भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.57

6.57.1

युधिष्ठिर उवाच -
नभस्यस्य सिते पक्षे किंनामैकादशी भवेत् ।
को देवः को विधिस्तस्य एतदाख्याहि केशव

6.57.2

श्रीकृष्ण उवाच-
कथयामि महीपाल कथामाश्चर्यकारिणीम् ।
कथयामास यां ब्रह्मा नारदाय महात्मने

6.57.3

नारद उवाच-
कथयस्व प्रसादेन चतुर्मुख नमोऽस्तु ते ।
नभस्य शुक्लपक्षे तु किं नामैकादशी भवेत् ।
एतदिच्छाम्यहं श्रोतुं विष्णोराराधनाय वै

6.57.4

ब्रह्मोवाच-
वैष्णवोऽसि मुनिश्रेष्ठ साधुपृष्टं किल त्वया ।
नातः परतरा लोके पवित्रा हरिवासरात्

6.57.5

पद्मा नामेति विख्याता नभस्यैकादशी सिता ।
हृषीकेशः पूज्यतेऽस्यां कर्त्तव्यं व्रतमुत्तमम्

6.57.6

कथयामि तवाग्रेऽहं कथां पौराणिकीं शुभाम् ।
यस्याः श्रवणमात्रेण महापापं प्रणश्यति

6.57.7

मांधाता नाम राजर्षिर्विवस्वद्वंशसंभवः ।
बभूव चक्रवर्ती स सत्यसंधः प्रतापवान्

6.57.8

धर्मतः पालयामास प्रजाः पुत्रानिवौरसान् ।
न तस्य राज्ये दुर्भिक्षं नाधयो व्याधयस्तथा

6.57.9

निरातंकाः प्रजास्तस्य धनधान्यसमेधिताः ।
न्यायेनोपार्जितं वित्तं तस्य कोशे महीपते

6.57.10

स्वस्वधर्मे प्रवर्त्तंते सर्वे वर्णाश्रमास्तथा ।
कामधेनुसमाभूमिस्तस्य राज्ये महीपतेः

6.57.11

तस्यैवं कुर्वतो राज्यं बहुवर्षगणा गताः ।
अथैकस्मिंश्च संप्राप्ते विपाकः कर्मणः खलु

6.57.12

वर्षत्रयं तद्विषये न ववर्ष बलाहकः ।
तेन भग्नाः प्रजास्तस्य बभूवुः क्षुधयार्दिताः

6.57.13

स्वाहा स्वधा वषट्कार वेदाध्ययनवर्जिताः ।
बभूव विषयस्तस्या भाग्येन दैवपीडितः ।
अथ प्रजाः समागम्य राजानमिदमब्रुवन्

6.57.14

प्रजा ऊचुः -
श्रोतव्यं नृपशार्दूल प्रजानां वचनं त्वया ।
आपो नारा इति प्रोक्ताः पुराणेषु मनीषिभिः

6.57.15

अयनं भगवतस्तस्मान्नारायण इति स्मृतः ।
पर्जन्यरूपो भगवान्विष्णुः सर्वगतः स्थितः

6.57.16

स एवं कुरुते वृष्टिं वृष्टेरन्नं ततः प्रजाः ।
तदभावे नृपश्रेष्ठ क्षयं गच्छंति वै प्रजाः ।
तथा कुरु नृपश्रेष्ठ योगः क्षेमो यथा भवेत्

6.57.17

राजोवाच-।
सत्यमुक्तं भवद्भिश्च न मिथ्याभिहितं क्वचित् ।
अन्नं ब्रह्म यतः प्रोक्तमन्ने सर्वं प्रतिष्ठितम्

6.57.18

अन्नाद्भवंति भूतानि जगदन्नेन वर्तते ।
इत्येवं श्रूयते लोके पुराणे बहुविस्तरे

6.57.19

नृपाणामपचारेण प्रजानां पीडनं भवेत् ।
नाहं पश्याम्यात्मकृतमेवं बुद्ध्या विचारयन्

6.57.20

तथापि प्रयतिष्यामि प्रजानां हितकाम्यया ।
इति कृत्वा मतिं राजा परिमेयपरिच्छदः

6.57.21

नमस्कृत्य विधातारं जगाम गहनं वनम् ।
चचार मुनिमुख्यांश्च आश्रमान्तापसैः श्रितान्

6.57.22

ददर्शाथ ब्रह्मसुतमृषिमांगिरसं नृपः ।
तेजसा द्योतितदिशं द्वितीयमिव पद्मजम्

6.57.23

तं दृष्ट्वा हर्षितो राजा अवतीर्य स्ववाहनात् ।
नमश्चक्रेऽस्य चरणौ कृतांजलिपुटो वशी

6.57.24

मुनिस्तमभिनंद्याथ स्वस्तिवाचनपूर्वकम् ।
पप्रच्छ कुशलं राज्ये सप्तस्वंगेषु भूपतेः

6.57.25

निवेदयित्वा कुशलं पप्रच्छानामयं नृपः ।
दत्तासनो गृहीतार्घ्य उपविष्टोऽस्य संनिधौ

6.57.26

प्रत्युवाच मुनिं राजा पृष्टो ह्यागमकारणम्

6.57.27

राजोवाच-
भगवन्धर्मविधिना मम पालयतो महीम् ।
अनावृष्टिश्च संवृत्ता नाहं वेद्म्यत्र कारणम्

6.57.28

संशयच्छेदनायात्र आगतोऽहं तवांतिके ।
योगक्षेमविधानेन प्रजानां कुरु निर्वृतिम्

6.57.29

ऋषिरुवाच-
एतत्कृतयुगं राजन्युगानामुत्तमं मतम् ।
अत्र ब्रह्मपरा लोका धर्मश्चात्र चतुष्पदः

6.57.30

अस्मिन्युगे तपोयुक्ता ब्राह्मणा नेतरा जनाः ।
विषये तव राजेंद्र वृषलोऽयं तपस्यति

6.57.31

एतस्मात्कारणाच्चैव न वर्षति बलाहकः ।
कुरु तस्य वधे यत्नं येन दोषः प्रशाम्यति

6.57.32

राजोवाच-
नाहमेनं वधिष्यामि तपस्यंतमनागसम् ।
धर्मोपदेशं कथय उपसर्गविनाशनम्

6.57.33

ऋषिरुवाच-
यद्येवं तर्हि नृपते कुरुष्वैकादशीव्रतम् ।
नभस्यस्य सिते पक्षे पद्मा नामेति विश्रुता

6.57.34

तस्या व्रतप्रभावेन सुवृष्टिर्भविता ध्रुवम् ।
सर्वसिद्धिप्रदा ह्येषा सर्वोपद्रवनाशिनी

6.57.35

अस्या व्रतं कुरु नृप सप्रजः सपरिच्छदः ।
इति वाक्यमृषेः श्रुत्वा राजा स्वगृहमागतः

6.57.36

भाद्रमासे सिते पक्षे पद्माव्रतमथाकरोत् ।
प्रजाभिः सह सर्वाभिश्चातुर्वर्ण्यसमन्वितः

6.57.37

एवं व्रते कृते राजन्प्रववर्ष बलाहकः ।
जलेन प्लाविता भूमिरभवत्सस्यशालिनी

6.57.38

ऋषीश्वरप्रभावेन लोकाः सौख्यं प्रपेदिरे ।
एतस्मात्कारणादेवं कर्त्तव्यं व्रतमुत्तमम्

6.57.39

दध्योदनयुतं तस्यां जलपूर्णं घटं द्विजे ।
वस्त्रसंवेष्टितं दत्त्वा छत्रोपानहमेव च

6.57.40

नमो नमस्ते गोविंद बुधश्रवणसंज्ञक ।
अघौघसंक्षयं कृत्वा सर्वसौख्यप्रदो भव

6.57.41

भुक्तिमुक्तिप्रदश्चैव लोकानां सुखदायकः ।
पठनाच्छ्रवणाद्राजन्सर्वपापैः प्रमुच्यते

6.57.57

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे भाद्रपदशुक्ला पद्मैकादशीनाम सप्तपंचाशत्तमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc