भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.43

6.43.1

युधिष्ठिर उवाच-
साधु कृष्ण त्वया प्रोक्तमादिदेवो भवान्प्रभो ।
स्वेदजा अंडजाश्चैव उद्भिज्जाश्च जरायुजाः

6.43.2

तेषां कर्त्ता विकर्त्ता त्वं पालकः क्षयकारकः ।
माघस्य कृष्णपक्षे तु षट्तिला कथिता त्वया

6.43.3

शुक्ले च का भवेद्देव कथयस्व प्रसादतः ।
किं नाम को विधिस्तस्याः को देवस्तत्र पूज्यते

6.43.4

श्रीकृष्ण उवाच-
कथयिष्यामि राजेंद्र शुक्ले माघस्य या भवेत् ।
जया नामेति विख्याता सर्वपापहरा परा

6.43.5

पवित्रा पापहंत्री च कामदा मोक्षदा नृणाम् ।
ब्रह्महत्यापहंत्री च पिशाचत्वविनाशिनी

6.43.6

नैव तस्या व्रते चीर्णे प्रेतत्वं जायते नृणाम् ।
नातः परतरा काचित्पापघ्नी मोक्षदायिनी

6.43.7

एतस्मात्कारणाद्राजन्कर्त्तव्या सा प्रयत्नतः ।
श्रूयतां राजशार्दूल कथा पौराणिकी शुभा

6.43.8

पंकजे च पुराणेऽस्या महिमा कथितो मया ।
एकदा नाकलोके वै इंद्रो राज्यं चकार ह

6.43.9

देवास्तत्र सुखेनैव निवसंति मनोरमे ।
पीयूषपाननिरता अप्सरोगणसेविताः

6.43.10

नंदनं तु वनं तत्र पारिजातोपसेवितम् ।
रमयंति रमंतेऽत्र अप्सरोभिर्दिवौकसः

6.43.11

एकदा रममाणोऽसौ देवेंद्रः स्वेच्छया नृप ।
नर्त्तयामास वै हर्षात्पंचाशत्कोटिनायकः

6.43.12

गंधर्वास्तत्र गायंति गंधर्वः पुष्पदंतकः ।
चित्रसेनस्तु तत्रैव चित्रसेनसुता तथा

6.43.13

मालिनीति च नाम्ना तु चित्रसेनस्य योषिता ।
मालिन्यास्तु समुत्पन्ना पुष्पदंती च नामतः

6.43.14

पुष्पदंतस्य पुत्रोऽसौ माल्यवान्नाम नामतः ।
पुष्पदंत्याश्च रूपेण माल्यवानतिमोहितः

6.43.15

तया ह्येवं कटाक्षैश्च माल्यवांश्च वशीकृतः ।
लावण्यं रूपसंपन्नं तस्या रूपं निशामय

6.43.16

बाहू तस्याश्च कामेन कंठपाशौ कृताविव ।
कर्णायते तु नयने रक्तांते घूर्णिते तथा

6.43.17

कर्णौ तु शोभनौ तस्याः कुण्डलाभ्यां नृपोत्तम ।
कंबुग्रीवायुता सैव दिव्याभरणभूषिता

6.43.18

पीनोन्नतौ कुचौ तस्यास्तौ हेमकलशाविव ।
मध्यं क्षामं च चार्वंग्या मुष्टिग्राह्यमनुत्तमम्

6.43.19

नितंबौ विस्तृतौ चास्या विस्तीर्णा जघनस्थली ।
चरणौ शोभमानौ च रक्तोत्पलसमद्युती

6.43.20

ईदृश्या पुष्पवत्या स माल्यवानतिमोहितः ।
शक्रस्य परितोषाय नृत्यार्थं तौ समागतौ

6.43.21

गायमानौ तु तौ तत्र अप्सरोगणसेवितौ ।
मदनाभिपरीतांगौ पुष्पदंती च माल्यवान्

6.43.22

परस्परानुरागेण व्यामोहवशमागतौ ।
न शुद्धगानं गायेतां चित्तभ्रमसमन्वितौ

6.43.23

बद्धदृष्टी तथान्योन्यं कामबाणवशं गतौ ।
ज्ञात्वा लेखर्षभस्तत्र संगतं मानसं तयोः

6.43.24

तालक्रियामानलोपात्तथा गीतविसर्जनात् ।
चिंतयित्वा तु मघवा ह्यवमानं तथात्मनः

6.43.25

कुपितश्च तयोरर्थे शापं दास्यन्निदं जगौ ।
धिग्धिग्वां पतितौ मूढावाज्ञाभंग कृतौ मम

6.43.26

युवां पिशाचौ भवतां दंपतीभावधारिणौ ।
मर्त्यलोकमनुप्राप्तौ भुंजानौ कर्मणः फलम्

6.43.27

एवं मघवता शप्तावुभौ दुःखितमानसौ ।
हिमवंतं गिरिं प्राप्ताविंद्रशापाद्विमोहितौ

6.43.28

उभौ पिशाचतां प्राप्तौ दारुणं दुःखमेव च ।
संतप्तमानसौ तत्र हिमकृच्छ्रगतावुभौ

6.43.29

गंधर्वत्वमप्सरस्त्वं न जानीतो विमौहितौ ।
पीड्यमानौ निदाघेन देहपातकजेन च

6.43.30

न निशायां सुखं शांतिं लभेते कर्मपीडितौ ।
परस्परं वादमानौ चेरतुर्गिरिगह्वरे

6.43.31

पीड्यमानौ तु शीतेन तुषारप्रभवेन तौ ।
दंतघर्षं प्रकुर्वाणौ रोमांचितवपुर्द्धरौ

6.43.32

ऊचे पिशाचः स तदा तां पत्नीं स्वां पिशाचिकाम् ।
किमनल्पकृतं पापं दारुणं रोमहर्षणम्

6.43.33

येन प्राप्तं पिशाचत्वं स्वेन दुष्कृतकर्मणा ।
नरकं दारुणं मत्वा पिशाचत्वं च दुःखदम्

6.43.34

तस्मात्सर्वप्रयत्नेन पातकं न समाचरेत् ।
इति चिंतापरौ तत्र तावास्तां दुःखकर्षितौ

6.43.35

दैवयोगात्तयोः प्राप्ता माघस्यैकादशी तिथिः ।
जयानामेति विख्याता तिथीनामुत्तमा तिथिः

6.43.36

तस्मिन्दिने तु संप्राप्ते तावाहारविवर्जितौ ।
आसाते तत्र नृपते जलपानविवर्जितौ

6.43.37

न कृतो जीवघातश्च न पत्रफलभक्षणम् ।
अश्वत्थस्य समीपे तौ सर्वदा दुःखसंयुतौ

6.43.38

रविरस्तंगतो राजंस्तथैव स्थितयोस्तयोः ।
प्राप्ता चैव निशा घोरा दारुणा प्राणहारिणी

6.43.39

वेपमानौ ततस्तौ तु ततः सुषुपतः क्षितौ ।
परस्परेण संलग्नौ गात्रयोर्भुजयोरपि

6.43.40

न निद्रा न रतं तत्र न तौ सौख्यमविंदताम् ।
एवं तौ राजशार्दूल शापेनेंद्रस्य पीडितौ

6.43.41

इत्थं तयोर्दुःखितयोर्निर्जगाम निशीथिनी ।
मार्तंड उदयं प्राप्तो द्वादशी दिवसागमे

6.43.42

मया तु राजशार्दूल तयोर्मुक्तिर्धृता हृदि ।
जयायाः सुव्रतं चीर्णं रात्रौ जागरणं कृतम्

6.43.43

तस्माद्व्रतप्रभावाच्च यथाजातं तथा शृणु ।
द्वादशीदिवसे प्राप्ते तथा चीर्णे जया व्रते

6.43.44

विष्णोः प्रभावान्नृपते पिशाचत्वं तयोर्गतम् ।
पुष्पदंती माल्यवतौ पूर्वरूपौ बभूवतुः

6.43.45

पुरातनस्नेहयुतौ पूर्वालंकारधारिणौ ।
विमानमधिरूढौ तौ गतौ नाके मनोरमे

6.43.46

देवेंद्रस्याग्रतो गत्वा प्रणामं चक्रतुर्मुदा ।
तथाविधौ तु तौ दृष्ट्वा मघवा विस्मितोऽब्रवीत्

6.43.47

इंद्र उवाच-
वद तं केन पुण्येन पिशाचत्वं हि वां गतौ ।
मम शापं च संप्राप्तौ केन देवेन मोचितौ

6.43.48

माल्यवानुवाच-
वासुदेवप्रसादेन जयायास्तु व्रतेन च ।
पिशाचत्वं गतं स्वामिंस्तव भक्तिप्रभावतः

6.43.49

इति श्रुत्वा तु मघवा प्रत्युवाच पुनस्तथा ।
पवित्रौ पावनौ जातौ वंदनीयौ ममापि च

6.43.6.43.50

हरिवासरकर्तारौ विष्णुभक्तिपरायणौ ।
हरिवासरसँल्लीना ये च कृष्णपरायणाः

6.43.51

अस्माकमपि मर्त्यास्ते पूज्याश्चैव न संशयः ।
विहरस्व यथासौख्यं पुष्पदंत्या सुरालये

6.43.52

कृष्ण उवाच-
एतस्मात्कारणाद्राजन्कर्त्तव्यो हरिवासरः ।
जया तु राजशार्दूल ब्रह्महत्यापहारिणी

6.43.53

सर्वदानानि तेनैव सर्वयज्ञा अशेषतः ।
दत्तानि कारिताश्चैव जयायास्तु व्रतं कृतम्

6.43.54

कल्पकोटिर्भवेत्तावद्वैकुंठे मोदते ध्रुवम् ।
पठनाच्छ्रवणाद्राजन्नग्निष्टोमफलं लभेत्

6.43.43

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे माघशुक्लजयैकादशीमाहात्म्यंनाम त्रिचत्वारिंशोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc