भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.65

6.65.1

नारद उवाच-
चातुर्मास्यव्रतानां च प्रब्रूह्युद्यापनं विभो ।
उद्यापने कृते सर्वं संपूर्णं भवति ध्रुवम्

6.65.2

महादेव उवाच-
व्रतं कृत्वा महाभाग यदि नोद्यापनं चरेत् ।
यस्तु कर्त्ता कर्मणां स न सम्यक्फलभाक्भवेत्

6.65.3

व्रतवैकल्यमासाद्य कुष्ठी चांधः प्रजायते ।
एतस्मात्कारणाच्चैव कुर्यादुद्यापनं द्विज

6.65.4

गृहीत्वा नियमानेतान्पालयित्वा यथाविधि ।
सुप्तोत्थिते जगन्नाथे गत्वा ब्राह्मणसंनिधौ

6.65.5

क्षमापयेद्देवदेवं यथाविधि च विस्तरात् ।
तैलत्यागे घृतं दद्याद्घृतत्यागे पयः स्मृतम्

6.65.6

मौने पिंडास्तिला देयाः सहिरण्या द्विजातये ।
भोजने भोजनं दद्याद्दध्योदनसमन्वितम्

6.65.7

अन्नं दद्याद्विशेषेण हिरण्येन समन्वितम् ।
अन्नदानान्मुनिश्रेष्ठ विष्णुलोके महीयते

6.65.8

पालाशपात्रे यो भुंक्ते नरो मासचतुष्टयम् ।
भाजनं घृतपूर्णं तु दद्यादुद्यापने द्विज

6.65.9

षड्रसं भोजनं दद्याद्ब्राह्मणे नक्तभोजने ।
अयाचिते ह्यनड्वाहं सहिरण्यं प्रदापयेत्

6.65.10

माषं त्यजन्मुनिश्रेष्ठ गां च दद्यात्सवत्सकाम् ।
धात्रीस्नाने नरो दद्यात्स्वर्णं माषिकमेवच

6.65.11

फलानां नियमे चैव फलानि च प्रदापयेत् ।
धान्यानां नियमे धान्यमथवा शालयः स्मृताः

6.65.12

तद्वद्भूशयने शय्यां सतूलां गेंदुकान्विताम् ।
ब्रह्मचर्यं कृतं येन चातुर्मास्ये द्विजोत्तम

6.65.13

दंपत्योर्भोजनं देयमुभयोर्भक्तिपूर्वकम् ।
सभोगं दक्षिणोपेतं सशाकं लवणं तथा

6.65.14

नित्यस्नाने नरो दद्यान्निस्नेहे सर्पिः सक्तवः ।
नखकेशव्रते चैव प्रादेशं परिकल्पयेत्

6.65.15

उपानहौ प्रदातव्यौ उपानहविवर्जनात् ।
आमिषस्य परित्यागात्सवत्सा कपिला स्मृता

6.65.16

नित्यं दीपप्रदो यस्तु सौवर्णं दीपमावहेत् ।
तं दीपं घृतसंयुक्तं दद्याच्चैव द्विजन्मने

6.65.17

विष्णुभक्ताय विप्राय परिपूर्णव्रतेप्सया ।
शाकस्य नियमे शाकं माषे सौवर्णमाषकम्

6.65.18

मैथुनानां तु नियमे रौप्यं दद्याद्दिवजातये ।
नागवल्ल्यास्तु नियमे कर्पूरं सहरिण्यकम्

6.65.19

कालेकाले द्विजश्रेष्ठ यत्कृतं नियमेन तु ।
तत्तद्देयं विशेषेण परलोकगतीप्सया

6.65.20

आदौ स्नानादिकं कृत्वा विष्णोरग्रे प्रकाशयेत् ।
अनादिनिधनो देवः शंखचक्रगदाधरः ।
तस्याग्रे के न कुर्वंति यतो विष्णुस्तु पापहा

6.65.65

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे चातुर्मास्योद्यापनंनाम पंचषष्टितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc