भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.35

6.35.1

महादेव उवाच-
अतस्त्वां संप्रवक्ष्यामि उन्मीलनीमनुत्तमाम् ।
यस्याः श्रवणमात्रेण जन्मसंसारबंधनात्

6.35.2

पापात्मा मुच्यते पापैः स्वर्गलोके महीयते ।
देवताः पितरश्चैव तस्या गतिमवाप्नुयुः

6.35.3

विद्यार्थी लभते विद्यां सर्वकामानवाप्नुयात् ।
तस्या व्रतान्न संदेहः स्वर्गलोके महीयते

6.35.4

स्वस्थानं तत्र वै प्राप्तः शिवलोके महीयते ।
अतस्त्वं कुरुषे राजन्वैष्णवानां तु पूजनम्

6.35.5

वैष्णवानां तु ये राजन्सेवा कुर्वंति नित्यशः ।
तेषां दंडं च कुरुषे नो वा तेषां नराधिपः

6.35.6

भोजनानंतरं तेषां भोजनं कुरुते नृप ।
तैरेव पूजितो विष्णुर्यैर्भक्त्या तु प्रपूजितः

6.35.7

शालग्रामशिलाभूतां दत्त्वा मूर्द्धनि प्रत्यहम् ।
त्वं धारयसि भूपाल कंठे नित्यं सुभक्तितः

6.35.8

धूपशेषं तु वै विष्णोर्भक्त्या भजसि भूपते ।
आरार्तिकं सदा कृत्वा भक्तानां वेदयेर्नृप

6.35.9

शंखोदकं हरेर्मूर्ध्नि भ्रामयित्वा तु भक्तितः ।
नित्यं बिभर्षि शिरसि शेषं यच्छसि वैष्णवान्

6.35.10

नैवेद्यं प्रत्यहं कृत्वा सर्वोपस्करसंयुतम् ।
विष्वक्सेनाय दत्वा वै स्वयं भुनक्षि वाडव

6.35.11

विष्णोर्निवेदितं चान्नं वैष्णवैः सह भुज्यते ।
नित्यं नामसहस्रेण भक्त्या स्तौषि जनार्दनम्

6.35.12

दीपार्घदानं वै विष्णोः कुरुषे गीतनर्तनम् ।
श्यामांकुरैः पूजयसे पूज्यंते नृपसत्तम

6.35.13

श्यामांकुरैः सदा वत्स पूजनं चाति दुर्ल्लभम् ।
पृथ्वीदानसमं पुण्यं दूर्वया पूजने कृते

6.35.14

अतो वै नास्ति लोकेऽस्मिन्दूर्वायाः सदृशं भुवि ।
तया वै पूजनं कार्यं विष्णुसायुज्यमिच्छता

6.35.15

अतस्त्वं कुरुषे नित्यं पूजनं दूर्वया सह ।
यवाक्षतैर्विशेषेण पूजनं कुरुषेन वा

6.35.16

पक्षेपक्षे नृपश्रेष्ठ विधिवद्द्वादशीव्रतम् ।
यत्कृतं तु महाराज महापापप्रणाशनम्

6.35.17

मोक्षदं सुखदं चैव तथायुष्यप्रदं सदा ।
एतद्विष्णुव्रतं प्रोक्तं वैष्णवानां तु मोक्षदम्

6.35.18

गृहस्थानां तु सुखदं यतीनां मुक्तिदायकम् ।
सर्वरोगादिशमनं पवित्रं कायशोधनम्

6.35.19

व्रतमेतच्च कुरुषे नो वा चैव नराधिप ।
दशमीवेधरहितं कुरुषे जागरान्वितम्

6.35.20

तुलसीपत्रनिकरैर्नित्यं पूजयसे हरिम् ।
गोपीचंदनजं पत्रं भाले वा नृपसत्तम

6.35.21

धारितं सर्वलोकानां पवित्रीकरणं नृप ।
अतस्त्वं च धारयसे गोपीचंदनसंभवम्

6.35.22

ब्रह्महा हेमहारी च मद्यपानी तथैव च ।
अगम्यगो महापापी तथा ह्यनृतभाषितः

6.35.23

ते सर्वे मुक्तिमायांति तिलकं धारणादृताः ।
बिभर्षि कंठे नित्यं त्वं धात्रीफलसमुद्भवाम्

6.35.24

मालां मुख्यायुतसमां तुलसीपत्रसंभवाम् ।
शालग्रामशिलायुक्तां द्वारकायां समुद्भवाम्

6.35.25

नित्यं पूजयसे भूप भुक्तिमुक्तिफलप्रदाम् ।
पद्मसंज्ञं पुराणं वै पठसे पुरतो हरेः

6.35.26

चरितं दैत्यराज्यस्य प्रह्लादस्य च भूपते ।
वासरं वासुदेवस्य सवेधं कुर्वतो नरान्

6.35.27

निवारयसि भूपाल शास्त्रं दृष्ट्वा प्रयत्नतः ।
सवेधं वासरं विष्णोर्यस्मिन्राष्ट्रे प्रवर्तते

6.35.28

लिप्यते तेन पापेन राजा भवति नारकी ।
वेधं चतुर्विधं त्यक्त्वा समुपोष्य हरेर्दिनम् ।
कुलकोटिं समुद्धृत्य विष्णुलोके महीयते

6.35.29

गौतम उवाच-
शृणु भूपाल वक्ष्यामि वैष्णवाख्यं महाव्रतम् ।
यं श्रुत्वा पापिनः सर्वे मुक्तिमायांति तत्क्षणात्

6.35.30

द्वादशीसंभवं पुण्यं मया ख्यातं न कस्यचित्

6.35.31

वैष्णवोऽसि महाराज भक्तो भागवते नृणाम् ।
वैष्णवं तु महागुह्यं तद्व्रतं त्वं निशामय

6.35.32

उन्मीलनी नाम पुरा भक्त्या मे माधवेन तु ।
कथिता सुप्रसन्नेन तां ते भूप वदाम्यहम्

6.35.33

एकादशी अहोरात्रं प्रभाते घटिका भवेत् ।
उन्मीलनी तु सा ज्ञेया विशेषेण हरिप्रिया

6.35.34

त्रैलोक्ये यानि तीर्थानि पुण्यान्यायतनानि च ।
कोट्यंशे नैव तुल्यानि मखा वेदास्तपांसि च

6.35.35

उन्मीलनी समं किंचिन्न भूतं न भविष्यति ।
प्रयागो न कुरुक्षेत्रं न काशी न च पुष्करः

6.35.36

शैलो हिमाचलो नैव न मेरुर्गंधमादनः ।
शैलो न नीलनिषधो न विंध्यो नैव नैमिषम्

6.35.37

गोदावरी न कावेरी चंद्रभागा न वेदिका ।
न तापी न पयोष्णी च न क्षिप्रा नैव चंदना

6.35.38

चर्मण्वती च सरयूश्चंद्रभागा न गंडिका ।
गोमती च विपाशा च शोणाख्यश्च महानदः

6.35.39

किमत्र बहुनोक्तेन भूयोभूयो नराधिप ।
उन्मीलनीसमं किंचिन्न देवः केशवात्परः

6.35.40

उन्मीलनीमनु प्राप्य यैः कृतं केशवार्चनम् ।
पापचक्रसमूहस्य राशयः पतिताः क्षणात्

6.35.41

यस्मिन्मासे महीपाल तिथिरुन्मीलनी भवेत् ।
तन्मासनाम्ना गोविंदः पूजनीयः प्रयत्नतः

6.35.42

जातरूपमयः कार्यं मासनाम्ना तु माधवः ।
स्वशक्त्या विश्वरूपस्तु श्रद्धाभक्तिसमन्वितः

6.35.43

पवित्रोदकसंयुक्तं पंचरत्नसमन्वितम् ।
गंधपुष्पाक्षतैर्युक्तं कुंभं स्रग्दामभूषितम्

6.35.44

पात्रं च सोदकं कार्यं गोधूमैश्चापि पूरितम् ।
नानारत्नैश्च संयुक्तं नानागंधैः प्रपूजितम्

6.35.45

मल्लिकामोदसंयुक्तं जातीपुष्पैः प्रपूजितम् ।
श्वेताख्यैस्तंदुलैश्चैव पूरणीयः प्रयत्नतः

6.35.46

प्रदद्याद्वस्त्रयुग्मं तु उपवीतं तु सोत्तरम् ।
उपानहौ तु राजर्षे आतपत्रं शिरोपरि

6.35.47

भोजनं जलपात्रं च सप्तधान्यं तिलैः सह ।
रूप्यं चैव तु कार्पासं पायसं मुद्रिका हरेः

6.35.48

धेनुर्वात्र तु दातव्या वत्सालंकारसंयुता ।
सुवर्णशृंगी रौप्यखुरी ताम्रपृष्ठी तथैव च

6.35.49

कांस्यदोहीं रत्नपुच्छीं दद्याद्वै गुरवे तदा ।
शय्यां सोपस्करां दद्यात्साधवे भक्तिपूर्वकम्

6.35.6.35.50

धूपं दीपं तु नैवेद्यं फलपत्रं निवेदयेत् ।
पूजनीयो महाभक्तैर्मंत्रैरेभिस्तु केशवः

6.35.51

तुलसीपत्रसंयुक्तैः पुष्पैः कालोद्भवैस्तथा ।
मासनाम्नैव चरणौ जानुनी विष्णुरूपिणे

6.35.52

गुह्ये तु गुह्यपतये कटे वै पीतवाससे ।
ब्रह्ममूर्तिभृते नाभावुदरे विश्वयोनये

6.35.53

हृदये ज्ञानगम्याय कंठे वैकुंठमूर्तये ।
ऊर्द्ध्वगाय ललाटे तु बाहौ दक्षांतकारिणे

6.35.54

उत्तमांगे सुरेशाय सर्वांगे सर्वमूर्तये ।
स्वनाम्ना चायुधादीनि पूजनीयानि भक्तितः

6.35.55

अर्घदानं प्रकर्तव्यं नालिकेरादिभिः समम् ।
शंखोपरि जले कृत्वा गंधपुष्पाक्षतान्वितम्

6.35.56

सूत्रेणावेष्टितं कृत्वा दद्यादर्घं विधानतः ।
देवदेव महादेव श्रीकेशव जनार्दन

6.35.57

सुब्रह्मण्य नमस्तेऽस्तु पुण्यराशिविवर्धन ।
शोकमोहमहापापान्मामुद्धर भवार्णवात्

6.35.58

सुकृतं न कृतं किचिज्जन्मकोटिशतैरपि ।
तथापि मां महास्वामिन्मामुद्धर भवार्णवात्

6.35.59

व्रतेनानेन देवेश ये चान्ये मम पूर्वजाः ।
वियोनिं च गताश्चान्ये पापमृत्युवशं गताः

6.35.60

ये भविष्यंति येऽतीताः प्रेतलोकान्समुद्धर ।
श्रांतोस्म्यहमधीनस्य भक्तिरव्यभिचारिणी

6.35.61

दत्तमर्घं मया तुभ्यं भक्त्या गृह्ण गदाधर ।
दत्वार्घं धूपदीपाद्यैर्नैवेद्यैर्विष्णुसंभवैः

6.35.62

स्तोत्रैर्नीराजनैर्गीतैर्भृत्यैः संतोषयेद्धरिम् ।
वस्त्रैर्दानैश्च गोदानैर्भोजनैस्तोषयेद्गुरुम्

6.35.63

तथातथा विधातव्यं गुरुर्वै प्रीतिमाप्नुयात् ।
लोकानां तारणार्थाय धात्रा सृष्टो गुरुर्यतः

6.35.64

अतो वै गुरुपूजा च कर्त्तव्या वै प्रयत्नतः ।
अहितं यो नाशयति स्वहितं दर्शयेत्सदा

6.35.65

स गुरुः स च विज्ञेयः सर्वधर्मार्थकोविदः ।
अकुर्वन्वित्तशाठ्यं तु गुरवे तं निवेदयेत्

6.35.66

गुरोर्निवेदिते भूप परिपूर्णं भवेद्व्रतम् ।
कृत्वा दिवातनं कर्म भोजनं ब्राह्मणैः सह

6.35.67

कर्त्तव्यं नृपशार्दूल दिनं नेयं कथानकैः ।
अनेन विधिना यस्तु कुर्यादुन्मीलनीव्रतम्

6.35.68

कल्पकोटिसहस्राणि वसते विष्णुसन्निधौ

6.35.35

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे उन्मीलनीव्रतंनाम पंचत्रिंशोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc