भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.92

6.92.1

पृथुरुवाच-
महाफलं त्वया प्रोक्तं मुने कार्त्तिकमाघयोः ।
तयोः स्नानविधिं सम्यङ्नियमानपि नारद ।
उद्यापनविधिं चैवं यथावद्वक्तुमर्हसि

6.92.2

नारद उवाच-
त्वं विष्णोरंशसंजातो नाज्ञातं विद्यते तव ।
तथापि वदतः सम्यङ्माहात्म्यं शृणु वेनज

6.92.3

आश्विनस्य तु मासस्य या शुक्लैकादशी भवेत् ।
कार्तिकव्रतनियमं तस्यां कुर्यादतंद्रितः

6.92.4

रात्र्यां तुर्यांशशेषायां मुदो तिष्ठत्सदा व्रती ।
नैरृत्यां संव्रजेद्वासाद्बहिः सोदकभाजनः

6.92.5

दिवासंध्या सुकर्णस्थ ब्रह्मसूत्र उदङ्मुखः ।
अंतर्धाय तृणं भूमौ शिरः प्रावृत्य वाससा

6.92.6

वक्त्रं नियम्य यत्नेन ष्ठीवनश्वासवर्जितः ।
कुर्यान्मूत्रपुरीषे च रात्रौ चेद्दक्षिणामुखः

6.92.7

गृहीतशिश्नश्चोत्थाय गृहीत्वा शुचिमृत्तिकाम् ।
गंधलेपक्षयकरं शौचं कुर्यादतंद्रितः

6.92.8

एका लिंगे गुदे पंच तथा वामकरे दश ।
उभयोः सप्त दातव्यास्तथा तिस्रस्तु पादयोः

6.92.9

एतद्द्वि त्रिगुणं प्रोक्तं ब्रह्मचारि वनस्थयोः ।
यतेश्चतुर्गुणं रात्रौ तदर्द्धं शौचमाचरेत्

6.92.10

तदर्द्धमपि मार्गस्थः स्त्रीशूद्राणां तदर्द्धकम् ।
शौचकर्मविहीनस्य सकला निष्फलाः क्रियाः

6.92.11

मुखशुद्धिविहीनस्य नो मंत्राः फलदाः स्मृताः ।
दंत जिह्वा विशुद्धिं च ततः कुर्यात्प्रयत्नतः

6.92.12

आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च ।
ब्रह्म प्रज्ञां च मेधां च त्वन्नो देहि वनस्पते

6.92.13

इति मंत्रं समुच्चार्य द्वादशांगुलकं सदा ।
समिधा क्षीरवृक्षास्य क्षयाहोपोषणं विना

6.92.14

प्रतिपद्दर्श नवमी षष्ठीश्चार्कदिनं विना ।
चंद्रसूर्योपरागे च न कुर्याद्दंतधावनम्

6.92.15

कंटकीवृक्षकार्पास निर्गुंडी ब्रह्मवृक्षजम् ।
बिल्वैरंडविगंधाढ्यं वर्जयेद्दंतधावनम्

6.92.16

ततो विष्णोः शिवस्यापि गृहं गच्छेत्प्रसन्नधीः ।
गंधपुष्पसुतांबूलान्गृहीत्वा भक्तितत्परः

6.92.17

तत्र देवस्य पाद्यार्घाद्युपचारान्पृथक्पृथक् ।
कृत्वा स्तुत्वा पुनर्नत्वा कुर्याद्गीतादिमंगलम्

6.92.18

तालवेणुमृदंगादि ध्वनियुक्तान्सनृत्तकान् ।
पुष्पैर्गंधैः सतांबूलैर्गायनानपि चार्चयेत्

6.92.19

देवालये गानपरा यतस्ते विष्णुमूर्त्तयः ।
तपांसि यज्ञदानानि कृतानि च जगद्गुरोः

6.92.20

तुष्टिदानि कलौ नित्यं भक्त्या देवस्य सत्पतेः ।
क्व त्वं वससि देवेश मया पृष्टस्तु पार्थिव

6.92.21

विष्णुरेवं तदा प्राह मद्भक्तिपरितोषितः ।
नाहं वसामि वैकुंठे योगिनां हृदये न च

6.92.22

मद्भक्ता यत्र गायंति तत्र तिष्ठामि नारद ।
सत्पुराणकथां श्रुत्वा मद्भक्तानां च गायनम्

6.92.23

नेच्छंति ये नरा मूढा मद्द्वेष्यास्ते भवंति हि ।
तेषां पूजादिकं गंधपुष्पादि क्रयते नरैः

6.92.24

तेन प्रीतिं तथा यामि न तथा मत्प्रपूजनात् ।
शिरीषोन्मत्तगिरिजा मल्लिका शाल्मलीभवैः

6.92.25

अर्कजैः कर्णिकारैश्च विष्णुर्नार्च्यस्तथाक्षतैः ।
जपा कुंद शिरीषैश्च यूथिका मालती भवैः

6.92.26

केतकीभव पुष्पैश्च नैवार्च्यः शंकरस्तथा ।
गणेशं तुलसीपत्रैर्दुर्गां नैव च दूर्वया

6.92.27

मुनिपुष्पैस्तथा सूर्यं लक्ष्मीकामो न चार्चयेत् ।
सुगंधीनि प्रशस्तानि पूजायां सर्वदैव तु

6.92.28

एवं पूजाविधिं कृत्वा देवदेवं क्षमापयेत् ।
मंत्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर

6.92.29

यत्पूजितं मया देव परिपूर्णं तदस्तु मे ।
ततःप्रदक्षिणंकृत्वादंडवत्प्रणिपत्यच

6.92.30

पुनःक्षमापयेद्देवंगायनाद्यंक्षमापयेत् ।
विष्णोः शिवस्यापि च पूजनादिकं कुर्वंति सम्यङ्निशि कार्तिके ये ।
निर्धूतपापाः सह पूर्वजैस्ते प्रयांति विष्णोर्भवनं मनुष्याः

6.92.92

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे नियमवर्णनं नाम द्विनवतितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc