भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.80

6.80.1

श्रीपार्वत्युवाच-
अहो विष्णोश्च माहात्म्यं वद विश्वेश्वर प्रभोः ।
यन्माहात्म्यं पुनः श्रुत्वा न भवे जायते क्वचित्

6.80.2

महादेव उवाच-
शृणु सुन्दरि वक्ष्यामि विष्णोर्माहात्म्यमुत्तमम् ।
श्रुत्वा तु लभते पुण्यं ह्यंते मोक्षमवाप्नुयात्

6.80.3

देवव्रतं महाप्राज्ञं ध्यानयोगपरायणम् ।
आश्रयं सर्वशास्त्राणां यतेंद्रियमकल्मषम्

6.80.4

अप्रधृष्यं महाभागं देवैरपि सवासवैः ।
सत्यसंधं जितक्रोधं समत्वे परिनिष्ठितम्

6.80.5

नारायणे जगन्नाथे शरण्ये भक्तवत्सले ।
परां निष्ठामनुप्राप्तं वाङ्मनः काय कर्मभिः

6.80.6

गुणनामाश्रयं शांतं भीष्मं कुरु पितामहम् ।
प्रणम्य शिरसा भूमौ पप्रच्छेदं युधिष्ठिरः

6.80.7

युधिष्ठिर उवाच-
केचिदाहुः परं धर्मं केचिदाहुः परं धनम् ।
केचिद्दानं प्रशंसंति समुदायं तथापरे

6.80.8

सांख्यं केचित्प्रशंसंति योगमन्ये तथा परम् ।
केचिज्ज्ञानं प्रशंसंति केचिदाहुः परं श्रुतम् ।
सम्यक्ध्यानं परं केचित्केचिद्वैराग्यमुत्तमम्

6.80.9

अग्निष्टोमादिकं कर्म तथा केचित्परं विदुः ।
आत्मज्ञानं परं केचित्समलोष्टाश्मकांचनाः

6.80.10

यमांश्च नियमांश्चैव केचिद्वैराग्यमुत्तमम् ।
कारुण्यं च परे केचिदहिंसां च तपस्विनः

6.80.11

शौचं केचित्परं प्राहुः केचिद्देवार्चनं नराः ।
व्यामोहं चात्र गच्छंति व्यामुग्धाः पापकर्मभिः

6.80.12

यदेतेषु परं कृत्यमनुष्ठेयं महात्मभिः ।
वक्तुमर्हसि धर्मज्ञ सर्वशास्त्रभृतां वर

6.80.13

महादेव उवाच-
भूर्लोके या कथा जाता भैष्मी यौधिष्ठिरी सति ।
तामहं संप्रवक्ष्यामि लोकानां च हिताय वै ।
एतान्प्रश्नांस्तदा श्रुत्वा प्राह भीष्मो युधिष्ठिरम्

6.80.14

भीष्म उवाच-
श्रूयतामिदमत्यंतं गूढं संसारमोचनम् ।
श्रोतव्यं यत्त्वया सम्यग्ज्ञातव्यं धर्मनंदन

6.80.15

अत्रैवोदाहरंतीमं पुण्यं चैव पुरातनम् ।
पुंडरीकस्य संवादं महर्षेर्नारदस्य च

6.80.16

ब्राह्मणः श्रुतिसंपन्नः पुंडरीको महामतिः ।
आश्रमे प्रथमे तिष्ठन्गुरूणां वशगः सदा

6.80.17

जितेंद्रियो जितक्रोधः संध्योपासनतत्परः ।
वेदवेदांगनिपुणः शास्त्रेषु च विचक्षणः

6.80.18

समिद्भिः साधुहव्येन सायंप्रातर्हुतानलः ।
ध्यात्वा जगत्पतिं विष्णुं सम्यगाराधयद्विभुम्

6.80.19

तपः स्वाध्यायनिरतः साक्षाद्ब्रह्मसुतो यथा ।
उदकेंधनपुष्पाद्यैरसकृत्पूजयन्गुरुम्

6.80.20

मातापित्रोश्च शुश्रूषुर्भिक्षाहारी विमत्सरः ।
ब्रह्मविद्यामधीयानः प्राणायामपरायणः

6.80.21

तस्य सर्वात्मभूतस्य संसारे निस्पृहस्य च ।
महात्मनो बुद्धिरासीत्संसारार्णवतारिणी

6.80.22

मातरं पितरं चैव भातॄनथ सुहृज्जनान् ।
मित्राणि मातुलांश्चैव सखीन्संबंधिबांधवान्

6.80.23

धनधान्यसमृद्धं च ग्रहं वा शक्रसंनिभम् ।
क्षेत्राणि सुमहार्हाणि सर्वसस्योद्भवानि च

6.80.24

परित्यज्य महासत्वस्तृणानीव महासुखी ।
विचचार महीं रम्यां शाकमूलफलाशनः

6.80.25

गंगां च यमुनां चैव गोमतीमथ गंडिकाम् ।
शतद्रुं च पयोष्णीं च सरयूं च सरस्वतीम्

6.80.26

प्रयागं नर्मदां चैव शोणं चैव महानदम् ।
प्रभासं विंध्यतीर्थानि हिमवत्प्रभवानि च

6.80.27

आश्रमेषु च यानि स्युर्नैमिषे पुष्करादिषु ।
कुरुक्षेत्रे च यानि स्युस्तथा गोवर्द्धनादिषु

6.80.28

अन्यानि सुमहातेजास्तीर्थानि सुसमाहितः ।
विचचार महायोगी यथाकाले यथाविधि

6.80.29

कदाचिदात्मवान्धीरः शालग्रामं तपोधनः ।
पुंडरीको महाभागः पूर्वकर्मवशानुगः

6.80.30

संसेव्यमानं मुनिभिस्तत्वविद्भिस्तपोधनैः ।
मुनीनामास्पदं रम्यं पुराणेष्वपि विश्रुतम्

6.80.31

भूषितं चैव चक्राद्यैश्चक्रांकितशिलातलम् ।
रम्यं विविक्तविस्तीर्णं सदा विष्णुप्रसादकम्

6.80.32

किंच चक्रांकितास्तत्र प्राणिनः पुण्यदर्शनाः ।
विचिरंति यथाकामं पूण्यतीर्थप्रदर्शिनः

6.80.33

तस्मिन्क्षेत्रे महापुण्ये शालिग्रामे महामतिः ।
स्नात्वा देवह्दे तीर्थे सरस्वत्यां च सुव्रतः

6.80.34

जातिस्मर्यां चक्रकुंडे चक्रनद्याश्रितेषु च ।
तथान्यान्यपि तीर्थानि तस्मिन्नेव चचार सः

6.80.35

ततः क्षेत्रप्रभावेन तीर्थानां चैव तेजसा ।
मनःप्रसादमभजत्तस्मिन्नेव महामनाः

6.80.36

सोऽपि तीर्थविशुद्धात्मा पुंडरीकस्तपोधनः ।
तत्रैव वसतिं चक्रे ध्यानयोगपरायणः

6.80.37

तत्रैव सिद्धिमाकांक्षन्नाराध्य गरुडध्वजम् ।
शास्त्रोक्तेन विधानेन भक्त्या परमया पुनः

6.80.38

उवास चिरमेकाकी निर्द्वंद्वः सजितेंद्रियः ।
शाकमूलफलाहारः संतुष्टः समदर्शनः

6.80.39

यमैश्चनियमैश्चैव तथैवासनबंधनैः ।
प्राणायामैश्च तीर्थैश्च प्रत्याहारैश्च संततैः

6.80.40

धारणाभिस्तथा ध्यानैः समाधिभिरतंद्रितः ।
योगाभ्यासं सदा सम्यक्चक्रे विगतकिल्बिषः

6.80.41

वैदिकैश्चांगिकैश्चैव तथा पौराणिकैरपि ।
आराधयति सर्वेशं ततः शुद्धिमवाप सः

6.80.42

रागद्वेषविनिर्मुक्तः स्वधर्मैव रूपवान् ।
आराधयामास देवं तद्गतेनांतरात्मना

6.80.43

तुतोष भगवान्विष्णुः पुंडरीकायतेक्षणः ।
भगवान्नारदमिति प्रसन्नोऽस्म्यस्य धीमतः

6.80.44

ततः कदाचित्तं देशं नारदः परमार्थवित् ।
जगाम सुमहातेजाः साक्षादादित्यसन्निभः

6.80.45

तं द्रष्टुकामो भगवान्पुंडरीकं तपोनिधिम् ।
विष्णुभक्तिपरीतात्मा वैष्णवानां हिते रतः

6.80.46

स दृष्ट्वा नारदं प्राप्तं तेजोमंडलमंडितम् ।
महामतिर्महोदारः सर्ववेदैकभाजनम्

6.80.47

प्रांजलिः प्रणतो भूत्वा प्रहृष्टेनांतरात्मना ।
अर्घं दत्त्वा विधानेन प्रणाममकरोत्पुनः

6.80.48

कोऽयमत्यद्भुताकारस्तेजस्वी हृद्यवेषधृक् ।
आतोद्यहस्तः सुमुखो जयमंडलमंडितः

6.80.49

विवस्वानथवा वह्निरिंद्रो वरुण एव वा ।
इति संचिंतयन्स्थित्वा जगाद परमद्युतिम्

6.80.6.80.50

पुंडरीक उवाच-
को भवानिह संप्राप्तः कुतो वा परमद्युतिः ।
त्वद्दर्शनं हि भगवन्प्रायेण भुवि दुर्लभम्

6.80.51

नैव दृष्टः पुमान्वापि मया तव समः प्रभो ।
वक्तुमर्हस्यशेषेण यत्प्रदिष्टं मयानघ

6.80.52

नारद उवाच-
नारदोऽहंमनुप्राप्तस्त्वद्दर्शनकुतूहलात् ।
प्रभावं भगवद्भक्तं त्वादृशं सततं द्विज

6.80.53

स्मृतः संतोषितो वापि पूजितो वा द्विजोत्तमः ।
पुनाति भगवद्भक्तश्चांडालोऽपि यदृच्छया

6.80.54

दासोऽहं वासुदेवस्य देवदेवस्य शार्ङ्गिणः ।
शंखचक्रगदापाणेस्त्रैलोक्यस्यैकचक्षुषः

6.80.55

इत्युक्तो नारदेनासौ भक्तिपर्याकुलात्मना ।
प्रोवाच मधुरं विप्रं तद्दर्शनसुविस्मितः

6.80.56

पुंडरीक उवाच-
धन्योऽहं देहिनां मध्ये सुपूज्योऽहं सुरैरपि ।
कृतार्थाः पितरो मेऽद्य संप्राप्तं जन्मनः फलम्

6.80.57

अनुगृह्णीष्व देवर्षे त्वद्भक्तस्य विशेषतः ।
तं करिष्याम्यहं विद्वन्भ्राम्यमाणः स्वकर्मभिः

6.80.58

कर्तव्यं परमं गुह्यं उपदेष्टुं त्वमर्हसि ।
त्वं गतिः सर्वभूतानां वैष्णवानां विशेषतः

6.80.59

नारद उवाच-
अनेकानीह शास्त्राणि कर्माणि च तथा द्विज ।
धर्मवर्गं बहुविधं तथैव भुवि मानसम्

6.80.60

वैलक्षण्यं च जगतस्तस्मादेव द्विजोत्तम ।
अन्यथा सर्वसत्वानां सुखं वा दुःखमेव च

6.80.61

विज्ञानमात्रं क्षणिकं निरात्मकमिदं जगत् ।
इति कैश्चित्परिज्ञातं बाह्यार्थनिरपेक्षकम्

6.80.62

अव्यक्ताज्जायते नित्यं नित्यान्नित्यमिदं जगत् ।
इत्येवं प्राहुरपरे तत्रैव लयमेति च

6.80.63

आत्मनो बहवः प्रोक्ता नित्याः सर्वगतास्तथा ।
अन्ये मतिमतां श्रेष्ठास्तत्वालोकनतत्पराः

6.80.64

यावच्छरीरमात्मानं प्रतिपन्नास्तथापरे ।
हस्तिकीटादिदेहेऽपि महांतमंडमेव च

6.80.65

यथाऽद्यजगतोवृत्तिस्तथा कालांतरेष्वपि ।
प्रवाहो नित्यमेवैष कः कर्त्तेति च केचन

6.80.66

यद्यत्प्रत्यक्षविषयं तत्तदत्र न विद्यते ।
कुतः स्वर्गादयः संतीत्यन्ये विजितमानसाः

6.80.67

निरीश्वरमिदं प्राहुः सेश्वरं च तथापरे ।
अत्यंतभिन्नमतयः परमार्थपराङ्मुखाः

6.80.68

एवं मन्येऽपि कुहका यथामति यथाश्रुतम् ।
वदंति विविधैर्भेदैः स्वयुक्ति स्थितिकारकाः

6.80.69

तर्केष्ववहितो भूत्वा कथयामि तपोधन ।
परमार्थमिमं पुण्यं घोरं संसारनाशनम्

6.80.70

तन्मूलमनुजानंति ततो देवादयो नराः ।
प्रमाणेनोपलभ्यंते न प्रमाणं विमोहितैः

6.80.71

अनागतमतीतं च विप्रकृष्टमतीव यत् ।
न गृहीतं यथाशक्त्या वर्त्तमानार्थनिष्ठितम्

6.80.72

आगमो मुनिभिः प्रोक्तो पूर्वरूपक्रमागतः ।
प्रमाणं स तु विज्ञेयः परमार्थप्रसाधकः

6.80.73

यदभ्यासबलाज्ज्ञानं रागद्वेषमलापहम् ।
उत्पद्यते द्विजश्रेष्ठ सोऽयमागमसंज्ञकः

6.80.74

फलं कर्म च यत्तत्वं विज्ञानं दर्शनं विभुम् ।
जात्यादिकल्पनाहीनं द्वितीयागमलक्षणम्

6.80.75

आत्मसंवेदनं नित्यं सनातनमतींद्रियम् ।
चिन्मात्रममृतं ज्ञेयमनंतमजमव्ययम्

6.80.76

व्यक्ताव्यक्तस्वरूपेण व्यक्तस्थितमनंजनम् ।
व्याप्ता विष्णुरिति ख्यातं ख्यातभिन्नमवस्थितम्

6.80.77

योगिध्येयमविज्ञेयं परमार्थपराङ्मुखैः ।
लक्ष्यते बुद्धिभिर्भिन्नमभिभिन्नं न चात्मनि

6.80.78

शृणुष्वावहितस्तात कथयामि तवानघ ।
यत्प्रोक्तं ब्रह्मणा पूर्वं पृच्छतो मम सुव्रत

6.80.79

कदाचिद्ब्रह्मलोकस्थं ब्रह्माणं च पितामहम् ।
प्रणिपत्य यथान्यायमपृच्छमजमव्ययम्

6.80.80

किमु ज्ञानं परं प्रोक्तं कश्च योगः परो मतः ।
एतन्मे तत्त्वतो ब्रह्मन्समाचक्ष्व पितामह

6.80.81

ब्रह्मोवाच-
शृणुष्वावहितस्तात ज्ञानयोगमनुत्तमम् ।
अल्पग्रंथं प्रभूतार्थमदुःखोपासनक्रियम्

6.80.82

यः परं परया प्रोक्तः पुरुषः पंचविंशकः ।
स एव सर्वभूतात्मा तेन इत्यभिधीयते

6.80.83

नारायणो जगद्धाम परमात्मा सनातनः ।
जगतः सृष्टिसंहार परिपालनतत्परः

6.80.84

त्रयाणामात्मनां चैको देवदेवः सनातनः ।
आराध्यः सर्वदा ब्रह्मन्ते पश्यंति जगत्पतिम्

6.80.85

यथा जगदवस्थानं यथा कालांतरे पुनः ।
भूतं भव्यं भविष्यं च विप्रकृष्टं तथैव च

6.80.86

स्थूलं सूक्ष्मं तथा चान्यत्पश्यंति ज्ञानचक्षुषा ।
तच्चित्तास्तद्गतप्राणा नारायणपरायणाः

6.80.87

अन्यथा मंदबुद्धीनां प्रतिभाति दुरात्मनाम् ।
कुतर्कज्ञानदुष्टानां विभक्तेंद्रियवादिनाम्

6.80.88

नारद उवाच-
श्रूयतामन्यदपि वै कथ्यमानं मयानघ ।
ब्रह्मणैव पुरा प्रोक्तं जगतः कारणात्मना

6.80.89

देवानामिंद्रमुख्यानामृषीणां चैव सुव्रत ।
हितानि कथयामास पृच्छतां कमलासनः

6.80.90

ब्रह्मोवाच-
नारायणपरो धर्मस्तथालोकाश्च शाश्वताः ।
नारायणपरा यज्ञाः शास्त्राणि विविधानि च

6.80.91

वेदाः सांगास्तथा चान्ये विष्णुर्विश्वेश्वरो हरिः ।
पृथिव्यादीनि विबुधाः पंचभूतानि सोऽव्ययः

6.80.92

सर्वं विष्णुमयं ज्ञेयं विबुधैः सकलं जगत् ।
तथापि मानुषाः पाप न जानंति विमोहिताः

6.80.93

तस्यैव मायया व्याप्तं चराचरमिदं जगत् ।
तन्मनास्तद्गतप्राणो जानाति परमार्थवित्

6.80.94

ईश्वरः सर्वभूतानां विष्णुस्त्रैलोक्यपालकः ।
तस्मिन्नेतज्जगत्सर्वं तिष्ठति प्रभवत्यपि

6.80.95

जगत्संहरते रुद्रः पालने विष्णुरुच्यते ।
उत्पत्तौ चाहमेवात्र तथान्ये लोकपालकाः

6.80.96

सर्वाधारो निराधारः सकलो निष्कलस्तथा ।
अणुर्महांस्तथाप्यन्यत्तस्माच्च परतः परः

6.80.97

तमेव शरणं यात सर्वसंहारकर्मगम् ।
स पिता जनितास्माकं कीर्तितो मधुसूदनः

6.80.98

एवमुक्ताः सुराः सर्वे ब्रह्मणा पद्मयोनिना ।
प्रणेमुः सर्वलोकेशं देवं विष्णुं जनार्दनम्

6.80.99

तस्मात्त्वमपि विप्रर्षे नारायणपरो भव ।
तदन्यः को महोदारः प्रार्थितं दातुर्महति

6.80.6.80.100

पितरं मातरं चैव तमेव पुरुषोत्तमम् ।
परिगृह्णीष्व लोकेशं देवदेवं जगत्पतिम्

6.80.101

अग्निकार्येण वै तेन तपसाध्ययनेन वै ।
तोषयेद्देवदेवेशं गुरुं नित्यमतंद्रितः

6.80.102

स्वर्गे क्षयं तथा भोगमनुष्ठेयं तथैव च ।
परिगृह्णीष्व विप्रर्षे तमेव पुरुषोत्तमम्

6.80.103

किं तेन मंत्रैर्बहुभिः किं तेन बहुभिर्व्रतैः ।
ॐ नमोनारायणायेति मंत्रः सर्वार्थसाधकः

6.80.104

चीरवासा जटी विप्र दंडीमुंडित एव वा ।
विभूषितो वा विप्रेंद्र न लिंगं धर्मकारणम्

6.80.105

ये नृशंसा दुरात्मानः पापाचारपराः सदा ।
तेपि यांति परं स्थानं नारायणपरायणाः

6.80.106

लिप्यंते न च पापौघैर्वैष्णवं वीतकिल्बिषाः

6.80.107

पुनंति सकलं लोकं अहिंसाजितमानसाः

6.80.108

क्षत्रबंधुरिति ख्यातो राजा प्राणिविहिंसकः ।
प्राप्तवान्परमं धाम वैष्णवं केशवालयात्

6.80.109

अंबरीषो महासत्वो राजा परमतत्ववित् ।
हृषीकेशं समाराध्य वैष्णवं पदमाप्तवान्

6.80.110

अन्ये ब्रह्मर्षयः शांता बहवः संशितव्रताः ।
ध्यात्वा च परमात्मानं संसिद्धिं परमां गताः

6.80.111

प्रह्लादः परमाह्लादः पुरा नारायणं हरिम् ।
सेवितोऽभ्यर्चितो ध्यातस्तेनैव परिरक्षितः

6.80.112

भरतो नाम तेजस्वी राजा परमधार्मिकः ।
उपास्यैनं चिरं कालं परां मुक्तिमवाप्तवान्

6.80.113

ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथ भिक्षुकः ।
केशवाराधनं हित्वा नैव यांति परां गतिम्

6.80.114

जन्मांतरसहस्रेषु यस्य स्यान्मतिरीदृशी ।
दासोऽहं विष्णुभक्तानामिति सर्वार्थसाधकः

6.80.115

स याति विष्णुसालोक्यं पुरुषो नात्र संशयः ।
किं पुनस्तद्गतप्राणाः पुरुषाः संशितव्रताः

6.80.116

अनन्यमानसैर्नित्यं ध्यातव्यस्तत्वचिंतकैः ।
नारायणो जगद्व्यापी परमात्मा सनातनः

6.80.117

भीष्म उवाच-
इत्येवमुक्त्वा देवर्षिस्तत्रैवांतरधीयत ।
परोपकारनिरतो नारदः परमार्थवित्

6.80.118

पुंडरीकोऽपि धर्मात्मा नारायणपरायणः ।
ॐ नमो नारायणायेति मंत्रमष्टाक्षरं जपन्

6.80.119

प्रसीद मम विश्वात्मन्निति वाचं वदन्सदा ।
हृत्पुंडरीके गोविंदं प्रतिष्ठाप्यामृतात्मकम्

6.80.120

तपस्वी विमले सौम्ये शालग्रामे तपोधनः ।
उवास चिरमेकाकी निर्द्वंद्वो निष्परिग्रहः

6.80.121

स्वप्नेऽपि केशवान्नान्यत्पश्यतीति महामतिः ।
निद्रापि नैव तस्यासीत्पुरुषार्थविरोधिनी

6.80.122

तपसा ब्रह्मचर्येण शौचेन च विशेषतः ।
जन्मजन्मांतरारूढे संस्कारे च यथा तथा

6.80.123

प्रसादाद्देवदेवस्य सर्वलोकस्य साक्षिणः ।
अवाप परमां सिद्धिं वैष्णवीं वीतकिल्बिषः

6.80.124

शंखचक्रगदापाणिं पीतवाससमच्युतम् ।
श्यामलं पुंडरीकाक्षं स ददर्श सदाकृतिम्

6.80.125

सिंहा व्याघ्रास्तथा चान्ये मृगाः प्राणिविहिंसकाः ।
विरोधं सहजं हित्वा समेतास्तस्य संनिधौ

6.80.126

विचरंति यथाकामं प्रसन्नेंद्रियवृत्तयः ।
परस्परहितं रम्यं संप्राप्तं पांडुनंदन

6.80.127

तथा प्रसन्नं सलिलं सरसां सरितामपि ।
ऋतवः सुप्रन्नाश्च विमलेंद्रियसंयुताः

6.80.128

मारुताश्च सुखस्पर्शा वृक्षाः पुष्पफलान्विताः ।
आनुकूल्यं ययुः सर्वे पदार्थास्तस्य धीमतः

6.80.129

प्रसन्नमभवत्तस्मै प्रसन्नं सचराचरम् ।
प्रसन्ने देवदेवेशे गोविंदे भक्तवत्सले

6.80.130

ततः कदाचिद्भगवान्पुंडरीकस्य धीमतः ।
आविरासीज्जगन्नाथः पुंडरीकायतेक्षणः

6.80.131

शंखचक्रगदापाणिः पीतवासाः समुज्ज्वलः ।
पुंडरीकविशालाक्षश्चंद्रबिंबनिभाननः

6.80.132

किंकिणीकुंडली हारी केयूरी कटिसूत्रवान् ।
श्रीवत्सांकः पीतवासाः कौस्तुभेन विभूषितः

6.80.133

वनमालापरीतांगः स्फुरन्मुकुटकुंडलः ।
स्फुरता ब्रह्मसूत्रेण मुक्तादामविलंबिना

6.80.134

विराजमानो देवेशश्चामरव्यजनादिभिः ।
देवैः सिद्धैः सदेवेंद्रैर्गंधर्वैर्मुनिभिर्वरैः

6.80.135

यक्षैर्नागवरैश्चैवसेव्यमानोऽप्सरोगणैः ।
तं दृष्ट्वा देवदेवेशं पुंडरीकोऽनघः स्वयम्

6.80.136

ततो बुद्ध्या महात्मानं तुष्टाव च जनार्दनम् ।
प्रांजलिः प्रणतो भूत्वा प्रहृष्टेनांतरात्मना

6.80.137

पुंडरीक उवाच-
नमोऽस्तु विष्णवे तुभ्यं सर्वलोकैकचक्षुषे ।
निरंजनाय नित्याय निर्गुणाय महात्मने

6.80.138

त्वमीशः सर्वभूतानां तथैव च निरीश्वरः ।
तथाभयार्तिनाशायगोविंदोगरुडध्वजः

6.80.139

अनुग्रहेणभूतानांअनेकाकारधारिणे ।
त्वयि सर्वमिदं प्राहुस्त्वन्मयं चैव केवलम्

6.80.140

त्वमस्माज्जगतो भिन्नो निर्मितं च जगत्त्वया ।
नमोस्तु नाभिप्रसवनलिनाय नमो नमः

6.80.141

नमः समस्तवेदांतविश्रुतात्मविभूतये ।
त्वमेव सर्वदेवेश कारणं कैटभार्दन

6.80.142

प्रसीद हृदयावास शंखचक्रगदाधर ।
नमः समस्तभूतानामादिभूताय भूभृते

6.80.143

अनेकरूपरूपाय विष्णवे प्रभविष्णवे ।
यस्य ब्रह्मादयो देवा न विदंति सुरेश्वराः

6.80.144

महिमानं तपोमेयं तस्मै तुभ्यं नमाम्यहम् ।
वाचामगोचरो यस्य महिमा तव नाप्यते

6.80.145

जात्यादिभिरसंस्पृष्टः सदा ध्येयोऽसि तत्त्वतः ।
तथा विभेदरूपेण भक्तानामनुकंपया

6.80.146

मत्स्यकूर्मादिरूपेण दृश्यसे पुरुषोत्तम ।
भीष्म उवाच-
पुंडरीको जगन्नाथं संस्तुवन्पुरुषोत्तमम्

6.80.147

तमेवालोकयद्वीर चिरप्रार्थितदर्शनम् ।
तमाह भगवान्विष्णुः पद्मनाभस्त्रिविक्रमः

6.80.148

पुंडरीकं महाभागं तथा गंभीरया गिरा

6.80.149

श्रीभगवानुवाच-
प्रीतोऽस्मि वत्स भद्रं ते पुंडरीक महामते ।
वरं वृष्णीष्व दास्यामि यत्ते मनसि वर्त्तते

6.80.6.80.150

एतच्छ्रुत्वा तु वचनं देवदेवस्य भाषितम् ।
एवं विज्ञापयामास पुंडरीको महामतिः

6.80.151

पुंडरीक उवाच-
क्वाहमत्यंत दुर्बुद्धिः क्व भवंतो हितैषिणः ।
यद्धितं मम देवेश तदाज्ञापय माधव

6.80.152

एवमुक्तः स भगवान्सुप्रीतश्च ततोऽब्रवीत् ।
पुंडरीकं महाभागं कृतांजलिमुपस्थितम्

6.80.153

आगच्छ कुशलं तेऽस्तु मयैव सह सुव्रत ।
उपकारी च नित्यात्मा मया त्वं सर्वदा सह

6.80.154

भीष्म उवाच-
एवमुक्तवति प्रीत्या श्रीधरे भक्तवत्सले ।
दिवि दुंदुभयो नेदुः पुष्पवर्षं पपात ह

6.80.155

ब्रह्मादयस्तथा देवाः साधुसाध्विति चाब्रुवन् ।
जगुः सिद्धाश्च गंधर्वाः किन्नराश्च विशेषतः

6.80.156

तत्रैव तमुपादाय देवदेवो जगत्पतिः ।
जगाम गरुडारूढः सर्वलोकनमस्कृतः

6.80.157

तस्मात्त्वमपि राजेंद्र विष्णुभक्तिसमन्वितः ।
तच्चित्तस्तद्गतप्राणस्तद्भक्तानां हिते रतः

6.80.158

अर्चयित्वा यथायोग्यं भजस्व पुरुषोत्तमम् ।
शृणुष्व तत्कथां पुण्यां सर्वपापप्रणाशिनीम्

6.80.159

येनोपायेन राजेंद्र विष्णुभक्तिसमन्वितः ।
प्रीतो भवति विश्वात्मा तत्कुरुष्व सुविस्तरम्

6.80.160

अश्वमेधशतैरिष्ट्वा वाजपेयशतैरपि ।
प्राप्नुवंति नरा नैव नारायणपराङ्मुखाः

6.80.161

सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् ।
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति

6.80.162

लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।
येषामिंदीवरश्यामो हृदयस्थो जनार्दनः

6.80.163

य इदं शृणुयान्नित्यं पठेद्वापि समाहितः ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति

6.80.164

ईश्वर उवाच-
एतद्वै नाममाहात्म्यं श्रुत्वा वै नगनंदिनि ।
धर्मार्थकाममोक्षास्तु भवंति च न संशयः

6.80.165

शुक्ले कुलेऽवतीर्णो यो ब्राह्मणो वेदतत्परः ।
वैष्णवो विष्णुरूपोऽसौ नान्यो विप्रस्तु कर्हिचित्

6.80.166

मुखे नामोच्चरन्विष्णोर्हृदये ध्यानतत्परः ।
शंखचक्रधरो विद्वन्मालां तुलसिजां दधत्

6.80.167

जीवन्मुक्तः स विज्ञेयो भुक्त्वा भोगांस्त्वनेकशः ।
एकविंशतिकुलैः सार्द्धं विष्णुलोके स मोदते

6.80.168

पुंडरीको यथा शक्त्या मुक्तो ह्यत्र न संशयः ।
भक्तिभावेन गोविंदस्तुष्टिं प्राप्नोति शाश्वतीम्

6.80.169

कलौ वै हरिगीतं तु स्वगृहे वा विशेषतः ।
सामगानसमं प्रोक्तं देवार्चनसमाधिषु

6.80.80

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तरखंडे उमामहेश्वरसंवादे विष्णुमहिमानामाशीतितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc