकां मुहुर् मुहुर्
माधवो हरति मामकं मनः

1.166

कस्यचित् । (सिमिलर् प्रेमामृत 4.13)
यदवधि यमुनायास् तीर-वानीर-कुञ्जे
मुररिपु-पद-लीला लोचनाभ्याम् अलोकि ।
तदवधि मम चित्तं कुत्रचित् कार्य-मात्रे
न हि लगति मुहूर्तं किं विधेयं न जाने

1.167

कविचन्द्रस्य ।
यदवधि यदुनन्दनाननेन्दुः
सहचरि लोचन-गोचरीबभूव ।
तदवधि मलयानिलेऽनले वा
सहज-विचार-पराङ्मुखं मनो मे

1.168

सञ्जय-कविशेखरस्य ।
असमञ्जसम् असमञ्जसम्
असमञ्जसम् एतद् आपतितम् ।
वल्लव-कुमार-बुद्ध्या
हरि हरि हरिर् ईक्षितः कुतुकात्

1.169

शरणस्य ॥
शुष्यति मुखम् ऊरु-युगं पुष्यति
जडतां प्रवेपते हृदयम् ।
स्विद्यति कपोलपाली सखि
वनमाली किम् आलोकि

1.170

मुकुन्द-भट्टाचार्यस्य ।
उपरि तमाल-तरोः सखि
परिणत-शरद्-इन्दु-मण्डलः कोऽपि ।
तत्र च मुरली-खुरली
कुल-मर्यादाम् अधो नयति

1.171

सञ्जय-कविशेखरस्य ।
हन्त कान्तम् अपि तं दिदृक्षते
मानसं मम न साधु यत्-कृते ।
इन्दुर् इन्दुमुखि मन्द-मारुतश्
चन्दनं च वितनोति वेदनां

1.172

कस्यचित् ।
गुरु-जन-गञ्जनम् अयशो
गृहपतिचरितं च दारुणं किम् अपि ।
विस्मारयति समस्तं
शिव शिव मुरली मुरारातेः

1.173

सर्व-विद्या-विनोदानाम् । (ब्र्स् 3.5.12)
द्रविणं भवनम् अपत्यं तावन्
मित्रं तथाभिजात्यं च ।
उपयमुनं वनमाली
यावन् नेत्रे न नर्तयति

1.174

तेषाम् एव
तृप्यन्तु मे छिद्रम् अवाप्य शत्रवः
करोतु मे शास्ति-भरं गृहेश्वरः ।
मणिस् तु वक्षोरुह-मध्य-भूषणं
ममास्तु वृन्दावन-कृष्ण-चन्द्रमा

1.175

कस्यचित् ।
स्वामी निहन्तु विहसन्तु पुरः सपत्न्यो
भर्तुर् भजन्तु गुरवः पितरश् च लज्जाम् ।
एतावता यदि कलङ्कि कुलं तथास्तु
रामानुजे मम तनोतु मनोऽनुरागम्

1.176

कस्यचित् ।
स्वामी कुप्यति कुप्यतां परिजना निन्दन्ति निन्दन्तु माम्,
अन्यत् किं प्रथताम् अयं च जगति प्रौढो ममोपद्रवः ।
आशास्यं पुनर् एतद् एव यद् इदं चक्षुश् चिरं वर्धतां
येनेदं परिपीयते मुररिपोः सौन्दर्य-सारं वपुः

1.177

पुष्कराक्षस्य ।
किं दुर्मिलेन मम दूति मनोरथेन
तावन्ति हन्त सुकृतानि कया कृतानि ।
एतावद् एव मम जन्म-फलं मुरारिर्
यन् नेत्रयोः पथि बिभर्ति गतागतानि

1.178

कस्यचित् ॥
सखि मम नियति-हतायास्
तद्-दर्शन-भाग्यम् अस्तु वा मा वा ।
पुनर् अपि स वेणु-नादो
यदि कर्णपथे पतेत् तद् एवालम्

1.179

कस्यचित् ।
ताराभिसारक चतुर्थ-निशा-शशाङ्क
कामाम्बु-राशि-परिवर्धन देव तुभ्यम् ।
अर्घो नमो भवतु मे सह तेन यूना
मिथ्यापवाद-वचसाप्य् अभिमान-सिद्धिः

1.180

कस्यचित् । (उन् 14.128)
अथान्य-चतुर-सखी-वितर्कः
सिद्धान्तयति न किञ्चिद्
भ्रमयति दृशाम् एव केवलं राधा ।
तद् अवगतं सखि लग्नं
कदम्ब-तरु-देवतामरुता

1.181

राङ्गस्य ।
अथ राधां प्रति प्रश्नः ।
कामं वपुः पुलकितं नयने धृतास्रे
वाचः सगद्गदपदाः सखि कम्पि वक्षः ।
ज्ञातं मुकुन्द-मुरली-रव-माधुरी ते
चेतः सुधांशु-वदने तरलीकरोति

1.182

तस्यैव । (ब्र्स् 3.5.15)
गतं कुल-वधू-व्रतं विदितम् एव तत्-तद्-वचस्
तथापि तरलाशये न विमतासि को दुर्ग्रहः ।
करोमि सखि किं श्रुते दनुज-वैरि-वंशी-रवे
मनाग् अपि मनो न मे सुमुखि धैर्यम् आलम्बते

1.183

कस्यचित् ।
आस्तां तावद् अकीर्तिर् मे
त्वया तथ्यं तु कथ्यताम् ।
चित्तं कथम् इवासीत् ते
हरिर् वंशी-रव-श्रुतौ

1.184

कस्यचित् ।
सत्यं जल्पसि दुःसहाः खल-गिरः सत्यं कुलं निर्मलं
सत्यं निष्करुणोऽप्य् अयं सहचरः सत्यं सुदूरे सरित् ।
तत् सर्वं सखि विस्मरामि झटिति श्रोत्रातिथिर् जायते
चेद् उन्माद-मुकुन्द-मञ्जु-मुरली-निस्वान-रागोद्गतिः

1.185

गोविन्द-भट्टस्य ।
अथ राधां प्रति सखी-नर्माश्वासः ।
निशा जलद-सङ्कुला तिमिर-गर्भ-लीनं जगद्-
द्वयस् तव नवं नवं वपुर् अपूर्व-लीलामयम् ।
अलं सुमुखि निद्रया व्रज गृहेऽपि नक्तं चरी
कदम्ब-वन-देवता नव-तमाल-नील-द्युतिः

1.186

सर्वविद्याविनोदानाम् ।
कृष्णं प्रति राधानुराग-कथनम् ।
त्वाम् अञ्जनीयति फलासु विलोकयन्ती
त्वां शृण्वती कुवलयीयति कर्णपूरम् ।
त्वां पूर्णिमा-विधु-मुखी हृदि भावयन्ती
वक्षोनिलीन-नव-नीलमणिं करोति

1.187

कस्यचित् । (म्स्न् 5.12)
गृहीतं ताम्बूलं परिजन-वचोभिर् न सुमुखी
स्मरत्य् अन्तःशून्या मुरहर गतायाम् अपि निशि ।
ततेवास्ते हस्तः कलित-फणि-वल्ली-किसलयस्
तथवास्यं तस्याः क्रमुक-फल-फाली-परिचितम्

1.188

हरिहरस्य । (उन् 13.59)
प्रेम-पावक-लीढाङ्गी
राधा तव जगत्-पते ।
शय्यायाः स्खलिता भूमौ
पुनस् तां गन्तुम् अक्षमा

1.189

मुरहर साहस-गरिमा
कथम् इव वाच्यः कुरङ्ग-शावाक्ष्याः ।
खेदार्णव-पतितापि
प्रेम-मधुरां ते न सा त्यजति

1.190

कविचन्द्रस्येमौ । (उन् 8.100)
गायति गीते शंसति वंशे
वादयति सा विपञ्चीषु
पाठयति पञ्जर-शुकं तव
सन्देशाक्षरं राधा

1.191

गोवर्धनाचार्यस्य । (आर्य-शतक 211।265)
राधां प्रति कृष्णानुराग-कथनम्
केलिकलासु कुशला नगरे मुरारेर्
आभीर-नीरज-दृशः कति वा न सन्ति ।
राधे त्वया महद् अकारि तपो यद् एष
दामोदरस् त्वयि परं परमानुरागः

1.192

कस्यचित् ॥ (उन् 8.101)
वत्सान् न चारयति वादयते न वेणुम्
आमोदते न यमुना-वन-मारुतेन ।
कुञ्जे निलीय शिथिलं वलितोत्तमाङ्गम्
अन्तस् त्वया श्वसिति सुन्दरि नन्द-सूनुः

1.193

दैत्यारि-पण्डितस्य ॥
सर्वाधिकः सकल-केलि-कला-विदग्धः
स्निग्धः स एष मुर-शत्रुर् अनर्घ-रूपः ।
त्वां याचते यदि भज व्रज-नागरि त्वं
साध्यं किम् अन्यद् अधिकं भुवने भवत्याः

1.194

राङ्गस्य ॥
अथ राधाभिसारः ।
मन्दं निधेहि चरणौ परिधेहि नीलं
वासः पिधेहि वलयावलिम् अञ्चलेन ।
मा जल्प साहसिनि शारद-चन्द्र-कान्ति-
दन्तांशवस् तव तमांसि समापयन्ति

1.195

षाण्मासिकस्य ॥ (स्क्म् 2.61.2 नालस्य, स्प्द् 3620, स्म्व् 71.8 हरिहरस्य)
किम् उत्तीर्णः पन्थाः कुपित-भुजगी-भोग-विषमो
विषोढा भूयस्यः किम् इति कुलपाली-कटु-गिरः ।
इति स्मारं स्मारं दरदलित-शीत-द्युति-रुचौ
सरोजाक्षी शोणं दिशि नयन-कोणं विकिरति

1.196

सर्वविद्याविनोदानाम् ॥
चित्रोत्कीर्णाद् अपि विषधराद् भीतिभाजो रजन्यां
किं वा ब्रूमस् त्वद्-अभिसरणे साहसं माधवास्याः ।
ध्वान्ते यान्त्या यद् अतिनिभृतं राधयात्म-प्रकाश-
त्रासात् पाणिः पथि फणि-फणारत्न-रोधी व्यधायी

1.197

कस्यचित् ॥ (स्प्द् 3494 हरिहरस्य)
राधां प्रति सखी-वाक्यम्
मन्मथोन्मथितम् अच्युतं प्रति
ब्रूहि किञ्चन समुल्लसत्-स्मितम् ।
किं च सिञ्च मृग-शाव-लोचने
लोचनेङ्गित-सुधौघ-निर्झरैः

1.198

कस्यचित् ॥
गोविन्दे स्वयम् अकरोः सरोजनेत्रे
प्रेमान्धा वरवपुर् अर्पणं सखि ।
कार्पण्यं न कुरु दरावलोक-दाने
विक्रीते करिणि किम् अञ्कुशे विवादः

1.199

कस्यचित् । (ब्र्स् 2.4.114, भक्तिरसायन; द्क्क्; म्स्न् 5.15)
अथ क्रीडा ।
परमानुराग-परयाथ राधया
परिरम्भ-कौशल-विकाशि-भावया ।
स तया सह स्मर-सभाजनोत्सवं
निरवाहयच् छिखि-शिखण्ड-शेखरः

1.200

कविराज-मिश्रस्य । (ब्र्स् 3.5.35)
अस्मिन् कुञ्जे विनापि प्रचलति पवनं वर्तते कोऽपि नूनं
पश्यामः किं न गत्वेत्य् अनुसरति गणे भीत-भीतेऽर्भकाणाम् ।
तस्मिन् राधासखो वः सुखयतु विलसन् क्रीडया कैटभारिर्
व्यातन्वानो मृगारि-प्रवल-घुरघुराराव-रौद्रोच्चनादान्

1.201

कस्यचित् ॥ (स्प्द् 116)
अथ क्रीडानन्तरं तत्र जानतीनां सखीनां नर्मोक्तिः
इह निचुल-निकुञ्जे मध्य-मध्यास्य रन्तुर्
विजनम् अजनि शय्या कस्य बाल-प्रवालैः ।
इति निगदति वृन्दे योषितां पान्तु युष्मान्
स्मित-शवलित-राधा-माधवालोकितानि

1.202

रूप-देवस्य ॥ (स्क्म् 1.55.1)
अथ मुग्ध-बाल-वाक्यम्
कृष्ण त्वद्-वनमालया सह कृतं केनापि कुञ्जान्तरे
गोपी-कुन्तल-बर्ह-दाम तद् इदं प्राप्तं मया गृह्यताम् ।
इत्थं दुग्ध-मुखेन गोप-शिशुनाख्याने त्रपानम्रयो
राधा-माधवयोर् जयन्ति बलित-स्मेरालसा दृष्टयः

1.203

लक्ष्मण-सेन-देवस्य ॥ (स्क्म् 1.55.2)
अथ राधया सह दिनान्तरे केलिः तत्र सखी-वाक्यम्
अधुना दधि-मन्थनानुबन्धं
कुरुषे किं गुरु-विभ्रमालसाङ्गि ।
कलस-स्तनि लालसीति कुञ्जे
मुरली-कोमल-काकली मुरारेः

1.204

समाहर्तुः ॥
अथ तस्याः साकूत-वाक्यम् ।
श्वश्रूर् इङ्गित-दैवतं नयनयोर् ईहालिहो यातरः
स्वामी निःश्वसितेऽप्य् असूयति मनोजिघ्रः सपत्नी-जनः ।
तद्-दूराद् अयम् अञ्जलिः किम् अधुना दृग्भङ्गि-भावेन ते
वैदग्धी-विविध-प्रबन्ध-रसिक व्यर्थोऽयम् अत्र श्रमः

1.205

कस्यचित् ॥
सङ्केतीकृत-कोकिलादि-निनदं कंस-द्विषः कुर्वतो
द्वारोन्मोचन-लोल-शङ्ख-वलय-क्वाणं मुहुः शृण्वतः ।
केयं केयम् इति प्रगल्भ-जरती-वाक्येन दूनात्मनो
राधा-प्राङ्गण-कोण-कोलि-विटपि-क्रोडे गता शर्वरी

1.206

हरस्य । (स्क्म् 1.55.5 आचार्य गोपीकस्य; ब्र्क् 5.1159)
आहूताद्य मयोत्सवे निशि गृहं शून्यं विमुच्यागता
क्षीवः प्रेष्यजनः कथं कुलवधूर् एकाकिनी यास्यति ।
वत्स त्वं तद् इमां नयालयम् इति श्रुत्वा यशोदा-गिरो
राधा-माधवयोर् जयन्ति मधुर-स्मेरालसा दृष्टयः

1.207

श्री-मत्-केशव-सेन-देवस्य ॥ (स्क्म् 1.54.5)
गच्छाम्य् अच्युत दर्शनेन भवतः किं तृप्तिर् उत्पद्यते
किं त्व् एवं विजन-स्थयोर् हत-जनः सम्भावयत्य् अन्यथा ।
इत्य् आमन्त्रण-भङ्गि-सूचित-वृथावस्थान-खेदासलाम्
आश्लिष्यन् पुलकोत्कराञ्चित-तनुर् गोपीं हरिः पातु वः

1.208

कस्यचित् दाक्षिणात्यस्य । (नाटक-चन्द्रिका 624 (260); रस्क्)
अथ सखी-नर्म ।
सखि पुलकिनी सकम्पा
बहिः-स्थलीतस् त्वम् आलयं प्राप्ता ।
विक्षोभितासि नूनं
कृष्ण-भुजङ्गेन कल्याणि

1.209

समाहर्तुः ॥
अथ पुनर् अन्येद्युर् अभिसारिका तत्र सखी-वाक्यम् ।
अक्लान्त-द्युतिभिर् वसन्त-कुसुमैर् उत्तंसयन् कुन्तला-
नन्तः खेलति खञ्जरीट-नयने कुञ्जेषु कुञ्जेक्षणः ।
अस्मान् मन्दिर-कर्मतस् तव करौ नाद्यापि विश्राम्यतः
किं ब्रूमो रसैकाग्रणीर् असि घटी नेयं विलम्ब-क्षमा

1.210

तस्यैव । (म्स्न् 5.16)
परीक्षण-कारिणीं सखीं प्रति राधा-वाक्यम् ।
लज्जैवोद्घटिता किम् अत्र कुल्शोद्बद्धा कपाट-स्थितिर्
मर्यादैव विलङ्घिता पथि पुनः केयं कलिन्दात्मजा ।
आक्षिप्ता खल-दृष्टिर् एव सहसा व्यालावली कीदृशी
प्राणा एव समर्पिताः सखि चिरं तस्मै किम् एषा तनुः

1.211

कस्यचित् ।
द्वित्रैः केलि-सरोरुहं त्रि-चतुरैर् धम्मिल्ल-मल्ली-स्रजं
कण्ठान् मौक्तिक-मालिकां तद् अनु च त्यक्त्वा पदैः पञ्चमैः ।
कृष्ण-प्रेम-विघूर्णितान्तरतया दूराभिसारातुरा
तन्वङ्गी निरुपायम् अध्वनि परं श्रेणीभरं निन्दति

1.212

कस्यचित् । (उन् 13.19)
अथ वासक-सज्जा ।
तल्पं कल्पय दूति पल्लव-कुलेर् अन्तर्लता-मण्डपे
निर्बन्धं मम पुष्प-मण्डन-विधौ नाद्यापि किं मुञ्चति ।
पश्य क्रीडद्-अमन्दम् अन्ध-तमसं वृन्दाटवीं तस्तरे
तद् गोपेन्द्र-कुमारम् अत्र मिलित-प्रायं मनः शङ्कते

1.213

श्री-रघुनाथस्य ॥
अथोत्कण्ठिता ।
सखि स विजितो वीणा-वाद्यैः कयाप्य् अपर-स्त्रिया
पणितम् अभवत् ताभ्यां तव क्षपा-ललितं ध्रुवम् ।
कथम् इतरथा शेफालीषु स्खलत्-कुसुमास्व् अपि
प्रसरति नभो-मध्येऽपीन्दौ प्रियेण विलम्ब्यए

1.214

कस्यचित् । (स्क्म् 2.39.3 रुद्रटस्य; दशरूपक 2.23; स्त् 1.78अद्)
अरतिर् इयम् उपैति मां न निद्रा
गणयति तस्य गुणान् मनो न दोषान् ।
विरमति रजनी न सङ्गम् आशा
व्रजति तनुस् तनुतां न चानुरागः

1.215

कङ्कस्य ॥ (स्क्म् 2.37.5 प्रवरसेनस्य, स्प्द् 3427 बिल्हणस्य, स्र्क् 723)
अथ विप्रलब्धा ।
उत्तिष्ठ दूति यामो यामो
यातस् तथापि नायातः ।
याऽतः परम् अपि जीवेज्
जीवितनाथो भवेत् तस्याः

1.216

तस्यैव । (स्द् 3.83, दश् 2.26f)
अथ खण्डिता ।
लाक्षा-लक्ष्म-ललाट-पट्टम् अभितः केयूर-मुद्रा गले
वक्त्रे कज्जल-कालिमा नयनयोर्स् ताम्बूल-रागो घनः ।
दृष्टा कोप-विधायि मण्डनम् इदं प्रातश् चिरं प्रेयसो
लीला-तामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः

1.217

औत्कलस्य ॥ (अमरु 71।60; स्क्म् 2.24.4; स्प्द् 3740, स्भ्व् 2215; स्म्व् 82.17; दशरूपक 2.6)
तस्या वाक्यम्
कृतं मिथ्या-जल्पैर् विरम विदितं कामुक चिरात्
प्रियां ताम् एवोच्चैर् अभिसर यदीयैर् नख-पदैः ।
विलासैश् च प्राप्तं तव हृदि पदं रग-बहुलैर्
मया किं ते कृत्यं ध्रुवम् अकुटिलाचार-परया

1.218

रुद्रटस्य ॥ (स्त् 1.80; स्म्व् 58.8)
सार्धं मनोरथ-शतैस् तव धूर्त कान्ता
सैव स्थिता मनसि कृत्रिम-भाव-रम्या ।
अस्माकम् अस्ति न हि कश्चिद् इहावकाशस्
तस्मात् कृतं चरण-पात-विडम्बनाभिः

1.219

तस्यैव ॥ (स्त् 1.41द्; स्क्म् 2.23.2; स्प्द् 3563; स्म्व् 57.16)
अनलङ्कृतोऽपि माधव
हरसि मनो मे सदा प्रसभम् ।
किं नालङ्कृतस् त्वं
सम्प्रति नख-क्षतैस् तस्याः

1.220

विश्वनाथस्य । (स्द् 3.63)
खण्डनाप्त-निर्वेदायास् तस्या वाक्यम् ।
वय्तीताः प्रारम्भाः प्रणय-बहुमानो विगलितो
दुराशा याता मे परिणतिर् इयं प्राणितुम् अपि ।
यथेष्ठं चेष्टन्तां विरहि-वध-विह्यात-यशसो
विभावा मय्य् एते पिक-मधु-सुधांशु-प्रभृतयः

1.221

पुरुषोत्तमदेवस्य ॥
मा मुञ्च पञ्चशर पञ्चशरीं शरीरे
मा सिञ्च सान्द्र-मकरन्द-रसेन वायो ।
अङ्गानि तत्-प्रणय-भङ्ग-विगर्हितानि
नालम्बितुं कथम् अपि क्षमतेऽद्य जीवः

1.222

तस्यैव । (ब्र्स् 3.5.17)
पुनः सायम् आयाति माधवे
कञ्चन वञ्चन-चतुरे
प्रपञ्चय त्वं मुरान्तके मानम् ।
बहु-वल्लभे हि पुरुषे
दाक्षिण्यं दुःखम् उद्वहति

1.223

समाहर्तुः ॥ (उन् 8.33)
अथ मानिनी
भवतु विदितं छद्मालापैर् अलं प्रिय गम्यतां
तनुर् अपि न ते दोषोऽस्माकं विधिस् तु पराङ्मुखः ।
तव यथा तथाभूतं प्रेम प्रपन्नम् इमां दशां
प्रकृति-चपले का नः पीडा गते हत-जीविते

1.224

अमरोः ॥ (अमरु 28।30; स्क्म् 2.47.3)
कस् त्वं तासु यदृच्छया कितव यास् तिष्ठन्ति गोपाङ्गनाः
प्रेमाणं न विदन्ति यास् तव हरे किं तासु ते कैतवम् ।
एषा हन्त हताशया यद् अभवं त्वय्य् एकताना परं
तेनास्याः प्रणयोऽधुना खलु मम प्राणैः समं यास्यति

1.225

पुरुषोत्तमदेवस्य ।
निष्क्रामति कृष्णे सखी-वाक्यम्
साचि-कन्धरम् अमुं किम् ईक्षसे
यातु यातु सखि पूतनार्दनः ।
वामरीतिचतुरां हि पाम्रीं
सेवतां परम-देवताम् इव

1.226

समाहर्तुः ।
कृष्ण-दूती-वाक्यम्
प्रेमावगाहन-कृते मानं मा कुरु चिराय करभोरु ।
नाकर्णि किं नु मुग्धे जातं पीयूष-मन्थने गरलम्

1.227

विधुमुखि विमुखीभावं भाविनि मद्-भाषणे मा गाः ।
मूढे निगम-निगूढः कतिपय-कल्याणतो मिलति

1.228

राङ्गस्यैतौ ॥
दूतीं प्रति राधा-वाक्यम्
अलम् अलम् अघृणस्य तस्य नाम्ना
पुनर् अपि सैव कथ गतः स कालः ।
कथय कथय वा तथापि दूति
प्रतिवचनं द्विषतोऽपि माननीयम्

1.229

अङ्गदस्य ॥ (स्भ्व् 1418; स्प्द् 3513; स्म्व् 47.3)
अथ कलहान्तरिता ।
तां प्रति दक्षिण-सखी-वाक्यम्
अनालोच्य प्रेम्णः परिणतिम् अनादृत्य सुहृदस्
त्वयाकाण्डे मानः किम् इति सरले प्रेयसि कृतः ।
समाकृष्टा ह्य् एते विरह-दहनोद्भासुर-शिखाः
स्व-हस्तेनाञ्गारास् तद् अलम् अधुनारण्य-रुदितैः

1.230

अमरोः ॥ (अमरु 112।80; स्भ्व् 1170; स्क्म् 2.42.1, स्म्व् 56.9, स्र्क् 659 विकटनितम्बा)
अथ कर्कश-सखी-वाक्यम्
मान-बन्धम् अभितः श्लथयन्ती
गौरवं न खलु हारय गौरि ।
आर्जवं न भजते दनुजारिर्
वञ्चके सरलता न हि साध्वी

1.231

समाहर्तुः ॥
तां प्रति राधा-वाक्यम्
भ्रू-भङ्गो गुणितश् चिरं नयनयोर् अभ्यस्तम् आमीलनं
रोद्धुं शिक्षितम् आदरेण हसितं मौनेऽभियोगः कृतः ।
धैर्यं कर्तुम् अपि स्थिरीकृतम् इदं चेतः कथञ्चिन् मया
बद्धो मान-परिग्रहे परिकरः सिद्धिस् तु दैवे स्थिता

1.232

अमरोः ॥(अमरु 118।97)
जानामि मौनम् अलसाञ्गि वचो-विभङ्गीर्
भञ्गी-शतं नयनयोर् अपि चातुरीं च ।
आभीर-नन्दन-मुखाम्बुज-सङ्ग-शंसी
वंशीरवो यदि न माम् अवशीकरोति

1.233

कस्यचित् ॥
सत्यं शृणोमि सखि नित्य-नव-प्रियोऽसौ
गोपस् तथापि हृदयं मदनो दुनोति ।
युक्त्या कथञ्चन समं गमितेऽपि तस्मिन्
मां तस्य काल-मुरली कवलीकरोति

1.234

श्री-मत्-प्रभूनाम् ।
न जाने सम्मुखायाते
प्रियाणि वदति प्रिये ।
प्रयान्ति मम गात्राणि
श्रोत्रतां किम् उ नेत्रताम्

1.235

कस्यचित् ॥ (अमरु 63।64)
मुरारिं पश्यन्त्याः सखि सकलम् अङ्गं न नयनं
कृतं यच् छृण्वन्त्याः हरि-गुण-गणं श्रोत्र-निचितम् ।
समं तेनालापं सपदि रचयन्त्या मुखम् अयं
विधातुर् नैवायं घटन्-परिपाटी-मधुरिमा

1.236

शरणस्य ।
अथ सख्याः साभ्युसूया-वाक्यम् ।
त्वम् असि विशुद्धा सरले
मुरली-वक्त्रस् त्रिधा वक्रः ।
भङ्गुरया खलु सुलभअ
तद् उरः सखि वेजयन्त्य् एव

1.237

समाहर्तुः ।
अथ क्षुभित-राधिकोक्तिः ।
निःश्वासा वदनं दहन्ति हृदयं निर्मूलम् उन्मथ्यते
निद्रा नेति न दृश्यते प्रियमुखं रात्रिन्दिवं रुद्यते ।
अङ्गं शोषम् उपैति पाद-पतितः प्रेयांस् तथोपेक्षितः
सख्यः कं गुणम् आकलय्य दयिते मानं वयं कारिताः

1.238

अमरोः । (अमरु 98।92; स्क्म् 2.41.2)
मानज-विरहेण ध्यायन्तीं तां प्रति कस्याश्चिद् वाक्यम् ।
आहारे विरतिः समस्त-विषय-ग्रामे निवृत्तिः परा
नासाग्रे नयनं यद् एतद् अपरं यच् चैकतानं मनः ।
मौनं चेदम् इदं च शून्यम् अखिलं यद् विश्वम् आभाति ते
तद् ब्रूयाः सखि योगिनी किम् असि भोः किं वियोगिन्य् अपि

1.239

(स्क्म् 2.25.2, स्र्क् 703 रजसेखर, उन् 13.75)
तं प्रति राधा-वाक्यम् ।
सङ्गम-विरह-विकल्पे
वरम् इह विरहो न तु सङ्गमस् तस्य ।
एकः स एव सङ्गे
त्रिभुवनम् अपि तन्मयं विरहे

1.240

कस्यचित् । (स्क्म् 2.99.4)
अथ कृष्ण-विरहः ।
सञ्जाते विरहे कयापि हृदये सन्दानिते चिन्तया
कालिन्दी-तट-वेतसी-वन-घन-च्छाया-निषण्णात्मनः ।
पायासुः कलकण्ठ-कूजित-कला गोपस्य कंस-द्विषो
जिह्वा-वर्जित-तालु-मूर्च्छित-मरुद्-विस्फारिता गीतयः

1.241

कस्यचित् ॥ (स्क्म् 1.58.1)
अथ राधा-प्रसादनम् ।
शिरश् छायां कृष्णः स्वयम् अकृत राधा-चरणयोर्
भुजावल्ली-च्छायाम् इयम् अपि तदीय-प्रतिकृतौ ।
इति क्रीडा-कोपे निभृतम् उभयोर् अप्य् अनुनय-
प्रसादौ जीयास् ताम् अपि गुरु-समक्षं स्थितवतोः

1.242

हरस्य ।
कृष्णं प्रति राधा-सखी-वाक्यम् ।
सा सर्वथैव रक्ता रागं
गुञ्जेव न तु मुखे वहति ।
वचन-पटोस् तव रागः
केवलम् आस्ये शुकस्येव

1.243

गोवर्धनाचार्यस्य । (अर्यस् 649।703)
सुभग भवता हृद्ये तस्या ज्वलत्-स्मर-पावकेऽप्य्
अभिनिवेशता प्रेमाधिक्यं चिरात् प्रकटीकृतम् ।
तव तु हृदये शीतेऽप्य् एवं सदैव सुखाप्तये
मम सहचरी सा निःस्नेहा मनाग् अपि न स्थिता

1.244

रुद्रस्य । (शृङ्गार-तिलक 2.108)
अथ दिनान्तर-वार्ता ।
आगत्य प्रणिपात-सान्त्वित-सखी-दत्तान्तरं सागसि
स्वैरं कुर्वति तल्प-पार्श्व-निभृते धूर्तेऽङ्ग-संवाहनम् ।
ज्ञात्वा स्पर्श-वशात् तया किल सखी-भ्रान्त्य् एव वक्षः शनैः
खिन्नासीत्य् अभिधाय मीलित-दृशा सानन्दम् आरोपितः

1.245

कस्यचित् । (स्प्द् 3576; स्भ्व् 2083; स्म्व् 58.5)
वस्तुतस् तु गुरु-भीतया तया
व्यञ्जिते कपटमान-कुट्मले ।
पेशल-प्रिय-सखी-दृशा हरिर्
बोधितस् तट-लता-गृहं ययौ

1.246

माधवो मधुर-माधवी-लता-
मण्डपे पटु-रटन्-मधुव्रते ।
संजगौ श्रवण-चारु गोपिका-
मान-मीन-वडिशेन वेणुना

1.247

कयोश्चिद् इमौ । (उन् 10.64, र्सक् 1.100f)
पुष्प-च्छलेन कृष्णम् अन्वेषयन्तीं राधां प्रति कस्याश्चिद् उक्तिः ।
पन्थाः क्षेममयोऽस्तु ते परिहर प्रत्यूह-सम्भावनाम्
एतन्-मात्रम् अधारि सुन्दरि मया नेत्र-प्रणाली-पथे ।
नीरे नील-सरोजम् उज्ज्वल-गुणं तीरे तमालालङ्कारः
कुञ्जे कोऽपि कलिन्द-शैल-दुहितुः पुंस्कोकिलः खेलति

1.248

सर्व-विद्याविनोदानाम् ।
तत्र यमुना-तीरे गतया राधया सह संकथा ।
का त्वं माधव-दूतिका वदसि किं मानं जहीति प्रिये
धूर्तः सोऽन्यमना मनाग् अपि सखि त्वय्य् आदरं नोज्झति ।
इत्य् अन्योन्य-कथा-रसैः प्रमुदितां राधां सखी-वेशवान्
नीत्वा कुञ्ज-गृहं प्रकाशिततनुः स्मेरो हरिः पातु वः

1.249

वासवस्य ॥
वसन्तः सन्नद्धो विपिनम् अजनं त्वं च तरुणी
स्फुरत्-कामावेशे वयसि वयम् अप्य् आहित-पदाः ।
व्रज त्वं वा राधे क्षणम् अथ विलम्बस्व यदि वा
स्फुटं जातस् तावच् चतुर-वचनानाम् अवसरः

1.250

कस्यचित् ॥
तत्र राधा-वाक्यम्
स्वामी मुग्धतरो वनं घनम् इदं बालाहम् एकाकिनी
क्षौणीम् आवृणुते तमाल-मलिन-च्छाया-तमः-सन्ततिः ।
तन् मे सुन्दर कृष्ण मुञ्च सहसा वर्त्मेति राधा-गिरः
श्रुत्वा तां परिरभ्य मन्मथ-कलासक्तो हरिः पातु वः

1.252

कस्यचित् ॥
अथ स्वाधीन-भर्तृका ।
मकरी-विरचन-भङ्ग्या
राधा-कुच-कलस-मर्दन-व्यसनी ।
ऋजुम् अपि रेखां लुम्पन्
वल्लव-वेशो हरिर् जयति ॥251।
कस्यचित् ॥ (स्प्द् 77 हरिहरस्य)
क्रीडानन्तरं कृष्णस्य स्वप्नायितम् ।
एते लक्ष्मण जानकी-विरहिणं मां खेदयन्त्य् अम्बुदा
मर्माणीव च घट्टयन्त्य् अलम् अमी क्रूराः कदम्बानिलाः ।
इत्थं व्याहृत-पूर्व-जन्म-विरहो यो राधया वीक्षितः
सेर्ष्यं शङ्कितया स वः सुखयतु स्वप्नायमानो हरिः

1.253

शुभाङ्कस्य । (क्क् 2.69(70); स्र्क् 131)
अथ वंशी-चौर्यम् ।
नीचैर् न्यासाद् अथ चरणयोर् नूपुर मूकयन्ती
धृत्वा धृत्वा कतक-वलयान्य् उत्क्षिपन्ती भुजान्ते ।
मुद्राम् अक्ष्णोश् चकितं शश्वद् आलोकयन्ती
स्मित्वा स्मित्वा हरति मुरलीम् अङ्कतो माधवस्य

1.254

दैत्यारि-पण्डितस्य । (उन् 15.238)
तां प्रति राधा-वाक्यम् ।
अच्छिद्रम् अस्तु हृदयं परिपूर्णम् अस्तु
मौखर्यम् अस्तमितम् अस्तु गुरुत्वम् अस्तु ।
कृष्ण-प्रिये सखि दिशामि सदाशिषस् ते
यद् वासरे मुरलि मे करुणां करोषि

1.255

श्री-गोविन्द-मिश्राणाम् ॥
शून्यत्वं हृदये सलाघवम् इदं शुष्कत्वम् अङ्गेषु मे
मौखर्यं व्रज-नाथ-नाम-कथने दत्तं भवत्या निजम् ।
तत् किं नो मुरलि प्रयच्चसि प्नर् गोविन्द-वक्त्रासवं
यं पीत्वा भुवनं वशे विदधती निर्लज्जम् उद्गायसि

1.256

तेषाम् एव ॥
अथ सायं हरेर् व्रजागमनम् ।
मन्द्र-क्वाणित-वेणुर् अह्नि शिथिले व्यावर्तयन् गोकुलं
बर्हापीडकम् उत्तमाङ्ग-रचितं गोधूलि-धुम्रं दधत् ।
म्लायन्त्या वन-मालया परिगतः श्रान्तोऽपि रम्याकृतिर्
गोप-स्त्री-नयनोत्सवो वितरतु श्रेयांसि वः केशवः

1.257

कस्यचित् ॥ (क्व्स् 22, स्क्म् 1.57.4, स्र्क् 110)
तत्र कस्याश्चिद् उक्तिः ।
दृष्ट्या केशव गोप-राग-हतया किञ्चिन् न दृष्टं मया
तेनाद्य स्खलितास्मि नाथ पतितां किं नाम नालम्बसे ।
एकस् त्वं विषमेषु खिन्न-मनसां सर्वाबलानां गतिर्
गोप्यैवं गदितः सलेशम् अवताद् गोष्ठे हरिर् वश् चिरम्

1.258

कस्यचित् ॥ (ध्वन्, वक्रो, स्द् 4.14; स्म्व् 2.93; दिffएरेन्त् किन्द्स् ओf व्यङ्ग्य)
नाभि-देश-विनिवेशित-वेणुर्
धेनु-पुच्छ-निहितैक-कराब्जः ।
अन्य-पाणि-परिमण्डित-दण्डः
पुण्डरीक-नयनो व्रजम् आप

1.259

कस्यचित् ॥
तत्रैव राधायाः सौभाग्यम् ।
भ्रूवल्ली-चलनैः कयापि नयनोन्मेषैः कयापि स्मित-
ज्योत्स्नाविच्छुरितैः कयापि निभृतं सम्भावितस्याध्वनि ।
गर्वाद् भेद-कृतावहेल-विनय-श्री-भाजि राधानने
सातङ्कानुनयं जयन्ति पतिताः कंसद्विषः दृष्टयः

1.260

उमापतिधरस्य ॥ (स्क्म् 1.55.3, र्कद् 129)
तिर्यक्-कन्धरम् अंसदेश-मिलित-श्रोत्रावतंसं स्फुरद्-
बर्होत्तम्भित-केश-पाशम् अनृजु-भ्रू-वल्लरी-विभ्रमम् ।
गुञ्जद्-वेणु-निवेशिताधर-पुटं साकूत-राधानन-
न्यस्तामीलित-दृष्टि गोप-वपुषो विष्णोर् मुखं पातु वः

1.261

लक्ष्मण-सेन-देवस्य ॥ (स्क्म् 1.55.2)
अंसासक्त-कपोल-वंश-वदन-व्यासक्त-बिम्बाधर-
द्वन्द्वोदीरित-मन्द-मन्द-पवन-प्रारब्ध-मुग्ध-ध्वनिः ।
ईषद्-वक्रिम-लोल-हार-निकरः प्रत्येकरोकानन-
न्यञ्चच्-चञ्चद्-उदञ्चद्-अङ्गुलि-चयस् त्वां पातु राधा-धवः

1.262

नाथोकस्य ॥ (स्क्म् 1.57.5 केशर-कीलीय-नाथोकस्य)
अङ्गुष्ठाग्रिम-यन्त्रिताङ्गुलिर् असौ पादार्थ-नीरुद्ध-भूर्
आर्द्रीकृत्य पयोधराञ्चलम् अलं सद्यः पयो-बिन्दुभिः ।
न्यग्-जानु-द्वय-मध्य-यन्त्रित-गह्टी-वक्त्रान्तराल-स्खलद्-
धाराध्वान-मनोहरं सखि पयो गां दोग्धि दामोदरः

1.263

शरणस्य ॥ (स्क्म् 5.1.1; स्र्क् 1157, उपाध्याय दामरस्य; उन् 10.50)
शाठान् यस्याः काञ्ची-मणि-रणितम् आकर्ण्य सहसा
यद् आश्लिष्यन्न् एव प्रशिथिल-भुज-ग्रन्थिर् अभवः ।
तद् एतत् क्वाचक्षे घृतमधुमय त्वद्-बहु-वचो-
विषेणाघूर्णन्ती किम् अपि न सखी मे गणयति

1.264

कस्यचित् ॥ (अमरु 73।109, स्द् 3.37) शठ-नायक
अथ गोवर्धनोद्धरणम् ।
सत्रासर्ति यशोदया प्रिय-गुण-प्रीतेक्षणं राधया
लग्नैर् वल्लव-सूनुभिः सरभसं सम्भावितात्मोर्जितैः ।
भीतानन्दित-विस्मितेन विषमं नन्देन चालोकितः
पायाद् वः कर-पद्म-सुस्थित-महा-शैलः सलीलो हरिः

1.265

सोह्नोकस्य । (स्क्म् 1.60.1 सोल्लोकस्य; स्र्क् 140 सोन्नोकस्य)
एकेनैव चिराय कृष्ण भवता गोवर्धनोऽयं धृतः
श्रान्तोऽसि क्षणम् आस्स्व साम्प्रतम् अमी सर्वे वयं दध्महे ।
इत्य् उल्लासित-दोष्णि गोप-निवहे किञ्चिद् भुजाकुञ्चन-
न्यञ्चच्-छैल-भरार्दिते विरुवति स्मेरो हरिः पातु वः

1.266

शरणस्य ॥ (स्म् 1.60.2)
खिन्नोऽसि मुञ्च शैलं
बिभृमो वयम् इति वदत्सु शिथिल-भुजः ।
भर-भुग्न-वितत-
बाहुषु गोपेषु हसन् हरिर् जयति

1.267

सुबन्धोः ॥ (वासवदत्त, 2; स्प्द् 78; स्म्व् 1.41 हरिहरस्य)
दूरं दृष्टि-पथात् तिरोभव हरेर् गोवर्धनं विभ्रतस्
त्वय्य् आसक्त-दृशः कृशोदरि कर-स्रस्तोऽस्य मा भूद् अयम् ।
गोपीनाम् इति जल्पितं कलयतो राधा-निरोधाश्रयं
श्वासाः शैल-भर-श्रम-भ्रम-कराः कंस-द्विषः पान्तु वः

1.268

शुभाङ्कस्य । (स्क्म् 1.60.4)
अथ नौ-क्रीडा ।
कुरु पारं यमुनाया
मुहुर् इति गोपीभिर् उत्कराहूतः ।
तरि-तट-कपट-शयालुर्
द्विगुणालस्यो हरिर् जयति

1.269

सञ्जय-कविशेखरस्य । (ब्र्क् 5.1706)
उत्तिष्ठारात् तरौ मे तरुणि मम तरोः शक्तिर् आरोहणे का
साक्षाद् आख्यामि मुग्धे तरणिम् इह रवेर् आख्यया का रतिर् मे ।
वार्तेयं नौ-प्रसङ्गे कथम् अपि भविता नावयोः सङ्गमार्था
वार्तापीति स्मितास्यं जित-गिरिम् अजितं राधयाराधयामि

1.270

(उन् 11.86)
मुक्ता तरङ्ग-निवहेन पतङ्ग-पुत्री
नव्या च नौर् इति वचस् तव तथ्यम् एव ।
शङ्का-निदानम् इदम् एव ममातिमात्रं
त्वं चञ्चलो यद् इह माधव नाविकोऽसि

1.271

समाहर्तुर् इमौ । (उन् 15.236)
जीर्णा तरिः सरिद् अतीव-गभीर-नीरा
बाला वयं सकलम् इत्थम् अनर्थ-हेतुः ।
निस्तार-बीजम् इदम् एव कृशोदराणां
यन् माधव त्वम् असि सम्प्रति कर्णधारः

1.272

जगदाननद-रायस्य । (ब्र्क् 5.1709)
अम्भसि तरणि-सुतायाः
स्तम्भित-तरणिः स देवकी-सुतः ।
आतर-विरहित-गोप्याः
कातर-मुखम् ईक्षते स्मेरः

1.273

सूर्यदासस्य ।
वाचा तवैव यदुनन्दन गव्य-भारो
हारोऽपि वारिणि मया सहसा विकीर्णः ।
दूरीकृतं च कुचयोर् अनयोर् दुकूलं
कूलं कलिन्द-दुहितुर् न तथाप्य् अदूरम्

1.274

कस्यचित् । (प्रेमामृत 3.18; ब्र्क् 5.1710)
पयः-पूरैः पूर्णा सपदि गतघूर्णा च पवनैर्
गभीरे कालिन्दी-पयसि तरिर् एषा प्रविशति ।
अहो मे दुर्दैवं परम-कुतुकाक्रान्त-हृदयो
हरिर् वारं वारं तद् अपि करतालिं रचयति

1.275

मनोहरस्य । (प्रेमामृत 3.19; ब्र्क् 5.1711)
पानीय-सेचन-विधौ मम नैव पाणी
विश्राम्यतस् तद् अपि ते परिहास-वाणी ।
जीवामि चेत् पुनर् अहं न तदा कदापि
कृष्ण त्वदीय-तरणौ चरणौ ददामि

1.276

तस्यैव । (प्रेमामृत 3.12; ब्र्क् 5.1712)
इदम् उद्दिश्य वयस्याः
स्व-समीहित-दैवतं नमत ।
यमुनैव जानु-दध्नी
भवतु न वा नाविकोऽस्त्व् अपरः

1.277

मुकुन्द-भट्टाचार्यस्य ।
तरिर् उत्तरला सरिद् गभीरा
तरलो नन्द-सुतश् च कर्ण-धारः ।
अबलाहम् उपैति भानुर् अस्तं
सखि दूरे नगरीह किं करोमि

1.278

कस्च्यचित् ॥
नापेक्षते स्तुति-कथां न शृणोति काकुं
शश्वत् कृतं न मनुते प्रणिपात-जातम् ।
हा किं विधेयम् अधुना सखि नन्द-सूनुर्
मध्ये-तरङ्गिणि तरिं तरलो धुनोति

1.279

तस्यैव ।
एxत्र वेर्से fओउन्द् इन् ओन्ल्य् ओने एदितिओन्.
आतर-लाघव-हेतोर्
मुरहर तरिं तवावलम्बे ।
अपणं पणम् इह कुरुषे
नाविक-पुरुषे न विश्वासः ॥
कस्यचित् ।
एषोत्तुङ्ग-तरङ्ग-लङ्घित-तटोत्सङ्गा पतङ्गात्मजा
पूर्णेयं तरिर् अम्बुभिर् न हि हरेः शङ्का कलङ्काद् अपि ।
काठिण्यं भज नाद्य सुन्दरि वयं राधे प्रसादेन ते
जीवामः स्फुटम् आतरीकुरु गिरि-द्रोणी-विनोदोत्सवम्

1.280

काकुं करोषि गृह-कोण-करीष-पुञ्ज-
गूढाङ्ग किं ननु वृथा कितव प्रयाहि ।
कुत्राद्य जीर्ण-तरणि-भ्रमणातिभीत-
गोपाङ्गना-गण-विडम्बन-चातुरी

1.281

त्रयः समाहर्तुः । (उन् 5.49)
अथ राधया सह हरेर् वाकोवाक्यम् ।
अङ्गुल्या कः कवाटं प्रहरति कुटिले माधवः किं वसन्तो
नो चक्री किं कुलालो न हि धरणी-धरः किं द्विजिह्वः फणीन्द्रः ।
नाहं घोराहि-मर्दी किम् असि खग-पतिर् नो हरिः किं कपीशो
राधा-वाणीभिर् इत्थं प्रहसित-वदनः पातु वश् चक्र-पाणिः

1.282

कस्यचित् ॥ (स्भ्व् 130; क्क् 3.105; स्र्क् 7.19)
कस् त्वं भो निशि केशवः शिरसिजै :य् किं नाम गर्वायसे
भद्रे शौरिर् अहं गुणैः पितृ-गतैः पुत्रस्य किं स्याद् इह ।
चक्री चन्द्रमुखि प्रयच्छसि न मे कुण्डीं घटीं दोहनीम्
इत्थं गोप-वधू-जितोत्तरतया ह्रीणो हरिः पातु वः

1.283

चक्रपाणेः ॥ (स्क्म् 1.56.3)
वासः सम्प्रति केशव क्व भवतो मुग्धेक्षणे नन्व् इदं
वासं ब्रूहि शठ प्रकाम-सुभगे त्वद्-गात्र-संसर्गतः ।
यामिन्याम् उषितः क्व धूर्त वितनुर् मुष्णाति किं यामिनी
शौरिर् गोपवधूं छलैः परिहसन्न् एवंविधैः पातु वः

1.284

कस्यचित् ॥ (स्क्म् 1.56.4; ब्र्स् 2.1.83)
राधे त्वं कुपिता त्वम् एव कुपिता रुष्टासि भूमेर् यतो
माता त्वं जगतां त्वम् एव जगतां माता न विज्ञोऽपरः ।
देवि त्वं परिहास-केलि-कलहेऽनन्ता त्वम् एवेत्य् असौ
स्मेरो वल्लव-सुन्दरीम् अवनमच् छौरिः श्रियः वः क्रियात्

1.285

हरिहरस्य ॥ (स्क्म् 1.56.1 वाक्पतेः; स्र्क् 108)
अथ रासः ।
वृन्दारण्ये प्रमद-सदने मल्लिका-पुष्प-मोदे
श्री-शुभ्रांशोः किरण-रुचिरे कोकिलाद्यैर् मनोज्ञे ।
रात्रौ चित्रे पशुप-वनिता-चित्त-देहापहारी
कंसारातेर् मधुर-मुरली-वाद्य-राजो रराज

1.286

कस्यचित् ।
अधरामृत-माधुरी-धुरीणो
हरि-लीला-मुरली-निनाद एषः ।
प्रततान मनःप्रमोदम् उच्चैर्
हरिणीनां हरिणी-दृशां मुनीनाम्

1.287

श्री-माधवेन्द्रपुरीपादानाम् ।
लीला-मुखरित-मुरली-
कृत-गोप-भाविनी-निवहः ।
तद्-अधर-मधुनि सतृष्णः
कृष्णः पायाद् अपायतो भवतः

1.288

माधव-चक्रवर्तिनः ॥
कारय नाम्ब विलम्बं
मुञ्च करं मे हरिं यामि ।
न सहे स्थातुं यद् असौ
गर्जति मुरली प्रगल्भ-दूतीव

1.289

समाहर्तुः ॥
चूडा-चुम्बित-चारु-चन्द्र-कचयं चामीकराभाम्बरं
कर्णोत्तंसित-कर्णिकार-कुसुमं कन्दर्प-कल्लोलितम् ।
वंशी-वादन-वावदूक-वदनं वक्री-भवद्-वीक्षणं
भाग्यं भङ्गुर-मध्यमाः परिणतं कुञ्जान्तरं ब्जेजिरे

1.290

जीव-दास-वाहिनी-पतेः ।
श्री-कृष्ण-वाक्यम् ।
दुष्टः कोऽपि करोति वः परिभवं शङ्के मुहुर् गोकुले
धावन्त्यः स्खलद्-अम्बरं निशि वने यूयं यद्-अभ्यागताः ।
आः का भीतिर् अमन्द-दानव-वधू-सिन्दूर-मुद्राहरे
दोर्दण्डे मम भाति दीव्यत पति-क्रोडे कुरङ्गी-दृशः

1.291

धूतोत्तापे वहति गहने धर्म-पूरे व्रजान्तः
का वस् तृष्णा वलति हृदये दुर्मदेयं सतीनाम् ।
सीमन्तिन्यः स्पृहयत गृहान् मा विरुद्धं कुरुध्वं
नायं दृष्टौ मम विघटते हन्त पुण्यस्य पन्थाः

1.292

अथ व्रजदेवीनाम् उत्तरम् ।
कथं वीथीम् अस्मान् उपदिशसि धर्म-प्रणयिनीं
प्रसीद स्वां शिष्याम् अतिखिलमुखीं शाधि मुरलीम् ।
हरन्ती मर्यादां शिव शिव परे पुंसि हृदयं
नयन्ती धृष्टेयं यदुवर यथा नाह्वयति नः

1.293

त्रयः समाहर्तुः ॥
गोपीजनालिङ्गित-मध्य-भागं
वेणुं धमन्तं भृश-लोल-नेत्रम् ।
कलेवरे प्रस्फुट-रोम-वृन्दं
नमामि कृष्णं जगद्-एक-कन्दम्

1.294

श्री-पुरुषोत्तमदेवस्य ॥
कालिन्द्याः पुलिनेषु केलि-कुपिताम् उत्सृज्य रासे रसं
गच्छन्तीम् अनुगच्छतोऽश्रुकलुषां कंसद्विषो राधिकाम् ।
तत्-पाद-प्रतिमानिवेशित-पदस्योद्भूतरोमोद्गतेर्
अक्षुण्णोऽनुनयः प्रसन्न-दयिता-दृष्टस्य पुष्णातु वः

1.295

भट्ट-नारायणस्य ॥ (वेणिसंहार 1.2)
कृष्णान्तर्धाने तासां प्रश्नः ।
तुलसि विलससि त्वं मल्लि जातासि फुल्ला
स्थल-कमलिनि भृङ्गे सङ्गताङ्गी विभासि ।
कथयत बत सख्यः क्षिप्रम् अस्मासु कस्मिन्
वसति कपट-कन्दः कन्दरे नन्द-सूनुः

1.296

समाहर्तुः । (उन् 10.94)
दृष्टः क्वापि स माधवो व्रज-वधूम् आदाय काञ्चिद् गतः
सर्वा एव हि वञ्चिताः सखि वयं सोऽन्वेषणीयो यदि ।
द्वे द्वे गच्छतम् इत्य् उदीर्य सहसा राधां गृहीत्वा करे
गोपी-वेश-धरो निकुञ्ज-कुहरं प्राप्तो हरिः पातु वः

1.297

कस्यचित् ॥ (स्भ्व् 100)
राधा-सखी-वाक्यम् ।
अदोषाद् दोषाद् वा त्यजति विपिने तां यदि भवान्
अभद्रं भद्रं वा त्रिभुवन-पते त्वां वदतु कः ।
इदं तु क्रूरं मे स्मरति हृदयं यत् किल तया
त्वद्-अर्थं कान्तारे कुल-तिलक नात्मापि गणितः

1.298

रामचन्द्रदासस्य । (उन् 8.40)
लक्ष्मीं मध्य-गतेन रास-वलये विस्तारयन्न् आत्मना
कस्तूरी-सुरभिर् विलास-मुरली-विन्यस्त-वक्त्रेन्दुना ।
क्रीडा-ताण्डव-मण्डलेन परितो दृष्टेन तुष्यद् दृशा
त्वां हल्लीशक-शङ्कु-सङ्कुल-पदा पायाद् विहारी हरिः

1.299

कस्यचित् ।
तत्र खेचराणाम् उक्तिः ।
मुक्त-मुनीनां मृग्यं
किम् अपि फलं देवकी फलति ।
तत् पालयति यशोदा
निकामम् उपभुञ्जते गोप्यः

1.300

दाक्षिणात्यस्य ॥
तप्तं तपोभिर् अन्यैः
फलितं तद् गोप-बालानाम् ।
आसां यत् कुच-कुम्भे
नील-निचोलयति ब्रह्म

1.301

श्री-रघुपत्युपाध्यायस्य ॥
अथ जल-क्रीडा ।
जल-केलि-तरल-करतल-
मुक्त-पुनः-पिहित-राधिका-वदनः ।
जगद् अवतु कोक-यूनोर्
विघटन-सङ्घटन-कौतुकी कृष्णः

1.302

कस्यचित् । (उन् 15.235)
राधासखीं प्रति चन्द्रावली-सख्याः सासूय-वाक्यम्
मा गर्वम् उद्वह कपोल-तले चकास्ति
कृष्ण-स्वहस्त-लिखिता नव-मञ्जरीति ।
अन्यापि किं न सखि भाजनम् ईदृशीनां
वैरी न चेद् भवति वेपथुर् अन्तरायः

1.303

दामोदरस्य । (अमरु 55; स्क्म् 2.140.5 केशटस्य; स्म्व् 86.14; स्द् 3.105 मद; दश 2.22, एत्च्.; ब्र्स् 2.4.165)
राधा-सख्याः साकूत-वाक्यम् ।
यदवधि गोकुलम् अभितः
समजनि कुसुमाचितासन-श्रेणी ।
पीतांशुक-प्रियेयं
तदवधि चन्द्रावली जाता

1.304

गोवर्धनाचार्यस्य । (अर्यस् 436।531)
चन्द्रावलीं प्रति सखी-वाक्यम्
सौजन्येन वशीकृता वयम् अतस् त्वां किञ्चिद् आचक्ष्महे
कालिन्दीं यदि यासि सुन्दरि पुनर् मा गाः कदम्बाट्वईम् ।
कश्चित् तत्र नितान्त-निर्मल-तमः-स्तोमोऽस्ति यस्मिन् मनाग्
लग्ने लोचनसीम्नि नोत्पलदृशः पश्यन्ती पत्युर् गृहम्

1.305

गोविन्द-भट्टस्य ॥
श्यामोऽयं दिवसः पयोद-पटलैः सायं तथाप्य् उत्सुका
पुष्पार्थं सखि यासि यामुन-तटं याहि व्यथा का मम ।
किन्त्व् एकं खर-कण्टक-कक्षतम् उरस्य् आलोक्य सद्योऽन्यथा
शङ्कां यत् कुटिलः करिष्यति जनो जातास्मि तेनाकुला

1.306

कर्णपूरस्य ॥
गन्तव्या ते मनसि यमुना वर्तते चेत् तदानीं
कुञ्जं मा गाः सहज-सरले वाञ्जुलं मद्-वचोभिः ।
गच्छेस् तत्राप्य् अहह यदि वा मा मुरारेर् उदारे
कुत्राप्य् एका रहसि मुरली-नादम् आकर्णयेथाः

1.307

तैरभुक्त-कवेः ।
तरले न कुरु विलम्बं
कुम्भं संस्मृत्य मन्दिरं याहि ।
यावन् न मोहन-मन्त्रं
शंसति कंसद्विषो वंशी

1.308

समाहर्तुः ॥
पृष्ठेन नीपम् अवलम्ब्य कलिन्दजायाः
कूले विलास-मुरलीं क्वणयन् मुकुन्दः ।
प्राक् पूरणात् कलसम् अम्भसि लोलयन्त्या
वक्त्रं विवर्तयति गोपकुलाङ्गनायाः

1.309

कस्यचित् ॥
सख्यो यय्र् गृहम् अहं कलसीं वहन्ती
पूर्णाम् अतीव-महतीम् अनुलम्बितास्मि ।
एकाकिनीं स्पृशसि मां यदि नन्दसूनो
मोक्ष्यामि जीवनम् इदं सहसा पुरस् ते

1.310

समाहर्तुः ॥
तां प्रति कस्याश्चिद् उक्तिः ।
वल्गन्त्या वन-मालया तव हृतं वक्षोजयोश् चन्दनं
गण्डस्था मकरीघटा च मकरान्दोलेन विध्वंसिता ।
क्लान्ता स्वैर-तरङ्ग-केलिभिर् इयं तन्वी च धूर्ते तनुः
सत्यं जल्पसि भानुजाम् अभि रसे मग्नाद्य हर्षाद् अभूः

1.311

समाहर्तुः ॥
तद्-भर्तारं प्रति सखी-वाख्यम् ।
सुभग मम प्रिय-सख्याः
किम् इव सशङ्कं मुहुर् विलोकयसि ।
यामुन-पवन-विकीर्ण-
प्रिय-करजः-पिञ्जरं पृष्ठम्

1.312

समाहर्तुः ॥
चन्द्रावलीं प्रति तस्या वाक्यम्
कात्यायनी-कुसुम-कामनया किम् अर्थं
कान्तार-कुक्षि-कुहरं कुतुकाद् गतासि ।
पश्य स्तन-स्तवकयोस् तव कण्टकाङ्कं
गोपः सुकण्ठि बत पश्यसि जात-कोपः

1.313

समाहर्तुर् इमे । (उन् 3.38)
अथ नित्य-लीला
वृन्दावने मुकुन्दस्य नित्य-लीला विराजते ।
स्पष्टम् एषा रहस्यत्वाज् जानद्भिर् अपि नोच्यते ॥
ताभिर् नित्य-विहारम् एव तनुते वृन्दावने माधवो
गोष्ठाम्भोजमुखीभिर् इत्य भि मनाक् प्रोचे प्रियायै हरः ।
लीलारत्न-रहस्यता व्रजपतेर् भूयस्य् अहो पश्य यत्
तत्त्वज्ञोऽपि पुरान्तरे च गमनं व्याचष्ट वैयासकिः ॥
तथा हि पाद्मे पार्वत्यै व्याजहार हरो रहः ।
गोगोपगोपिकासङ्गे यत्र क्रीडति कंसहा ॥
अथ भाविनि हरेर् मथुरा-प्रस्थाने राधा-सखी-वाक्यम्
अद्यैव यत् प्रतिपद्-उद्गत-चन्द्र-लेखा-
सख्यं त्वया वपुर् इदं गमितं वराक्याः ।
कृष्णे गते कुसुम-सायक तत् प्रभाते
बाणावलिं कथय कुत्र विमोक्ष्यसि त्वम्

1.314

रुद्रस्य ॥ (स्त् 2.87)
प्रस्थानं वलयैः कृतं प्रियसखैर् अजस्रं गतं
धृत्या न क्षणम् आसितं व्यवसितं चित्तेन गन्तुं पुरः ।
गन्तुं निश्चित-चेतसि प्रियतमे सर्वे समं प्रस्थिता
गन्तव्ये सति जीवित-प्रिय-सुहृत्-सार्थः किम् उ त्यज्यते

1.315

अमरोः । (अमरु 31।36; स्भ्व् 1151; स्प्द् 3424; स्क्म् 2.54.1; स्म्व् 37.19)
हरेर् मथुरा-प्रवेशे
छायापि लोचन-पथं न जगाम यस्याः
सेयं वधूर् नगर-मध्यम् अलङ्करोति ।
किं चापकलय्य मथुरा-नगरे मुकुन्दम्
अन्धोऽपि बन्धुकरदत्तकरः प्रयाति

1.316

वाणीविलासस्य ।
तत्र पुर-स्त्री-वाक्यम् ।
अस्रम् अजस्रं मोक्तुं
धिङ् नः कर्णायते नयने ।
द्रष्टव्यं परिदृष्टं
तत् कैशोरं व्रज-स्त्रीभिः

1.317

तैरभुक्तस्य ॥
सान्द्रानन्दम् अनन्तम् अव्ययम् अजं यद् योगिनोऽपि क्षणं
साक्षात् कर्तुम् उपासते प्रतिदिनं ध्यानैकतानाः परम् ।
धन्यास् ता व्रजवासिनां युवतयस् तद् ब्रह्म याः कौतुकाद्
आलिङ्गन्ति समालपन्ति शतधाकर्षन्ति चुम्बन्ति च

1.318

वाहिनीपतेः ॥ (स्द् 6.314अ)
एxत्र वेर्से :
आनन्द-कन्दम् अखिल-श्रुति-सारम् एकम्
अध्यात्म-दीपम् अतिदुस्तरम् अञ्जनाभम् ।
आकृष्य सान्द्र-कुचयोः परिरभ्य कामं
सम्प्राप्य गोपवनिता बत पुण्य-पुञ्जाः ॥
प्रियसखि न जगाम वामशीलः
स्फुटम् अमुना नागरेण नन्दसूनुः ।
अदलित-नलिनी-दलैव वापी
यद् अहत-पल्लव एव काननान्तः

1.319

कुमारस्य ॥
यास्यामीति समुद्यतस्य वचनं विस्रब्धम् आकर्णितं
गच्छन् दूरम् अपेक्षितो मुहुर् असौ व्यावृत्य पश्यन्न् अपि ।
तच् छून्ये पुनर् आगतास्मि भवने प्राणास् त एव स्थिताः
सख्यः पश्यत जीवित-प्रणयिनी दम्भाद् अहं रोदिमि

1.320

रुद्रटस्य ।
गतो यामो गतौ यामौ
गता यामा गतं दिनम् ।
हा हन्त किं करिष्यामि
न पश्यामि हरेर् मुखम्

1.321

शङ्करस्य ॥
यमुना-पुलिने समुत्क्षिपन्
नटवेशः कुसुमस्य कन्दुकम् ।
न पुनः सखि लोकयिष्यते
कपटाभीर-किशोर-चन्द्रमाः

1.322

षष्ठी-दासस्य ॥
याः पश्यन्ति प्रियं स्वप्ने
धन्यास्ताः सखि योषितः
अस्माकं तु गते कृष्णे
गता निद्रापि वैरिणी

1.323

धन्यस्य । (उन् 15.169)
सोऽयं वसन्त-समयो विपिनं तद् एतत्
सोऽयं निकुञ्ज-विटपी निखिलं तदास्ते
हा हन्त किं तु नव-नीरद-कोमलाङ्गो
नलोकि पुष्प-धनुषः प्रथमावतारः

1.324

सञ्जय-कविशेखरस्य ॥
युगायितं निमेषेण
चक्षुषा प्रावृषायितम् ।
शून्यायितं जगत् सर्वं
गोविन्द-विरहेण मे

1.325

श्री-भगवतः ॥ (शिक्षाष्टक, 7)
दलति हृदयं गाढोद्वेगं द्विधा न तु भिद्यते
वहति विकलः कायो मूर्च्छां न मुञ्चति चेतनाम् ।
ज्वलयति तनूम् अन्तर्दाहः करोति न भस्मसात्
प्रहरति विधिर् मर्मच्छेदी न कृन्तति जीवितम्

1.326

(मालतीमाधव 9.11, उत्तररामचरित 3.31, ब्र्क्; स्म्व् 43.39)
भ्रमय जलदान् अम्भोगर्भान् प्रमोदय चातकान्
कलय शिखिनः केकोत्कण्ठान् कठोरय केतकान् ।
विरहिणि जने मूर्च्छां लब्ध्वा विनोदयति व्यथा-
मकरुण पुनः संज्ञा-व्याधिं विधाय किम् ईहसे

1.327

एतौ भवभूतेः । (मालतीमाधव 9.42, स्प्द् 3453; स्म्व् 43.34)
दृष्टं केतक-धूलि-धूसरम् इदं व्योम क्रमाद् वीक्षिताः
कच्चान्ताश् च शिलीन्ध्र-कन्दल-भृतः सोढाः कदम्बानिलाः ।
सख्यः संवृणुताश्रु मुञ्चत भयं कस्मान् मुदेवाकुला
एतान् अप्य् अधुनास्मि वज्रघटिता नूनं सहिष्ये धनान्

1.328

रुद्रस्य ॥ (स्क्म् 2.55.3, स्त् 2.60अ)
सेयं नदी कुमुद-बद्न्हुकरास् त एव
तद् यामुनं तटम् इदं विपिनं तद् एतत् ।
ते मल्लिका-सुरभयो मरुतस् त्वम् एव
हा प्राण-वल्लभ सुदुर्लभतां गतोऽसि

1.329

हरिभट्टस्य ॥
यदुनाथ भवन्तम् आगतं
कथयिष्यन्ति कदा मदालयः ।
युगपत् परितः प्रधावितः
विकसद्भिर् वदनेन्दु-मण्डलैः

1.330

तैरभुक्तकवेः ॥
अयि दीनदयार्द्र नाथ हे,
मथुरानाथ कदावलोक्यसे ।
हृदयं त्वद्-अलोक-कातरं
दयित भ्राम्यति किं करोम्य् अहम्

1.331

श्री-माधवेन्द्र-पुरी-पादानाम् । (च्च् 2.4.197, 3.8.32)
प्रथयति न तथा ममार्तिम् उच्चैः
सहचरि वल्लव-चन्द्र-विप्रयोगः ।
कटुभिर् असुर-मण्डलैः परीते
दनुजपतेर् नगरे यथास्य वासः

1.332

श्री-रघुनाथ-दासस्य । (ब्र्स् 2.4.52)
चूताङ्कुरे स्फुरति हन्त नवे नवेऽस्मिन्
जीवोऽपि यास्यतितरां तरल-स्वभावः ।
किं त्व् एकम् एव मम दुःखम् अभूद् अनल्पं
प्राणेश्वरेण सहितो यद् अयं न यातः

1.333

।
राङ्गस्य ।
आशैक-तन्तुम् अवलम्ब्य विलममाना
रक्षामि जीवम् अवधिर् नियतो यदि स्यात् ।
नो चेद् विधिः सकल-लोक-हितैककारी
यत् काल-कूटम् असृजत् तद् इदं किम् अर्थम्

1.334

हरेः ।
प्रसर शिशिरामोदं कौन्दं समीर समीरय
प्रकटय शशिन्न् आशाः कामं मनोज समुल्लस ।
अवधि-दिवसः पूर्णः सख्यो विमुञ्चत तत्-कथां
हृदयम् अधुना किञ्चित् कर्तुं ममान्यद् इहेच्छति

1.335

रुद्रस्य ॥ (स्क्म् 2.55.5; स्त् 2.58ए, स्म्व् 40.18)
नायाति चेद् यदुपतिः सखि नैतु कामं
प्राणास् तदीय-विरहाद् यदि यान्ति यान्तु ।
एकः परं हृदि महान् मम वज्र-पातो
भूयो यद् इन्दुवदनं न विलोकितं तत्

1.336

हरि-भट्टस्य ॥
पञ्चत्वं तनुर् एतु भूत-निवहाउ स्वांशे विशन्तु स्फुटं
धातारं प्रणिपत्य हन्त शिरसा तत्रापि याचे वरम् ।
तद्-वापीषु पयस् तदीय-मुकुरे ज्योतिस् तदीयाङ्गन-
व्योम्नि व्योम तदीय-वर्त्मनि धरा तत्-ताल-वृन्तेऽनिलः

1.337

षण्मासिकस्य । (स्प्द् 3428; स्म्व् 43.32; स्भ्व् 1355; उन् 14.189)
आश्लिष्य वा पाद-रतां पिनष्टु माम्
अदर्शनान् मर्म-हतां करोतु वा ।
यथा तथा वा विदधातु लम्पटो
मत्-प्राण-नाथस् तु स एव नापरः

1.338

श्री-भगवतः ॥ (च्च् 3.20.47, उन् 13.79)
मथुरायां यशोदा-स्मृत्या कृष्ण-वाक्यम् ।
ताम्बूलं स्व-मुखार्धं चर्वितम् इतः को मे मुखे निक्षिपेद्
उन्मार्ग-प्रसृतं च चाटु-वचनैः को मां वशे स्थापयेत् ।
एह्य् एहीति विदूर-सारित-भुजः स्वाङ्के निद्यायाधुना
केलि-स्रस्त-शिखण्डकं मम पुनर् व्याधूय बध्नातु कः

1.339

तैरभुक्तस्य ॥
अथ श्री-राधा-स्मृत्या हरेर् वाक्यम् ।
यदि निभृतम् अरण्यं प्रान्तरं वाप्य् अपान्थं
कथम् अपि चिरकालं पुण्यपाकेन लप्स्ये ।
अविरल-गलद्-अस्रैर् घघर-ध्वान-मिश्रैः
शशिमुखि तव शोकैः प्लावयिष्ये जगन्ति

1.340

तैरभुक्तकवेः ॥
उद्धवं प्रति हरेर् वाक्यम् ।
विषयेषु तावद् अबलास्
तास्व् अपि गोप्यः स्वभाव-मृदु-वाचः ।
मध्ये तासाम् अपि सा
तस्याम् अपि साचिवीक्षितं किम् अपि

1.341

कस्यचित् ॥
उद्धवेन राधायां हरेः सन्देशः ।
आविर्भाव-दिने न येन गणितो हेतुस् तनीयान् अपि
क्षीयेतापि न चापराध-विधिना नत्या नयो वर्धते ।
पीयूष-प्रतिवेदिनस् त्रिजगती-दुःख-द्रुहं साम्प्रतं
प्रेम्णस् तस्य गुरोः कथं नु करवै वाङ्-निष्ठता-लाघवम्

1.342

केषांचित् ॥
आस्तां तावद् वचन-रचना-भाजनत्वं विदूरे
दूरे चास्तां तव तनु-परीरम्भ-सम्भावनापि ।
भूयो भूयः प्रणतिभिर् इदं किं तु याचे विधेया
स्मारं स्मारं स्वजन-गणने क्वापि रेखा ममापि

1.343

केशव-भट्टाचार्याणाम् ॥
वृन्दावनं गच्छत उद्धवस्य वाक्यम् ।
इयं सा कालिन्दी कुवलय-दल-स्निग्ध-मधुरा
मदान्ध-व्याकूज-तरल-जल-रङ्कु-प्रणयिनी ।
पुरा यस्यास् तीरे सरभस-सतृष्णं मुरभिदो
गताः प्रायो गोपी-निधुवन-विनोदेन दिवसाः

1.344

दशरथस्य । (स्क्म् 5.11.4 शरणस्य)
पुरेयं काल्लिन्दी व्रज-जन-वधूनां स्तन-तटी-
तनूरागैर् भिन्ना चबल-सलिलाभूद् अनुदिनम् ।
अहो तासां नित्यं रुदित-गलितैः कज्जल-जलैर्
इदानीं यातेऽस्मिन् द्विगुण-मल्लिनाभून् मुररिपौ

1.345

सर्वानन्दस्य ॥
इदं तत् कालिन्दी-पुलिनम् इह कंसासुरभिदो
यशः शृण्वद् वक्त्र-स्खलित-कवलं गोकुलम् अभूत् ।
भ्रमद्-वेणु-क्वाण-श्रवण-मसृणोत्तार-मधुर-
स्वराभिर् गोपीभिर् दिशि दिशि समुद्घूर्णम् अनिशम्

1.346

मोटकस्य ॥ (स्क्म् 5.11.5 केशटस्य)
ताभ्यो नमो वल्लव-वल्लभाभ्यो
यासां गुणैस् तैर् अभिचिन्त्यमानैः ।
वक्षःस्थले निःश्वसितैः कदुष्णैर्
लक्ष्मीपतेर् म्लायति वैजयन्ती

1.347

कस्यचित् ॥
व्रजदेवीकुलं प्रत्य् उद्धव-वाक्यम् ।
वियोगिनीनाम् अपि पद्धतिं वो
न योगिनो गन्तुम् अपि क्षमन्ते ।
यद् ध्येयरूपस्य परस्य पुंसो
यूयं गता ध्येय-पदं दुरापम्

1.348

कस्यचित् ॥
उद्धवे दृष्टे सखीं प्रति राधा-वाक्यम् ।
कल्याणं कथयामि किं सहचरि स्वैरेषु शश्वत् पुरा
यस्या नाम समीरितं मुररिपोः प्राणेश्वईति त्वया ।
साहं प्रेमभिदाभयात् प्रियतमं दृष्ट्वापि दूतं प्रभोः
सन्दिष्टास्मि न वेति संशयवती पृच्छामि नो किञ्चन

1.349

रामचन्द्र-दासस्य ॥
श्री-राधां प्रति उद्धव-वाक्यम् ।
मलिनं नयनाञ्जनाम्बुभिर्
मुखचन्द्रं करभोरु मा कुरु ।
करुणावरुणालयो हरिस्
त्वयि भूयः करुणां विधास्यति

1.350

षष्ठी-दासस्य ॥ (उन् 12.30)
उद्धवं प्रति राधा-सखी-वाक्यम् ।
हस्तोदरे विनिहितैककपोलपालेर्
अश्रान्तलोचनजलस्नपिताननायाः ।
प्रस्थानमङ्गलदिनावधि माधवस्य
निद्रालवोऽपि कुत एव सरोरुहाक्ष्याः

1.351

हरिहरस्य ॥ (ब्र्स् 3.5.32)
राधा-सख्या एव कृष्णे सन्देशः ।
निश्चन्दनानि वणिजाम् अपि मन्दिराणि
निष्पल्लवानि च दिगन्तर-काननानि ।
निष्पङ्कजान्य् अपि सरित्-सरसीकुलानि
जातानि तद्-विरह-वेदनया न शान्तम्

1.352

तस्यैव ॥
प्राणस् त्वं जगतां हरेर् अपि पुरा सङ्केत-वेणु-स्वनान्
आदाय व्रज-सुभ्रुवाम् इह भवान् मार्गोपदेशे गुरु ।
हंहो मथुरा-निष्कुटानिल सखे सम्प्रत्य् अपि श्री-पतेर्
अङ्ग-स्पर्श-पवित्र-शीतिल-तनुस् त्राता त्वम् एकोऽसि नः

1.353

रामचन्द्र-दासस्य ॥
राधासख्या एव कृष्णे सन्देशः ।
त्वद्-देशागत-मारुतेन मृदुना सञ्जात-रोमाञ्चया
त्वद्-रूपाङ्कित-चारु-चित्र-फलके सन्तर्पयन्त्या दृशम् ।
त्वन्-नामामृत-सिक्त-कर्ण-पुटया त्वन्-मार्ग-वातायने
तन्व्या पञ्चम-गीत-गर्भित-गिरा रात्रिन्दिवं स्थीयते

1.354

त्रिविक्रमस्य ॥ (नलचम्पू 6.23; स्म्व् 44.5)
अङ्गेऽनङ्ग-ज्वर-हुत-वहश् चक्षुषि ध्यान-मुद्रा
कण्ढे जीवः करकिशलये दीर्घ-शायी कपोलः ।
अंसे वेणी कुच-परिसरे चन्दनं वाचि मौनं
तस्याः सर्वं स्थितम् इति न च त्वां विना क्वापि चेतः

1.355

क्षेमेन्द्रस्य ॥ (स्प्द् 3474; स्म्व् 44.6; कविकण्ठाभरण 3.2)
दृष्टे चन्द्रमसि प्रलुप्त-तमसि व्योमाङ्गन-स्थेयसि
स्फूर्जन्-निर्मल-तेजसि त्वयि गते दूरं निज-प्रेयसि ।
श्वासः कैरव-कोरकीयति मुखं तस्याः सरोजीयति
क्षीरोदीयति मन्मथो दृगपि च द्राक् चन्द्रकान्तीयति

1.356

भीमभट्टस्य ॥ (स्प्द् 3480, स्म्व् 44.10; स्क्म् 2.36.1 fइर्स्त् त्wओ लिनेस् सोमेwहत् दिffएरेन्त्)
अस्यास् तापम् अहं मुकुन्द कथयाम्य् एणीदृशस् ते कथं
पद्मिन्याः सरसं दलं विनिहितं यस्याः सतापे हृदि ।
आदौ शुष्यति सङ्कुचत्य् अनु ततश् चूर्णत्वम् आपद्यते
पश्चान् मुर्मुरतां दधद् दहति च श्वासावधूतः शिखी

1.358

शान्तिकरस्य । (स्म्व् 44.25; स्क्म् 2.31.1; स्र्क् 553 कस्यचित्; उत्पलराज)
उद्धूयेत तनू-लतेति नलिनी-पत्रेण नो बीज्यते
स्फोटः स्याद् इति नाङ्गकं मलयज-क्षोदाम्भसा सिच्यते ।
स्याद् अस्यातिभरात् पराभव इति प्रायो न वा पल्लवा-
रोपो वक्षसि तत् कथ कृशतनोर् अधिः समाधीयताम्

1.359

आनन्दस्य ॥
निवससि यदि तव हृदये
सा राधा वज्र-घटितेऽस्मिन्
तत् खलु कुशलं तस्याः
स्मर-विशिखैस् ताड्यम् आनयोः

1.360

कस्यचित् ॥ (स्म्व् 44.11)
उन्मीलन्ति नखैर् लुनीहि वहति क्षौमाञ्चलेनावृणु
क्रीडा-काननम् आविशन्ति वलय-क्वाणैः समुत्रासय ।
इत्थं पल्लव-दक्षिणानिल-कुहू-कण्ठीषु साङ्केतिक-
व्याहाराः सुभग त्वदीय-विरहे राधा-सखीनां मिथः

1.361

शम्भोः ॥ (स्क्म् 2.30.4 अमरोः; स्प्द् 3489 सत्कविचन्द्रस्य; स्म्व् 44.13; स्द् 10.79)
गलत्य् एका मूर्च्छा भवति पुनर् अन्या यद् अनयोः
किम् अप्य् आसीन् मध्यं सुभग निखिलायाम् अपि निशि ।
लिखन्त्यास् तत्रास्याः कुसुम-शर-लेखं तव कृते
समाप्तिं स्वस्तीति प्रथम-पद-भागोऽपि न गतः

1.362

शचीपतेः ॥ (स्प्द् 3477; स्म्व् 44.20)
चित्राय त्वयि चिन्तिते तनुभुवा चक्रे ततज्यं धनुर्-
वर्तिं धर्तुम् उपागतेऽङ्गुलि-युगे बाणो गुणे योजितः ।
प्रारब्धे तव चित्र-कर्मणि धनुर् मुक्तास्त्र-भिन्ना भृशं
भित्तिं द्रग् अवलम्ब्य केशव चिरं सा तत्र चित्रायते

1.363

बाणस्य ॥ (स्म्व् 44.21 सिंहलपतेः)
त्वाम् अन्तःस्थिरभावना-परिणतं मत्वा पुरोऽवस्थितं
यावद् दोर्वलयं करोति रभसाद् अग्रे समालिङ्गितुम् ।
तावत् तं निजम् एव देहम् अचिराद् अलिङ्ग्य रोमाञ्चितां
दृष्ट्वा वृष्टिजलच्छलेन रुदितं मन्ये पयोदैर् अपि

1.364

कस्यचित् ॥ (स्म्व् 44.22)
अच्छिन्नं नयनाम्बु बन्धुषु कृतं तापः सखीष्व् आहितो
दैन्यं न्यस्तम् अशेषतः परिजने चिन्ता गुरुभ्योऽर्पिता ।
अद्य श्वः किल निर्वृतिं व्रजति सा श्वासैः परैः खिद्यते
विस्रब्धो भव विप्रयोग-जनितं दुःखं विभक्तं तया

1.365

(अमरु 78।110; स्भ्व् 1407; स्म्व् 44.20; स्प्द् 3486; स्क्म् 2.32.2; दश 4.27)
अथास्या एव स्प्रणयेर्ष्यं जल्पितम् ।
मुख-माधुर्य-समृद्ध्या
परहृदयस्य ग्रहीतरि प्रसभम् ।
कृष्णात्मनि पर-पुरुषे
सौहृदकामस्य का शरीराशा

1.366

जगन्नाथ-सेनस्य ।
अथ व्रजदेवीनां सोत्प्रासः सन्देशः ।
वाचा तृतीय-जन-सङ्कट-दुःस्थया किं
किं वा निमेष-विरसेन विलोकितेन ।
हे नाथ नन्द-सुत गोकुल-सुन्दरीणाम्
अन्तश्चरी सहचरी त्वयि भक्तिर् एव

1.367

कस्यचित् ।
अथ यथार्थ-सन्देशः ।
मुरली-कल-निक्वणैर् या
गुरु-लज्जा-भरम् अप्य् अजीगणत् ।
विरहे तव गोपिकाः कथं
समयं ता गमयन्तु माधव

1.368

षष्ठीदासस्य ॥
मथुरा-पथिक मुरारेर्
उपगेयं द्वारि वल्लवी-वचनम् ।
पुनर् अपि यमुना-सलिले
कालिय-गरलानलो ज्वलति

1.369

वीरसरस्वत्याः ॥ (स्क्म् 1.62,5; उन् 10.98)
अथ द्वारवतीस्थस्य हरेर् विरहः ।
कलिन्दीम् अनुकूल-कोमल-रयाम् इन्दीवर-श्यामलाः
शैलोपान्तभुवः कदम्ब-कुसुमैर् आमोदिनः कन्दरात् ।
राधां च प्रथमाभिसार-मधुरां जातानुताआः स्मरन्न्
अस्तु द्वारवती-पतिस् त्रिभुवनामोदाय दामोदरः

1.370

शरणस्य ॥ (स्क्म् 1.61.2)
कामं कामयते न केलि-नलिनीं नामोदते कौमुदी-
निस्यन्दैर् न समीहते मृग-दृशाम् आलाप-लीलाम् अपि ।
सीदन्न् एष निशासु निःसह-तनुर् भोगाभिलाषालसैर्
अङ्गैस् ताम्यति चेतसि व्रजवधूम् आधाय मुग्धो हरिः

1.371

तस्यैव ॥ (स्क्म् 1.61.3)
रत्न-च्छाया-च्छुरित-जलधौ मन्दिरे द्वारकाया
रुक्मिण्यापि प्रबल-पुलकोद्भेदम् आलिङ्गितस्य ।
विश्वं पायान् मसृण-यमुना-तीर-वानीर-कुञ्जे
राधा-केली-परिमल-भर-ध्यान-मूर्च्छा मुरारेः

1.372

उमापतिधरस्य ॥ (स्क्म् 1.61.1; उन् 14.184; जीव अन्द् व्च्त् तो ब्र्स् 2.4.178)
निर्मग्नेन मयाम्भसि प्रणयतः पाली समालिङ्गिता
केनालीकम् इदं तवाद्य कथितं राधे मुधा ताम्यसि ।
इत्य् उत्सवप्न-परम्परासु शयने श्रुत्वा गिरं शार्ङ्गिणो
रुक्मिण्या शिथिलीकृतः सकपतं कण्ठ-ग्रहः पातु वः

1.373

उमापतिधरस्य ॥ (स्क्म् 1.53.5,कस्यचित्)
स्क्म् वेर्सिओन्:
निर्मग्नेन मयाम्भसि स्मर-भयाद् आली समालिङ्गिता
केनालीकम् इदं तवाद्य कथितं राधे मुधा ताम्यसि ।
इत्थं स्वप्न-परम्परासु शयने श्रुत्वा गिरं शार्ङ्गिणः
सव्याजं शिथिलीकृतः कमलया कण्ठ-ग्रहः पातु वः ॥ कस्यचित् ॥
अथ वृन्दावनाधीश्वरी-विरह-गीतम् ।
याते द्वारवती-पुरं मुररिपौ तद्-वस्त्र-संव्यानया
कालिन्दी-तट-कुञ्ज-वञ्जुल-लताम् आलाम्ब्य सोत्कण्ठया ।
उद्गीतं गुरु-बाष्प-गद्गद-गलत्-तारस्वरं राधया
येनान्तर्जलचारिभिर् जलचरैर् अप्य् उत्कम् उत्कूजितम्

1.374

अपराजितस्य ॥ (स्क्म् 1.58.4 कस्यचित्; ध्व्, वक् 2.59; एत्च्.; उन् 14.188)
अथ व्रजदेवीनां सन्देशः ।
पान्थ द्वारवतीं प्रयासि यदि हे तद् देवकीनन्दनो
वक्तव्यः स्मर-मोहमन्त्र-विवशो गोप्योऽपि नामोज्झिताः ।
एताः केलि-कदम्ब-धूलि-पटलैर् आलोक-शून्या दिशः
कालिन्दी-तट-भूमयो भवतो नायान्ति चित्तास्पदम्

1.375

गोवर्धनाचार्यस्य ॥ (स्क्म् 1.62.2; शृङ्गार-प्रकाश, छेच्क् स्र्क्)
ते गोवर्धन-कन्दराः स यमुना-कच्छः स चेष्टारसो
भाण्डीरः स वमस्पतिः सहचरास् ते तच् च गोष्ठाङ्गनम् ।
किं द्वारवती-भुजङ्ग हृदयं नायाति दोषैर् अपीत्य्
अव्याद् वो हृदि दुःसहं व्रज-वधू-सन्देश-शल्यं हरेः

1.376

नीलस्य ॥ (स्क्म् 1.62.1)
कालिन्द्याः पुलिनं प्रदोष-मरुतो रम्याः शशङ्कांशवः
सन्तापं न हरन्तु नाम नितरां कुर्वन्ति कस्मात् पुनः ।
सन्दिष्टं व्रज-योषिताम् इति हरेः संशृण्वतोऽन्तःपुरे
निःश्वासाः प्रसृता जयन्ति रमणी-सौभाग्य-गर्व-च्छिदः

1.377

पञ्चतन्त्र-कृतः ॥ (स्क्म् 1.62.4, उन् 15.164)
मुदामानं प्रति श्री-द्वारकेश्वर-वचनम्
मा गा इत्य् अपमङ्गलं व्रज सखे स्नेहेन शून्यं वचः
तिष्ठेति प्रभुता यथाभिलपितं कुर्व् इत्य् उदासीनता ।
ब्रूमो हन्त मुदाम मित्र वचनं नैवोपचाराद् इदं
स्मर्तव्या वयम् आदरेण भवता यावद् भवद्-दर्शनम्

1.378

हरेः ॥
स्व-गृहादिकं दृष्ट्वा तस्य वचनम् ।
तद्-गेहं नत-भित्ति मन्दिरम् इदं लब्धावकाशं दिवः
सा धेनुर् जरती चरन्ति करिणाम् एता घनाभा घटाः ।
स क्षुद्रो मुषल-ध्वनिः कलम् इदं सङ्गीतकं योषितां
चित्रं हन्त कथं द्विजोऽयम् इयतीं भूमिं समारोपितः

1.379

कस्यचित् ॥
अथ कुरुक्षेत्रे श्री-वृन्दावनाधीश्वर-चेष्टितम्
येनैव सूचित-नवाभ्युदय-प्रसङ्गा
मीनाहति-स्फुरित-तामरसोपमेन ।
अन्यन् निमील्य नयनं मुदितैव राधा
वामेन तेन नयनेन ददर्श कृष्णम्

1.380

हरस्य ॥ (स्म्व् 54.8 उत्प्रेक्षावल्लभस्य)
आनन्दोद्गत-बाष्प-पूर-पिहितं चक्षुः क्षमं नेक्षितुं
बाहू सीदत एव कम्प-विधुरौ शक्तौ न कण्ठ-ग्रहे ।
वाणी सम्भ्रम्-गद्गदाक्षर-पदा संक्षोभ-लोलं मनः
सत्यं वल्लभ-सङ्गमोऽपि सुचिराज् जातो वियोगायते

1.381

शुभ्रस्य ॥ (स्क्म् 2.132.1 कस्यचित्; स्भ्व् 2065 श्री-डामरस्य; स्म्व् 54.10 कस्यापि)
अथ रहस्य् अनुनयन्तं कृष्णं प्रति ।
किं पादान्ते लुठसि विमनाः स्वामिनो हि स्वतन्त्राः
कञ्चित् कालं क्वचिद् अभिरतस् तत्र कस् तेऽपराधः ।
आगस्कारिण्य् अहम् इह यया जीवितं तद्-वियोगे
भर्तृ-प्राणाः स्त्रिय इति ननु त्वं ममैवानुनेयः

1.382

कस्यचित् ॥ (स्क्म् 2.47.1 भावदेव्याः; स्र्क् 643 वाक्कूटस्य; स्म्व् 57.14)
यः कौमार-हरः स एव हि वरस् ता एव चैत्र-क्षपास्
ते चोन्मीलित-मालती-सुरभयः प्रौéहाः कदम्बानिलाः
सा चैवास्मि तथापि तत्र सुरत-व्यापार-लीला-विधौ
रेवा-रोधसि वेतसी-तरु-तले चेतः समुत्कण्ंहते

1.383

कस्यचित् (स्क्म् 2.12.3; स्प्द् 3768; स्म्व् 87.9; स्द् 1.2, च्च् 2.1.58, 2.13.121, 3.1.78.)
प्रियः सोऽयं कृष्णः सहचरि कुरुक्षेत्र-मिलितस्
तथाहं सा राधा तद् इदम् उभयोः सङ्गम-सुखम् ।
तथाप्य् अन्तः-खेलन्-मधुर-मुरली-पञ्चम-जुषे
मनो मे कालिन्दी-पुलिन-विपिनाय स्पृहयति

1.384

समाहर्तुः ॥ (चैतन्य-चरितामृत, 2.1.76)
समाप्तौ मङ्गलाचरणम् ।
मुग्धे मुञ्च विषादम् अत्र बलभित् कम्पो गुरुस् त्यज्यतां
सद्-भावं भज पुण्डरीक-नयने मान्यान् इमान् मानय ।
लक्ष्मीं शिक्षयतः स्वयंवर-विधौ धन्वन्तरेर् वाक्छलाद्
इत्य् अन्य-प्रतिषेधम् आत्मनि विधिं शृण्वन् हरिः पातु वः

1.385

कस्यचित् ॥ (स्भ्व् 84 दाक्षिणात्यस्य कस्यापि, स्क्म् 1.67.5 पुण्डरीकस्य)
यदुवंशावतंसाय
वृन्दावन-विहारिणे ।
संसार-सागरोत्तार-
तारये हरये नमः

1.386

अविलम्ब-सरस्वत्याः ॥
भ्राम्यद्-भास्वर-मन्दराद्रि-शिखर-व्याघट्टनाद् विस्फुरत्
केयूराः पुरुहूत-कुञ्जर-कर-प्राग्-भार-संवर्धिनः ।
दैत्येन्द्र-प्रमदा-कपोल-विलसत्-पत्राङ्कुर-च्छेदिनो
दोर्-दण्डाः कलिल्-काल-कल्मष-मुषः कंस-द्विषो पातु वः

1.387

योगेश्वरस्य॥ (स्क्म् 1.59.1 कस्यचित्)
जयदेव-बिल्वमङ्गल-मुखैः
कृता येऽत्र सन्ति सन्दर्भाः ।
तेषां पद्यानि विना
समाहृतानीतराण्य् अत्र

1.388

लसद्-उज्ज्वल-रसस्तमना
गोकुल-कुल-पालिकालिनी-वलितः ।
यद् अभीप्सितम् अभिदद्यात्
तरुण-तमाल-कल्प-पादपः कोऽपि

मूल पाठ: Padyāvalī (comp.) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc