भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.221

6.221.1

नारद उवाच-
इत्युक्ता सा कला राजंस्तया नृपतिभार्यया ।
स्वकोशात्स्वर्णमंजूषामानाय्य विदधे पुरः

6.221.2

उवाच च महाराज भार्येऽस्यामहदद्भुतम् ।
पुस्तकं वर्तते देवि तत्र चित्राणि संति वै

6.221.3

उद्धाट्य दृश्यतां किंचित्किं किमस्त्यत्र पुस्तके ।
रंस्यते ते मनो नूनं तत्रस्था लेख्यदर्शने

6.221.4

इत्युक्त्वा भूपपत्नी सा दास्या तामुदघाटयत् ।
मंजूषां तत्र संस्थं च पुस्तकं पाणिनाऽग्रहीत्

6.221.5

तत्रावलोकयामास सावतारान्समासतः ।
पूर्वं ततस्तु भूगोलं पंचाशत्कोटियोजनम्

6.221.6

तत्रांधकारसंयुक्ता भूमिर्दृष्टाथ कांचनी ।
एतयोरंतरे राजँल्लोकालोकश्च पर्वतः

6.221.7

सप्तद्वीपास्ततो दृष्ट्वा समुद्रैः सप्तभिर्वृताः ।
एतेषु नद्यः शैलाश्च खंडानि तु महामते

6.221.8

एतद्भारतखंडं सा पश्यंती भूपतिप्रिया ।
यमुनाजाह्नवी मुख्या सरितः समवैक्षत

6.221.9

यमुनातीरगं राजन्निंद्रप्रस्थमिदं शुभम् ।
ददर्श सा महाभागा तीर्थं व्रजयुतं नृप

6.221.10

अत्र तीर्थमिदं दृष्ट्वा प्रयागं ब्रह्मनिर्मितम् ।
पूर्वजन्मकृतं कर्म सा सस्मार मनस्विनी

6.221.11

ततस्तूष्णीं समुत्थाय तूर्णं सा स्वगृहं ययौ ।
निश्चित्येति न भोक्ष्यामि ततः प्रस्थाय तीर्थकम्

6.221.12

तदैव सा तु हेमांगी सहगंतुमसुप्रियम् ।
वीरवर्माणमाहेदं तीर्थराजं प्रिया सती

6.221.13

हेमांग्युवाच-
भो भो प्राणपते वाक्यं मदीयं शृणु धर्मदम् ।
विधेहि च महाभाग तूर्णं पूर्णो भविष्यति

6.221.14

पुराहं मोहिनी नाम वेश्या च बहुपापकृत् ।
यौवने वार्द्धके किंचिद्धर्मे जाता मतिर्मम

6.221.15

पापेनोपार्जितां वित्तं धर्मेण व्ययितं मया ।
निर्द्धनाहं यदा राजन्निर्गता निजपत्तनात्

6.221.16

तदा मां निर्जनेऽरण्ये यांती जघ्नुस्तु तस्कराः ।
वृथा दारिद्र्यसंतप्ता पापा धनजिघृक्षया

6.221.17

शितशस्त्रक्षतांगीं मां श्वसंतीं गतचेतनाम् ।
विसृज्य तस्करास्तत्र गता हतमनोरथाः

6.221.18

ततो वैखानसो ह्येकः प्रयागस्य जलं वहन् ।
इंद्रप्रस्थगतस्यैव वने तत्र समागतः

6.221.19

तत्र मां पतितां दृष्ट्वा तदवस्थां स तापसः ।
का त्वं कुतः किमर्थं वा हता केनेति पृष्टवान्

6.221.20

तदा किमपि नोक्तं मे प्रार्थितं पुण्यमंबु तत् ।
तेन तन्मे मुखे क्षिप्तं ततोऽहं देहमत्यजम्

6.221.21

प्राणप्रयाणकाले तु वारितत्सर्वकामदम् ।
श्रुत्वेति वांच्छितवती महिषी स्यामिति प्रभो

6.221.22

तस्य तीर्थांभसो राजन्प्रसादात्ते गृहेश्वरी ।
जाताहं सत्कुलाचारा शीलया परयो निधेः

6.221.23

सांप्रतं द्रष्टुमिच्छामि शक्रप्रस्थगतं नृप ।
प्रयागं तीर्थराजं तं भवता सह कामदम्

6.221.24

प्रस्थास्येहं यदा राजन् तीर्थराजं प्रति प्रभो ।
तदाहमन्नं भोक्ष्यामि मयेति विहितः पणः

6.221.25

राजोवाच-
कथमेतद्विजानीयां त्वदुक्तं चललोचने ।
प्रतीतं कुरु मे भद्रे त्वदुक्तं करवाण्यहम्

6.221.26

नारद उवाच-
इत्युक्ते तेन भूपेन खे वागित्यभवत्तदा ।
आकाशवागुवाच-
सत्यमुक्तं वचो राजन्ननया तव भार्यया

6.221.27

इंद्रप्रस्थे गते पुण्ये प्रयागे तीर्थपुंगवे ।
तत्र गत्वा कुरु स्नानं लप्स्यसे यद्यदिच्छसि

6.221.28

नारद उवाच-
निशम्येति ततो वाणीं नृपो गगनसंभवाम् ।
दंडवत्पतितो भूमौ तद्वक्तारं नमाम्यहम्

6.221.29

अथ मंत्रिणमाहूय राज्यमारोप्य तत्र वै ।
तया सह समारुह्य रथं तीर्थवरं ययौ

6.221.30

कतिभिर्वासरैरत्र हेमांग्या सह आययौ ।
उपजहृ तीर्थराजे क्षीरं भार्यायुतो नृपः

6.221.31

सस्नतुस्तौ शिवे तीर्थे दंपती तत्र कामदे ।
प्रयागे तेन वपुषा वैकुंठप्राप्तिरस्तु मे

6.221.32

प्रतीच्छया स्नानमात्रे मिथुने तत्र भूपते ।
आगतौ सुरशार्दूलौ हंसपक्षींद्रवाहनौ

6.221.33

आगतौ तौ समालोक्य वीरवर्मा स भूपतिः ।
प्रणम्य शिरसा देवौ तुष्टावैकाग्रमानसः

6.221.34

राजोवाच-
नमो वां सुरशार्दूलौ बिभ्रद्भ्यामसितारुणे ।
वपुषी क्षौमवासांसि हेमसिंदूरभानि च

6.221.35

वंदे युवां सत्वरजः प्रधानौ चराचरस्य स्थितिसर्गहेतू ।
वैकुंठसत्याद्भुतलोकनाथौ चतुर्द्विबाहू खगराजवाहौ

6.221.36

वैराग्यसंरागवतां जनानां सन्मुक्तिभुक्तिप्रतिपादिकौ च ।
वृंदारके वंदितपादपद्मौ सद्भावनम्रेण नमामि मूर्ध्ना

6.221.37

गोविंदवृंदारकवंद्यपाद न कोऽपि जानाति तव स्वरूपम् ।
यतः परस्त्वं प्रकृतेश्च पुंसो मनोवचोभ्यामपि दूरवर्ती

6.221.38

धन्यः सलोके पुरुषः परात्मन्यो विश्वमेतत्क्षणिकं विचिंत्य ।
अनन्यचेता भजति त्वदीय पादारविंदं मुनिवृंदवंद्यम्

6.221.39

त्वत्पादसेवनंनाम तीर्थमेतच्च दुर्लभम् ।
जनानां भजमानानां वांछितार्थफलप्रदम्

6.221.40

तथाप्येतद्द्वयं सेव्यं मुक्तये नान्यलब्धये ।
अन्यकामनया यस्तु सेवते स तु वंचितः

6.221.41

संतो भवंतमासेव्य तीर्थमेतच्च मुक्तिदम् ।
नान्यमिच्छंत्यतिक्रम्य सर्वलोकान्जिजीषवः

6.221.42

नारद उवाच-
इत्यभिष्टूय देवेशं लोकेशं स च भूपतिः ।
तस्थौ यदा तदा राजन्हेमांगी सा जगाद ह

6.221.43

पद्मापते पद्मपलाशलोचन ब्रह्मन्करालासन भारती गुरो ।
नमो युवाभ्यां यदि दीनचेतसे प्रसीदतां तारयतां भवाब्धेः

6.221.44

तीर्थस्यास्य प्रसादेन जाताहं महिषी प्रभो ।
युवयोर्दर्शनं जातं देवानामपि दुर्लभम्

6.221.45

युवामखिलचित्तज्ञौ दत्तं नौ मानसेप्सितम् ।
स्नानकाले यदावाभ्यां विहितं पारमार्थिकम्

6.221.46

एवं ताभ्यामुभाभ्यां तौ संस्तुतौ देवपुंगवौ ।
प्रसन्नवदनौ भूत्वा प्रोचतुर्दंपती प्रति

6.221.47

हरिब्रह्माणावूचतुः ।
धन्या त्वमसि हेमांगि यतोऽयं तारितः पतिः ।
त्वया राज्यसुखासक्त चित्तोप्येतत्समागमात्

6.221.48

राज्ञां विषयसक्तानां दुर्लभा मुक्तिरीदृशी ।
त्वद्भर्तुर्यादृशी जाता तीर्थस्यास्य प्रसादतः

6.221.49

नारद उवाच-
इत्युक्त्वा तौ समालोक्य गरुडं पक्षिपुंगवम् ।
जग्मतुस्तौ सुरश्रेष्ठौ सत्यलोकं नरेश्वर

6.221.50

तत्र ते ब्रह्मणा सर्वे पूजिता विधिवन्नृप ।
तस्य चित्तानुरोधेन तस्थुरेकं मुहूर्तकम्

6.221.51

अथ ताभ्यामुभाभ्यां स दंपतीभ्यां समं हरिः ।
आरुह्य गरुडं श्रीमद्वैकुंठमगमन्नृप

6.221.52

इत्येतत्कथितं तुभ्यं तीर्थराजस्य वैभवम् ।
पुण्यं समस्तपापघ्नं यशस्यं सुतदं नृप

6.221.53

य एतच्छृणुयान्नित्यं पठेदपि च मानवः ।
स गच्छेद्वांछितं स्थानं सत्यमेतन्मयोदितम्

6.221.221

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे इंद्रप्रस्थमाहात्म्ये प्रयागवर्णनंनामैकविंशत्यधिकद्विशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc