भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.87

6.87.1

महेश्वर उवाच-
चैत्रे तु चंपकेनैव जातीपुष्पेण वा पुनः ।
पूजनीयः प्रयत्नेन केशवः क्लेशनाशनः

6.87.2

दमनकैर्मरुकैश्चैव बिल्वपुष्पैरथापि वा ।
पूजयेज्जगतामीशं विष्णुं सर्वेश्वरेश्वरम्

6.87.3

शतपत्रैस्तथादिव्यै रक्तैर्वा सुसमाहितः ।
पूजयंति नरा विष्णुं चैत्रमासे सुरेश्वरि

6.87.4

वैशाखे तु सदा देवि ह्यर्चनीयो महत्प्रभुः ।
केतकीपत्रमादाय वृषस्थे च दिवाकरे

6.87.5

येनार्चितो हरिर्भक्त्या प्रीतो मन्वंतरं शतम् ।
ज्येष्ठे मासे तु संप्राप्ते नानापुष्पैः प्रपूजयेत्

6.87.6

पूजिते देवदेवेशे सर्वे देवाः सुपूजिताः ।
कृत्वा पापसहस्राणि महापापशतानि च

6.87.7

तेपि यास्यंति भो देवि यत्र विष्णुः श्रिया सह ।
आषाढे मासि संप्राप्ते पूजां कुर्याद्विशेषतः

6.87.8

करवीरैरक्तपुष्पैस्तथाब्जैर्वा सदा नराः ।
पूजां कुर्वंति ये विष्णोस्ते ज्ञेयाः पुण्यभागिनः

6.87.9

जातरूपनिभैर्विष्णुं कदंबकुसुमैस्तथा ।
येऽर्चयिष्यंति गोविंदं न तेषां सौरिजं भयम्

6.87.10

घनागमे घनश्यामः कदंबकुसुमार्चितः ।
ददाति वांछितान्कामान्यावदिंद्राश्चतुर्दश

6.87.11

यथा पद्मालयां प्राप्य प्रीतो भवति माधवः ।
कदंबकुसुमं लब्ध्वा प्रीतो भवति लोककृत्

6.87.12

तुलसी कृष्णतुलसी वंजुलैर्वा सुरेश्वरि ।
सर्वदा पूजितो विष्णुः कष्टं हरति नित्यशः

6.87.13

श्रावणे मासि संप्राप्ते येऽर्चयंति जनार्दनम् ।
अतसीपुष्पमादाय तथा दूर्वादलेन तु

6.87.14

नानापुष्पैर्विशेषेण पूजनीयः प्रयत्नतः ।
ददाति विपुलान्कामान्यावदाभूतसंप्लवम्

6.87.15

भाद्र मासे तु संप्राप्ते शृणु त्वं नगनंदिनि ।
चंपकैर्वा श्वेतपुष्पैरक्तसिंदूरकैस्तथा

6.87.16

कह्लारैर्वा महादेवि सर्वकामफलं लभेत् ।
आश्विने वै शुभेमासे कर्त्तव्यं विष्णुपूजनम्

6.87.17

यूथिकानवजातीभिस्तथा नानाविधैः शुभैः ।
पूजनीयः प्रयत्नेन भक्तिपूर्वं सदा जनैः

6.87.18

पद्मान्येव समानीय येऽर्चयंति जनार्दनम् ।
धर्मार्थकाममोक्षांस्ते लभंते मानवा भुवि

6.87.19

कार्तिकेमासि संप्राप्ते पूजनीयो महेश्वरः ।
यावंति ऋतुपुष्पाणि देयानि माधवस्य च

6.87.20

तिलानि तिलपुष्पाणि तैर्वा ह्यर्चनकं चरेत् ।
पूजिते सति देवेशि अनंतफलमश्नुते

6.87.21

बकुलपुष्पैः पुन्नागैश्चंपकैर्वा जनार्दनम् ।
कार्तिके पूजयिष्यंति ते देवा न हि मानवाः

6.87.22

मार्गशीर्षे प्रयत्नेन पूजनीयः सदा प्रभुः ।
नानापुष्पैः सनैवेद्यैर्धूपैर्नीराजनैस्तथा

6.87.23

मार्गशीर्षे विशेषेण दिव्यैः पुष्पैः प्रपूजयेत् ।
पौषमासे महादेवि स्वर्चनं शुभदं स्मृतम्

6.87.24

नानातुलसिपत्रैश्च मृगनाभिजलैस्तथा ।
माघमासे तु संप्राप्ते नानापुष्पैः प्रपूजयेत्

6.87.25

पूजिते देवदेवेशे वांछितं लभते ध्रुवम् ।
कर्पूरजा तथा पूजा नानानैवेद्यमोदकैः

6.87.26

फाल्गुने चैव संप्राप्ते ह्यर्चनं माधवस्य च ।
कृत्वा वासंतिकीं पूजां पुष्पाण्यादाय सर्वशः

6.87.27

नवीनैर्वाथ देवेशि सर्वैर्वा पूजयेत्ततः ।
पूजिते तु जगन्नाथे वैकुंठपदमव्ययम् ।
प्राप्नोति पुरुषो नित्यं श्रीविष्णोश्च प्रसादतः

6.87.87

इति श्रीपाद्मे महापुराणेपंचपंचाशत्सहस्रसंहितायामुत्तरखंडे उमामहेश्वरसंवादे मासिकपुष्पोनाम सप्ताशीतितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc