भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.246

6.246.1

श्रीमहेश्वर उवाच-
अथोपनयनं नाम चकारानकदुंदुभिः ।
पुत्रयोर्वेदविधिना तस्मिन्वै रामकृष्णयोः

6.246.2

आचार्येण हि गर्गेण संस्कृतौ रामकेशवौ ।
पंडितैर्वैष्णवैर्दिव्यैः स्नापनैर्विमलैः शुभैः

6.246.3

कृतसंस्कारकर्माणौ रामकृष्णौ महाबलौ ।
सांदीपनेर्गृहं गत्वा नमस्कृत्य महात्मनः

6.246.4

अधीत्य वेदशास्त्राणि तस्मात्तौ द्विजपुंगवात् ।
मृतं पुत्रं समानीय ददतुस्तस्य दक्षिणाम्

6.246.5

आशिषो वचनं लब्ध्वा गुरोस्तस्मान्महात्मनः ।
तस्मै प्रणम्य मथुरां जग्मतुर्यदुपुंगवौ

6.246.6

अथ कृष्णेन निहतं श्रुत्वा कंसं दुरासदम् ।
श्वशुरस्तस्य नृपतेर्जरासंधो महाबलः

6.246.7

अक्षौहिणीसहस्रैस्तु सेनानीकैर्महाबलैः ।
कृष्णं हंतुं समागत्य रुरोध मथुरां पुरीम्

6.246.8

रामकृष्णौ महावीर्यौ विनिर्गत्य पुरोत्तमात् ।
गजवाजिसमाकीर्णं तद्बलौघमपश्यताम्

6.246.9

सस्मार वासुदेवस्तु पूर्वं रूपं सनातनम् ।
तस्य स्मरणमात्रेण दारुको विष्णुसारथिः

6.246.10

सुग्रीवपुष्पकं नाम समानीय महारथम् ।
वाजिभिर्दिव्यपुष्पाद्यैरुह्यमानं सनातनम्

6.246.11

दिव्यायुधैरुपेतं तं शंखचक्रगदादिभिः ।
वैनतेयपताकेन शोभितं देवदुर्जयम्

6.246.12

अवनीं प्राप्य गोविंदं प्रणम्य हरिसारथिः ।
प्रददौ स्यंदनं शुभ्रं सायुधाश्वसमन्वितम्

6.246.13

दृष्ट्वा हर्षेण कृष्णोऽपि परिणीय महारथम् ।
आरुरोहाग्रजेनैव स्तूयमानो मरुद्गणैः

6.246.14

चतुर्भुजं वपुर्भूत्वा शंखचक्रगदासिभृत् ।
किरीटी कुंडली स्रग्वी संग्रामाभिमुखं ययौ

6.246.15

बलदेवोऽपि मुशलं लांगलं गृह्य वीर्यवान् ।
तत्सैन्यं हंतुमारेभे महेश्वर इवापरः

6.246.16

दारुकश्च रथं शीघ्रं नोदयामास तद्रणे ।
तृणगुल्मलताक्रांते काननेऽग्निमिवानिलः

6.246.17

ततो गदाभिः परिघैः शक्तिभिर्मुद्गरैस्तथा ।
तद्रथं छादयामासुर्जरासंधस्य सैनिकाः

6.246.18

चक्रेणैव हरिस्तूर्णं तानि चिच्छेद लीलया ।
बहूनि तृणकाष्ठानि महावह्निरिवार्चिषा

6.246.19

ततः शार्ङ्गं समादाय सायकैरक्षयैः शितैः ।
चिच्छेद तानि सैन्यानि न प्राज्ञायत किंचन

6.246.20

चक्रच्छिन्नास्यकमलाः केचित्तत्र महाबलाः ।
गदया चूर्णिताः केचित्केचिदन्यैर्महारणे

6.246.21

केचिच्चैवासिनाछिन्नास्तथान्ये शरताडिताः ।
लांगलाग्रहतग्रीवा मुशलाहतमस्तकाः

6.246.22

क्षणेन तद्बलं सर्वं निहत्य मधुसूदनः ।
शंखं दध्मौ यदुश्रेष्ठो लयाशनि निभस्वनम्

6.246.23

शंखरावविनिर्भिन्नहृदयास्ते महाबलाः ।
योधाः साश्वाः सनागाश्च पतितास्त्यक्तजीविताः

6.246.24

अक्षौहिणीसहस्रं तु साश्वं सरथकुंजरम् ।
कृष्णेनैकेन निहतं निःशेषं तदभूद्बलम्

6.246.25

निहतं वासुदेवेन प्रहरार्द्धेन शार्ङ्गिणा ।
ततो देवगणाः सर्वे हर्षनिर्भरचेतसः

6.246.26

ववृषुः पुष्पवर्षाणि साधुसाध्विति चाब्रुवन् ।
सर्वमप्यवनीभारं विमुच्य धरणीधरः

6.246.27

संस्तूयमानस्त्रिदशैर्बभौ संग्राममूर्द्धनि ।
निहतं स्वबलं दृष्ट्वा जरासंधोऽतिवीर्यवान्

6.246.28

योद्धुमभ्याययौ तूर्णं बलदेवेन दुर्मतिः ।
तयोर्युद्धमभूद्धोरं संग्रामेष्वनिवर्तिनोः

6.246.29

रामो लांगलमादाय रथं तस्य ससारथिम् ।
विनिपात्य रणे शूरो गृहीत्वा तं महाबलम्

6.246.30

उद्यम्य मुशलं तूर्णं तं हंतुमुपचक्रमे ।
प्राणसंशयमापन्नं जरासंधं नृपोत्तमम्

6.246.31

कृतं रामेण बलिना सिंहेनेव महागजम् ।
दृष्ट्वा कृष्णोग्रजं प्राह न हंतव्य इति प्रभुः

6.246.32

मोचयामास धर्मात्मा जरासंधं महामतिः ।
विमुच्य कृष्णवाक्येन शत्रुं संकर्षणोऽव्ययः

6.246.33

सानुजो रथमारुह्य मथुरां प्रविवेश ह ।
स कालयवनं प्राप्य महावीर्यं बलान्वितम्

6.246.34

पुत्रयोर्वसुदेवस्य समाचष्ट पराक्रमम् ।
दानवानां वधं चैव कंसस्य निधनं तथा

6.246.35

अक्षौहिणीनां च वधं तथा स्वस्य पराजयम् ।
सर्वं निवेदयामास कृष्णस्य चरितं महत्

6.246.36

तच्छ्रुत्वा यवनः क्रुद्धो महाबलपराक्रमैः ।
म्लेच्छकोटिसहस्रैस्तु संवृतो मदसंयुतैः

6.246.37

मगधाधिपतेस्तस्य सहायार्थं महाबलः ।
तेनैव सहितस्तूर्णं जगाम मथुरां पुरीम्

6.246.38

बलैराच्छाद्य पृथिवीं नानाजनपदान्विताम् ।
संनिवेश्य महासैन्यं रुरोध मथुरां पुरीम्

6.246.39

कृष्णोऽपि चिंतयित्वाऽथ पौराणां कुशलं तदा ।
ययाचे सागरं भूमिं निवासार्थं जनस्य च

6.246.40

त्रिंशद्योजनविस्तीर्णां ददौ कृष्णस्य सागरः ।
असृजत्पयसां मध्ये तत्र द्वारवतीं पुरीम्

6.246.41

बहुप्रासादसंयुक्तां हेमप्राकारतोरणाम् ।
नानामणिमयैर्दिव्यैर्गृहपंक्तिभिरावृताम्

6.246.42

उद्यानैश्च तथा रम्यैस्तडागैर्बहुभिर्युताम् ।
असृजत्पुंडरीकाक्षो यथेंद्रस्यामरावतीम्

6.246.43

सुषुप्तान्मथुरायां तु पौरांस्तत्र जनार्दनः ।
उद्धृत्य सहसा रात्रौ द्वारावत्यां निवेशयत्

6.246.44

प्रबुद्धास्ते जनाः सर्वे पुत्रदारसमन्विताः ।
हेमहर्म्यतलेविष्टा विस्मयं परमं ययुः

6.246.45

बहुभिर्धनधान्यैश्च दिव्यवस्त्रविभूषणैः ।
परिपूर्णैरिवाभोगैर्गृहमुख्यैः समावृताः

6.246.46

तस्मिन्प्रहृष्टाः संतस्थुर्दिवि देवगणा इव ।
यवनेन तदा योद्धुं रामकृष्णौ महाबलौ

6.246.47

विनिर्ययतुरात्मेशौ मथुराया बहिस्तदा ।
रामो लांगलमादाय मुशलं च महारथः

6.246.48

जघान समरे क्रुद्धो यवनानां महद्बलम् ।
कृष्णस्तु शार्ङ्गमासज्य बाणैरग्निशिखोपमैः

6.246.49

निर्ददाह बलं सर्वं म्लेच्छानां देवकीसुतः ।
निहतं स्वबलं दृष्ट्वा स कालयवनो बली

6.246.6.246.50

युयुधे वासुदेवेन गदया यवनेश्वरः ।
कृष्णोऽपि कदनं तेन कृत्वा चिरमनामयः ५०

6.246.51

विमुखः प्राद्रवत्तस्मात्संग्रामात्कमलेक्षणः ।
सोनुयातोऽतिवेगेन तिष्ठतिष्ठेति चाब्रुवन्

6.246.52

वेगात्कृष्णो गिरिगुहां प्रविवेश महामतिः ।
तत्र प्रसुप्तो राजाऽसौ मुचुकुंदो महामुनिः

6.246.53

अदृश्यस्तस्य नृपतेः संस्थितो भगवान्हरिः ।
यवनोऽपि महावीरो गदामुद्यम्य पाणिना

6.246.54

कृष्णं हंतु समारब्धो गुहां तां प्रविवेश ह ।
दृष्ट्वा शयानं राजानं मत्वा कृष्णं जनार्दनम्

6.246.55

पादेन ताडयामास मुचुकुंदं महामुनिम् ।
ततः प्रबुद्धो भगवान्मुचुकुंदो महामुनिः

6.246.56

क्रोधात्संरक्तनयनो हुंकारं कृतवानसौ ।
तस्य हुंकारशब्देन तथा क्रोधनिरीक्षणात्

6.246.57

निर्दग्धो भस्मतां प्राप यवनस्त्यक्तजीवितः ।
ततस्तु कृष्णो ददृशे राजर्षेः पुरतः प्रभुः

6.246.58

नीलोत्पलदलश्यामः पुंडरीकनिभेक्षणः ।
शंखचक्रगदापाणिः पीतवासा जनार्दनः

6.246.59

दृष्ट्वा तं सहसोत्थाय राजर्षिरमितौजसम् ।
अहोभाग्यमहोभाग्यमित्युवाच महामुनिः

6.246.60

पुलकांकितसर्वांगः सानंदाश्रुजलाकुलः ।
स्तुवन्वै जयशब्देन प्रणनाम मुहुर्मुहुः

6.246.61

मुचुकुंद उवाच-
धन्योस्मि कृतकृत्योस्मि दर्शनात्परमेश्वर ।
अद्य मे सफलं जन्म जीवितं सफलं मम

6.246.62

नमस्ते वासुदेवाय जगन्नाथाय शार्ङ्गिणे ।
दामोदराय देवाय तेजसां निधये नमः

6.246.63

अधोक्षजाय हरये नृसिंहवपुषे नमः ।
राघवाय नमस्तुभ्यं पुंडरीकेक्षणाय च

6.246.64

अच्युतायाविकाराय तथानंताय ते नमः ।
गोविंदाय नमस्तुभ्यं विष्णवे जिष्णवे नमः

6.246.65

नारायणाय श्रीशाय कृष्णाय परमात्मने ।
मुकुंदाय नमस्तुभ्यं चतुर्व्यूहाय ते नमः

6.246.66

नमः परमकल्याण नमस्ते परमात्मने ।
वासुदेवाय शांताय यदूनां पतये नमः

6.246.67

महेश्वर उवाच-
एवं स्तुत्वा तु गोविंदं प्रणनाम पुनः पुनः ।
संतुष्टो भगवान्प्राह मुचुकुंदं महामुनिम्

6.246.68

श्रीभगवानुवाच-
वरं वृणीष्व राजर्षे यत्ते मनसि वर्त्तते ।
महेश्वर उवाच-
सोऽपि मुक्तिं ययाचाथ पुनरावृत्तिवर्जिताम्

6.246.69

तस्मै ददौ तदा कृष्णो दिव्यं लोकं सनातनम् ।
राजा तु मानुषं रूपं विहायाथ महामतिः

6.246.70

समानं रूपमास्थाय देवस्य परमात्मनः ।
वैनतेयं समारुह्य शाश्वतं पदमाविशत्

6.246.246

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमाहेश्वरसंवादे श्रीकृष्णचरिते मुचुकुंदमोक्षोनाम षट्चत्वारिंशदधिकद्विशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc