भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.32

6.32.1

महादेव उवाच-
दृष्ट्वा शतक्रतुं सिद्धं समाप्तवरदक्षिणम् ।
मघवा जातसंकल्पः पर्यपृच्छद्बृहस्पतिम्

6.32.2

भगवन्केन दानेन सर्वतः सुखमेधते ।
यदक्षयं महार्घं च तन्मे ब्रूहि महातपः

6.32.3

एवमिंद्रेण चोक्तोऽसौ देवदेवः पुरोहितः ।
प्रहस्य तं महाप्राज्ञो बृहस्पतिरुवाचह

6.32.4

हिरण्यदानं गोदानं भूमिदानं च वासव ।
एतत्प्रयच्छमानस्तु सर्वपापैः प्रमुच्यते

6.32.5

सुवर्णं रजतं वस्त्रं मणिरत्नं च वासव ।
सर्वमेव भवेद्दत्तं वसुधां यः प्रयच्छति

6.32.6

फालकृष्टां महीं दत्वा सबीजां सस्यमालिनीम् ।
यावत्सूर्यकृतालोकस्तावत्स्वर्गेमहीयते

6.32.7

यत्किंचित्कुरुते पापं पुरुषो वृत्तिकर्षितः ।
अपि गोचर्ममात्रेण भूमिदानेन शुध्यति

6.32.8

दशहस्तेन दंडोऽत्र त्रिंशद्दंडानि वर्तनम् ।
दशतान्येव गोचर्म्म ब्रह्मगोचर्मलक्षणम्

6.32.9

सवृषं गोसहस्रं तु यत्र तिष्ठत्ययंत्रितम् ।
बालवत्सप्रसूतानां तद्गोचर्म इति स्मृतम्

6.32.10

विप्राय दद्याच्च गुणान्विताय तपोयुताय प्रजितेंद्रियाय ।
यावन्मही तिष्ठति सागरांता तावत्फलं तस्य भवेदनंतम्

6.32.11

यथाप्सु पतितः शक्र तैलबिंदुः प्रसर्पति ।
एवंभूमिकृतं दानं सस्ये सस्ये प्रसर्पति

6.32.12

यथाबीजानि रोहंति प्रचीर्णानि महीतले ।
एवं कामान्प्ररोहंति भूमिदानसमन्विताः

6.32.13

अन्नदाः सुखिनो नित्यं वस्त्रदो रूपवान्भवेत् ।
स नरः सर्वदो भूयो यो ददाति वसुंधराम्

6.32.14

यथा गौर्भरते वत्सं क्षीरमुत्सृज्य क्षीरिणी ।
एवं दत्ता सहस्राक्ष भूमिर्भरति भूमिदम्

6.32.15

शंखो भद्रासनं छत्रं वराश्ववरवारणाः ।
भूमिदानस्य पुण्यस्य फलं स्वर्गः पुरंदर

6.32.16

आदित्यो वरुणो वह्निर्ब्रह्मा सोमो हुताशनः ।
शूलपाणिश्च भगवानभिनंदंति भूमिदम्

6.32.17

आस्फोटयंति पितरो वर्णयंति पितामहाः ।
भूमिदाता कुले जातः स नस्त्राता भविष्यति

6.32.18

त्रीण्याहुरतिदानानि गावः पृथ्वी सरस्वती ।
नरकादुद्धरंत्येते जपवापनदोहनात्

6.32.19

दुर्गतिं तारयंत्येते विद्वद्भिर्विप्रधारणैः ।
प्रावृता वस्त्रदा यांति नग्ना यान्तित्ववस्त्रदाः

6.32.20

तृप्ता यांत्यन्नदातारः क्षुधिता यांत्यनन्नदाः ।
कांक्षंति पितरः सर्वे नरकाद्भयभीरवः

6.32.21

गयां यास्यति यः पुत्रः स नस्त्राता भविष्यति ।
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत्

6.32.22

यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ।
लोहितो यस्तु वर्णेन पुच्छाग्रे यस्तु पांडुरः

6.32.23

श्वेतः खुरविषाणाभ्यां स नीलो वृष उच्यते ।
नीलः पांडुरलांगूलस्तोयमुद्धरते तु यः

6.32.24

षष्टिं वर्षसहस्राणि पितरस्तेन तर्पिताः ।
यच्च शृंगगतं पंकं कुलं तिष्ठति चोद्धृतम्

6.32.25

पितरस्तस्य चाश्नंति सोमलोकं महाद्युतिम् ।
आसीद्राज्ञो दिलीपस्य नृगस्य नहुषस्य च

6.32.26

अन्येषां तु नरेंद्राणां पुनरन्यो न गच्छति ।
बहुभिर्वसुधा दत्ता राजभिः सगरादिभिः

6.32.27

यस्य यस्य यदा भूमिस्तस्यतस्य तदा फलम् ।
ब्रह्मघ्नो वाथ स्त्रीहंता बालघ्नः पतितोऽथवा

6.32.28

गवां शतसहस्राणि हंता तत्तस्यदुःष्कृतम् ।
स्वदत्तां परदत्तां वा यो हरेत्तु वसुंधराम्

6.32.29

स च विष्ठाकृमिर्भूत्वा पितृभिः सह पच्यते ।
षष्टिवर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः

6.32.30

प्रहर्ता चानुमंता च तावद्वै नरकं व्रजेत् ।
भूमिदाद्भूमिहर्तुश्च नापरः पुण्यपापवान्

6.32.31

उर्द्ध्वाधस्तौ च तिष्ठेते यावदाभूतसंप्लवम्

6.32.32

अग्नेरपत्यं प्रथमं सुवर्णं भूर्वैष्णवी सूर्यसुतास्तु गावः ।
तेषांमनंतं फलमश्नुवीत यः कांचनं गां च महीं च दद्यात्

6.32.33

भूमिं यः प्रतिगृह्णाति यश्च भूमिं प्रयच्छति ।
उभौ तौ पुण्यकर्माणौ नियतौ स्वर्गगामिनौ

6.32.34

अन्यायेन हृता भूमिर्यैर्नरैरपहारिता ।
हरंतो हारयंतश्च हन्युस्ते सप्तमं कुलम्

6.32.35

हरेद्धारयते यस्तु मंदबुद्धिस्तमोवृतः ।
स बद्धो वारुणैः पाशैस्तिर्यग्योनिषु जायते

6.32.36

अश्रुभिः पतितैस्तेषां दानानामवकीर्त्तनम् ।
ब्राह्मणस्य हृते क्षेत्रे हतं त्रिपुरुषं कुलम्

6.32.37

वापीकूपसहस्रेण अश्वमेधशतेन च ।
गवांकोटिप्रदानेन भूमिहर्ता न शुद्ध्यति

6.32.38

कृतं दत्तं तपोऽधीतं यत्किंचिद्धर्मसंस्थितम् ।
अर्द्धांगुलस्य सीमाया हरणेन प्रणश्यति

6.32.39

गोतीर्थं ग्रामरथ्यां च श्मशानग्राममेव च ।
संपीड्य नरकं याति यावदाभूतसंप्लवम्

6.32.40

पंचकन्यानृते हंति दश हंति गवानृते ।
शतमश्वानृते हंति सहस्रं पुरुषानृते

6.32.41

हंति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् ।
सर्वं भूम्यनृते हंति मास्म भूम्यनृतं वद

6.32.42

ब्रह्मस्वे नो रतिं कुर्यात्प्राणैः कंठगतैरपि ।
अग्निदग्धाः प्ररोहंति ब्रह्मदग्धो न रोहति

6.32.43

अग्निदग्धाः प्ररोहंति सूर्यदग्धास्तथैव च ।
राजदंडहताश्चैव ब्रह्मशापहता हताः

6.32.44

ब्रह्मस्वेन च पुष्टानि अंगानि च मुहुर्महुः ।
कार्यकालेविशीर्यंते सिकताभि तपो यथा

6.32.45

ब्रह्मस्वहरणं कुर्वन्नरो यातीह रौरवम् ।
न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते

6.32.46

विषमेकाकिनं हंति ब्रह्मस्वं पुत्रपौत्रिकम् ।
लोहचूर्णं चाश्मचूर्णं विषं संजरयेन्नरः

6.32.47

ब्रह्मस्वं त्रिषु लोकेषु कः पुमान्जरयिष्यति ।
ब्रह्मस्वेन तु यत्सौख्यं देवस्वेन तु या रतिः

6.32.48

तद्धनं कुलनाशाय भवत्यात्मविनाशनम् ।
ब्रह्मस्वं ब्रह्महत्या च दरिद्रस्य तु यद्धनम्

6.32.49

गुरुमित्रहिरण्यं च स्वर्गस्थमपि पीडयेत् ।
श्रोत्रियाय कुलीनाय दरिद्राय च वासव

6.32.6.32.50

संतुष्टाय विनीताय सर्वस्वसहिताय च ।
वेदाभ्यास तपो ज्ञानेंद्रियसंयमशालिने

6.32.51

ईदृशाय सुरश्रेष्ठ यद्दत्तं हि तदक्षयम् ।
आमपात्रे यथा न्यस्तं क्षीरं दधि घृतं मधु

6.32.52

भिनत्ति पात्रं दौर्बल्यान्न च पात्रं विनश्यति ।
एवं गां च हिरण्यं च वस्त्रमन्नं मही तिलान्

6.32.53

अविद्वान्प्रतिगृह्णाति भस्मीभवति काष्ठवत् ।
यस्तडागं नवं कुर्यात्पुराणं वापि खानयेत्

6.32.54

सर्वं कुलं समुद्धृत्य स्वर्गलोके महीयते ।
वापीकूपतडागानि उद्यानप्रभवानि च

6.32.55

पुनर्नीतानि संस्कारं ददते मौक्तिकं फलम्।
निदाघकाले पानीय यस्य तिष्ठति वासव

6.32.56

स दुर्गं विषमं कृच्छ्रं न कदाचिदवाप्नुयात् ।
एकाहं तु स्थितं तोयं पृथिव्यां देवसत्तम

6.32.57

कुलानि तारयेत्तस्य सप्तसप्त परानपि ।
दीपालोकप्रदानेन वपुष्मान्स भवेन्नरः

6.32.58

दक्षिणायाः प्रदानेन स्मृतिं मेधां च विंदति ।
कृत्वापि पातकं कर्म यो दद्यादनुसंधिने

6.32.59

ब्राह्मणाय विशेषेण न स पापैर्हि लिप्यते ।
भूमेर्गावस्तथादासः प्रसह्य प्रहृता यदा

6.32.60

न निवेदयते यस्तु तमाहुर्ब्रह्मघातकम् ।
उपस्थिते विवाहे च यज्ञे दाने च वासव

6.32.61

मोहाच्चरति विघ्नं यः स मृतो जायते कृमिः ।
धनं फलति दानेन जीवितं जीवरक्षणात्

6.32.62

रूपमैश्वर्यमारोग्यमहिंसाफलमश्नुते ।
फलमूलाशनात्पूजां स्वर्गः सत्येन लभ्यते

6.32.63

प्रायोपवेशनाद्राज्यं सर्वत्र सुखमश्नुते ।
सुखाट्यः शक्रदीक्षायां सुगामी च तृणाशनः

6.32.64

रूपी त्रिषवणस्नायी वायुं पीत्वा क्रतुं लभेत् ।
नित्यस्नायी भवेद्दक्षः संध्यावेदजपान्वितः

6.32.65

अहिंस्रो याति वैराज्यं नाकपृष्ठमनाशकम् ।
अग्निप्रवेशी नियतं ब्रह्मलोके महीयते

6.32.66

रसानां प्रतिसंहारे पशून्पुत्रांश्च विंदति ।
नाके चिरं स वसति उपवासी च यो भवेत्

6.32.67

सततं भूमिशायी यः स लभेदीप्सितां गतिम् ।
वीरासनं वीरशयं वीरस्थानमुपासतः

6.32.68

अक्षयास्तस्यलोकाः स्युः सर्वकामगमास्तथा ।
उपवासं च दीक्षां च अभिषेकं च वासव

6.32.69

कृत्वा द्वादशवर्षाणि वीरस्थानाद्विशिष्यते ।
पावनं चरते धर्मं स्वर्गलोके महीयते

6.32.70

बृहस्पतिमतं पुण्यं ये पठंति द्विजोत्तमाः ।
तेषां चत्वारि वर्द्धंते आयुर्विद्यायशोबलम्

6.32.71

नारद उवाच-
इतींद्राय बृहस्पतिप्रणीतं धर्मशास्त्रकम् ।
मह्यं भक्ताय संप्रोक्तं महेशेनाखिलं नृप

इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे धर्मकथने द्वात्रिंशोऽध्यायः ।

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc