भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.230

6.230.1

पार्वत्युवाच-
भगवन्यत्रदेवेशो राक्षसान्मधुसूदनः ।
जघान केन रूपेण यथावद्वक्तुमर्हसि

6.230.2

वैभवं च स्थवीयस्य मत्स्यकूर्म्मादिरूपकम् ।
विस्तरेण समाख्याहि मम प्रीत्या महेश्वर

6.230.3

महादेव उवाच-
शृणु देवि प्रवक्ष्यामि वैभवं स्वस्थमानसा ।
मत्स्यकूर्म्मादि यद्रूपमवतारात्मकं हरेः

6.230.4

दीपादुत्पाद्यते दीपो यथावत्तद्भविष्यति ।
परावस्थापरेशस्य सव्यूहा विभवादयः

6.230.5

उक्ता देवावतारास्तु विविधाकारकाः शुभाः ।
अर्च्चावतारा देवस्य वैभवाः परमात्मनः

6.230.6

प्राजापत्येन वै ब्रह्मा स सम्राट्परमोत्सवः ।
भृगुं मरीचिमत्रिं च दक्षं कर्द्दममेव च

6.230.7

पुलस्त्यं पुलहं चैव गिरिशं च तथा क्रतुम् ।
नवप्रजानां पतय इमे प्रोक्ता यथाक्रमम्

6.230.8

मरीचिर्भगवांस्तत्र जनयामास कश्यपम् ।
कश्यपस्याभवञ्जायाश्चतस्रः शुभदर्शने

6.230.9

अदितिश्च दितिश्चैव कद्रुश्च विनता तथा ।
अदितिर्जनयामास देवांस्तु शुभदर्शनान्

6.230.10

दितिश्च राक्षसान्पुत्रांस्तामसान्सुमहासुरान् ।
शंबूकस्तु हयग्रीवो हिरण्याक्षो महाबलः

6.230.11

हिरण्यकशिपुर्जंभो मयाद्याः सुमहातपाः ।
मकरस्तु महावीर्यो ब्रह्मलोकमुपागतः

6.230.12

ब्रह्माणं मोहयित्वाऽसौ वेदाञ्जग्राह वीर्यवान् ।
ग्रसित्वा च श्रुतिं सोऽथ प्रविवेश महार्णवम्

6.230.13

ततः सर्वं जगच्छून्यमभवद्धर्मसंकरः ।
नाधीतं न वषट्कारं वर्णाश्रमविवर्जितम्

6.230.14

ततः प्रजापतिर्देवः सर्वदेवगणैर्वृतः ।
गत्वा दुग्धांबुधिं देवं तुष्टाव शरणं गतः

6.230.15

ब्रह्मोवाच-
प्रसीद देव मे नाथ नागपर्यंकसंस्थित ।
सर्वेश सर्वदेवात्मन्सर्ववेदमयाच्युत

6.230.16

आद्यं जगद्भुवो बीजं मध्ये त्वं सर्वतोऽधिकः ।
अंते च पशुनाथस्त्वं स्वेच्छया तस्तमेव च

6.230.17

त्वमेव धत्से चिद्रूपं जगत्सर्वं सनातनम् ।
त्वमव्यक्तो हि भूतादिः प्रधानपुरुषोऽव्ययः

6.230.18

त्वमादिमध्यांतवपुर्जगतः परमेश्वरः ।
त्वमेव सर्वलोकानामाश्रयः पुरुषोत्तमः

6.230.19

भूतादिस्त्वं महद्भूतं भूतसंघस्य कारणम् ।
त्वमेव कारणमाश्रित्य रमते धाम आत्मवान्

6.230.20

त्वमादिभूतश्चांतस्त्वं त्वं वायुः सर्व्वगो महान् ।
त्वमादिस्त्वमनादिश्च त्वमग्निस्तेजसां निधिः

6.230.21

त्वमापः सर्व्वजगतां जीवनं परमेश्वरः ।
त्वं भूमिर्जगदाधारो भूधरस्त्वं महामते

6.230.22

सरितं सागरस्त्वं वै सर्व्वस्यादिस्त्वमेव च ।
देवर्षिः सर्वभूतानि त्वमेव पुरुषोत्तम

6.230.23

त्वयैव प्रेरिता लोकाश्चेष्टंते साध्वसाधुषु ।
दैत्येनोपद्रुता वेदाः प्रविष्टा महदर्णवम्

6.230.24

वेदाधारमिदं सर्व्वं जगत्स्थावरजंगमम् ।
वेदाश्चैव हि सर्व्वेषां धर्माणां परितः स्थितिः

6.230.25

वेदेषु सर्वदेवानां नित्यतृप्तिर्भविष्यति ।
तस्माद्वेदान्समानेतुं त्वमेवार्हसि केशव

6.230.26

श्रीमहादेव उवाच-
एवमुक्तो हृषीकेशो ब्रह्मणा परमेश्वरः ।
मत्स्यरूपं समास्थाय प्रविवेश महोदधिम्

6.230.27

तं दैत्यं सुमहाघोरं माकरंरूपमास्थितः ।
तुण्डाग्रेण विदार्याथ जघानामरपूजितं

6.230.28

तं हत्वा सर्ववेदांश्च साङ्गोपाङ्गसमन्वितान् ।
गृहीत्वा प्रददौ तस्मै ब्रह्मणे स महाद्युतिः

6.230.29

अन्योन्यमिश्रिता वेदा ग्रसितास्तेन रक्षसा ।
व्यक्ता भगवता तेन व्यासरूपेण धीमता

6.230.30

पृथग्भूता समं वेदा व्यासेनैव महात्मना ।
एवं मत्स्यावतारेण रक्षिताः सर्व्वदेवताः

6.230.31

श्रुतिप्रदानेन जगत्त्रयं तदा कृत्वा निरातंकमहो रमाधवः ।
संस्तूयमानः सुरसिद्धसंघैरंतर्दधे योगिभिरर्च्चितांघ्रिः ।
वासुदेवो हि भवगान्सर्वदेवमयो हरिः

6.230.230

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे उमामहेश्वरसंवादे मत्स्यावतारवर्णनंनाम त्रिंशदधिकद्विशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc