भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.234

6.234.1

पार्वत्युवाच-
भगवञ्छ्रोतुमिच्छामि द्वादश्याश्च विधानकम् ।
विष्णोः पूजाविधानं च कर्त्तव्यं तत्र वै प्रभो

6.234.2

एकादश्याः प्रभावं च सर्वपापहरंनृणाम् ।
आचक्ष्व विस्तरेणैव मयि प्रीत्या महेश्वर

6.234.3

महादेव उवाच-
शृणु देवि प्रवक्ष्यामि द्वादश्याश्च विधानकम् ।
तस्याः स्मरणमात्रेण संतुष्टः स्याज्जनार्दनः

6.234.4

एकादश्यां तु प्राप्तायां समुपोष्येह मानवः ।
सर्वपापविनिर्मुक्ता यांति विष्णोः परम्पदम्

6.234.5

सप्तजन्मार्जितं पाप ज्ञानतोऽज्ञानतः कृतम् ।
क्षणादेव लयं याति द्वादश्यां हरिपूजनात्

6.234.6

अश्वमेधसहस्राणि वाजपेयशतानि च ।
एकादश्युपवासस्य कलां नार्हंति षोडशीम्

6.234.7

धर्म्मदा ह्यर्थदा चैव कामदा मोक्षदा किल ।
सर्व्वकामदुघा नॄणां द्वादशी वरवर्णिनी

6.234.8

एकादशी समं किंचित्पापत्राणं न विद्यते ।
एकादशीसमंकिचिद्व्रतं नास्ति शुभेक्षणे

6.234.9

एकादशीं परित्यज्य यो ह्यन्यद्व्रतमाचरेत् ।
स करस्थं महाराज्यं त्यक्त्वा भैक्ष्यं तु याचते

6.234.10

एकादशेंद्रियैः पापं यत्कृतं भवति प्रिये ।
एकादश्युपवासेन तत्सर्वं विलयं व्रजेत्

6.234.11

रटंतीह पुराणानि भूयोभूयो वरानने ।
न भोक्तव्यं न भोक्तव्यं संप्राप्ते हरिवासरे

6.234.12

अभक्ष्यं सर्वदा प्रोक्तं किं पुनः शुक्लकृष्णयोः ।
वर्णानामाश्रमाणां च सर्वेषां वरवर्णिनी

6.234.13

एकादश्युपवासस्तु कर्त्तव्यो नात्र संशयः ।
एकादश्यां च प्राप्तायां मातापित्रोर्मृतेऽहनि

6.234.14

द्वादश्यां तु प्रदातव्यं नोपवासदिने क्वचित् ।
गर्हितान्नं न वाश्नंति पितरश्च दिवौकसः

6.234.15

एकादश्यां न भोक्तव्यं सुरां वा न पिबेत्क्वचित् ।
ब्राह्मणं नैव हन्यात्तु सममेतत्त्रयं मतम्

6.234.16

तस्मादेकादशीं शुद्धामुपवासं समाचरेत् ।
अवस्थात्रितये यस्तु यत्नो वाक्कायकर्म्मभिः

6.234.17

दशमीमिश्रितां तां तु प्रयत्नेन विवर्ज्जयेत् ।
अरुणोदयवेलायां दशमीमिश्रिता भवेत्

6.234.18

तां त्यक्त्वा द्वादशीं शुद्धामुपोष्येहाविचारयन् ।
कलायां विद्यमानायां सूर्य्यस्योदयनं प्रति

6.234.19

त्रयोदश्यां तथा देवि द्वादशी परिविद्यते ।
तथा च द्वादशी शुद्धा ह्युपवासे विधीयते

6.234.20

अरुणोदयवेलायां कृत्यं सर्वं समाचरेत् ।
कलायामपि द्वादश्यां पारणं तत्र चोदितम्

6.234.21

शुद्धामेकादशीं चापि त्यजेदत्र न संशयः ।
कलाप्येकादशी यत्र द्वादश्यामुदिते रवौ

6.234.22

सर्वामेकादशीं त्यक्त्वा तत्रैवोपवसेद्द्विजः ।
एवं विधिं विनिश्चित्य समुपोष्यं हरेर्द्दिनम्

6.234.23

सायमाद्यंतयोरह्नोः सायंप्रातस्तु मध्यमे ।
तत्रोपवासं कुर्वीत त्यक्त्वा भुक्तिचतुष्टयम्

6.234.24

दशम्यामेकभक्तस्तु नारीसंगमवर्जितः ।
अवनीतल्पशायी च परेऽहनि वसेच्छुचिः

6.234.25

धात्रीफलानुलिप्तांगः स्नानं संध्यां समाचरेत् ।
उपवासपरो भूत्वा रात्रौ संपूजयेद्धरिम्

6.234.26

पाखंडिनं विकर्मस्थं पतितं श्वपचं तथा ।
नावलोकेन्न संभाषेन्न स्पृशेत्तत्र वैष्णवः

6.234.27

अवैष्णवस्तु यो विप्रः स पाषण्डः प्रकीर्तितः ।
शिखोपवीतत्यागी च विकर्मस्थ इतीरितः

6.234.28

महापापोपपापाभ्यां युक्तः पतित उच्यते ।
अंत्यजः श्वपचः प्रोक्तो वेदैस्तत्र सुनिर्णयः

6.234.29

रात्रौ संपूज्य देवेशं जागरं च समाचरेत् ।
गंधैः पुष्पैस्तथा दीपैर्वस्त्रैराभरणैः शुभैः

6.234.30

जपैस्तोत्रैर्नमस्कारैः पूजयेन्निशि भक्तितः ।
ततः प्रभातसमये तुलसीमिश्रितैर्जलैः

6.234.31

स्नात्वा सम्यग्विधानेन संतर्प्य पितृदेवताः ।
पूजयेज्जगतामीशं लक्ष्म्या सह जनार्दनम्

6.234.32

कोमलैस्तुलसीपत्रैः पुष्पैश्चैव सुगंधिभिः ।
दीपान्नीराजयेत्तत्र वारमष्टोत्तरं शतम्

6.234.33

शतपत्रकृतां मालां ताभ्यां सम्यङिनवेदयेत् ।
धूपं दीपं च नैवेद्यं तांबूलं च समर्प्पयेत्

6.234.34

शर्करासहितं दिव्यं पायसान्नं समर्पयेत् ।
कर्पूरेण च संयुक्तं तांबूलं च निवेदयेत्

6.234.35

प्रदक्षिणे नमस्कारं कृत्वा भक्त्या समन्वितः ।
आज्येन जुहुयाद्वह्नौ शतमष्टोत्तरं तथा

6.234.36

प्रत्यृचं पुरुषसूक्तेन लक्ष्मीसूक्तेन पायसम् ।
ब्राह्मणान्भोजयेद्भक्त्या स्वयं भुंजीतवाग्यतः

6.234.37

पुराणादि प्रपाठेन क्षपयेत्तद्दिनं महत् ।
क्षितिशायी ब्रह्मचारी तस्यामेव निशि स्वपेत्

6.234.38

एवं संपूज्यमानं स द्वादश्यां कमलापतिः ।
क्षणात्प्रसन्नो भगवान्सर्वाभीष्टप्रदो ध्रुवम्

6.234.39

इत्येतत्कथितं देवि द्वादशीव्रतमुत्तमम् ।
किमन्यच्छ्रोतुकामासि तद्वक्तव्यं ब्रवीम्यहम्

6.234.234

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे द्वादशीमाहात्म्यंनाम चतुस्त्रिंशदधिकद्विशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc