भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.199

6.199.1

ऋषय ऊचुः-
कालिंद्याश्चैव माहात्म्यं वद सूत सविस्तरम् ।
यस्मै प्रकाशितं येन तदाख्यानसमन्वितम्

6.199.2

सूत उवाच-
एकदा पांडुतनयः शुश्रूषुः सौभरेः शुभम् ।
ज्ञानं तत्स्थानमभ्येत्य नत्वा तमिति पृष्टवान्

6.199.3

युधिष्ठिर उवाच-
ब्रह्मन्मार्तंडतनया तीर तीर्थेषु यच्छुभम् ।
तीर्थं तद्वद वैकुंठ जन्मभूमिपरात्परम्

6.199.4

सौभरिरुवाच-
एकदा तु मुनिश्रेष्ठौ दिवि नारदपर्वतौ ।
गच्छंतौ खांडवं पश्यन्पश्यतः सुमनोहरम्

6.199.5

तत्रावतीर्णो नभस उपविष्टौ तटे शुभे ।
कालिंद्याः क्षणविश्रांतौ स्नातुं विविशतुर्जले

6.199.6

शिबिरौशीनरो राजा मृगयांतौ चरन्वने ।
दृष्ट्वा तान्निर्गमापेक्षी निषसाद सरित्तटे

6.199.7

तौ मुनी विधिवत्स्नात्वा परिधायांबराणि च ।
वंदितौ शिरसा राज्ञा तेनोपाविशतां तटे

6.199.8

तत्रालोक्य सुवर्णस्य शिबिर्यूपान्सहस्रशः ।
नारदं गर्वरहितः पर्वतं च जगाद सः

6.199.9

शिबिरुवाच-
कथ्यतां मुनिशार्दूलौ कस्येमा यागयष्टयः ।
केनात्र विहितो यज्ञः सुरेणाथ नरेण वा

6.199.10

मुक्त्वा काश्यादितीर्थानि यज्ञैरीज्येऽत्र कः पुमान् ।
को विशेषोऽत्र तीर्थेभ्यस्तेभ्यो विज्ञानसन्निधिः

6.199.11

नारद उवाच-
पुरा हिरण्यकशिपुर्जित्वा शक्रादिदेवताः ।
त्रैलोक्यराज्यमासाद्य सो खर्वं गर्वमाददे

6.199.12

प्रह्लादस्तस्य तनयो नारायणपरायणः ।
तस्मै सो द्रुह्यताभीक्ष्णं पापात्मा नष्टमंगलः

6.199.13

तद्द्रोहाद्विष्णुना सद्यो नृसिंहतनुधारिणा ।
हत्वा दैत्यपतिं स्वर्गराज्यं स्वःपतयेऽर्पितम्

6.199.14

स्वपदं प्राप्य देवेशो बृहस्पतिमथावदत् ।
मूर्ध्नाभिवंद्य तत्पादौ नारायणगुणान्स्मरन्

6.199.15

इंद्र उवाच-
गुरो नृसिंहरूपेण हरिणा लोकधारिणा ।
दत्तं मे देवताराज्यं यष्टुमिच्छामि तं मखैः

6.199.16

स्थानं पवित्रं कथय ब्राह्मणांश्चैव मे गुरो ।
न विधेयो विलंबोऽत्र त्वया नो हितकारिणा

6.199.17

बृहस्पतिरुवाच-
अस्ति ते खांडववनं रम्यं परमपावनम् ।
केतक्यशोकबकुलमधुमत्त मधुव्रतम्

6.199.18

तत्रास्ति यमुना पुण्या धन्या त्रैलोक्यपावनी ।
ददाति स्मरणे स्वर्गं मरणे ब्रह्मणः पदम्

6.199.19

तत्तीरे यज देवेश केशवं बहुभिर्मखैः ।
यदीच्छसि स्वकीयानां कल्याणं त्वं निरंतरम्

6.199.20

नारद उवाच-
गुरोर्वचनमाकर्ण्य तूर्णमारुह्य वाहनम् ।
शिवप्रदमिमं शक्रः स्वकीयवनमागमत्

6.199.21

गुरुणा सह देवैश्च यज्ञोपकरणैस्तथा ।
अत्रागत्य विलोक्यैतद्वनं लेभे मुदं पराम्

6.199.22

गुरुणा नोदितः शक्रो सप्तर्षीन्ब्रह्मणः सुतान् ।
वसिष्ठादीन्द्विजान्वृत्वा यजति स्म जगत्पतिम्

6.199.23

तस्य प्रसन्नो भगवान्ब्रह्मेशाभ्यां सहागतः ।
क्रतौ शतक्रतोर्यत्र महानभवदुत्सवः

6.199.24

देवत्रयीं सतां वीक्ष्य शक्रो वक्रमतिस्तदा ।
उत्थायासनतस्तूर्णं ववंदे मुनिभिः सह

6.199.25

वाहनेभ्योऽवरुह्याशु तदंतेषूपविश्य ते ।
आसनेषु सुहैमेषु बभुर्वेदीष्विवाग्नयः

6.199.26

सितरक्तांगयोः शंभु ब्रह्मणोर्हरिराबभौ ।
नीलच्छविः पीतवासास्तडित्वानिव शृंगयोः

6.199.27

शक्रः प्रक्षाल्य तत्पादान्मूर्ध्ना तज्जलमादधे ।
अब्रवीच्च मुदायुक्तो वचनं मधुराक्षरम्

6.199.28

इंद्र उवाच-।
विहितोऽयं मया देव यज्ञोऽद्य सफलोऽभवत्

6.199.29

यद्ययं दर्शनं प्राप्ता दुर्लक्ष्या अपि योगिभिः।
एकेनैव त्वया विष्णो कृता मूर्तिस्त्रयीमयी

6.199.30

गुणैस्तथापि नानात्वं स्फटिकस्येव ते मृषा ।
यथा दारुषु गूढोऽग्निर्घर्षणेन विना विभो

6.199.31

नाविर्भवति भूतानां हृत्सु भक्त्या तथा भवान् ।
एकस्य त्वयि भक्तिः स्यात्सर्वभूतोपकारिणी

6.199.32

बभूवुः सुखिनो देवाः प्रह्लादकृतया तया।
वयं विषयिणो देव त्वन्मायावृतचेतसः

6.199.33

न जानीमः स्वरूपं ते यथावत्पादसेवकाः ।
भो ब्रह्मन्भो महादेव युवामपि जगद्गुरू

6.199.34

एतस्यैव गुरुत्वेन यतो नातः पृथक्युवाम् ।
यत्किंचिदुच्यते वाचा मनसा च विचिंत्यते ।
अस्यैव माया तत्सर्वे तद्द्वयीदूरवर्त्तिनः

6.199.35

प्रपंचजातं यदिदं विलोक्य तेन सत्यमित्येव विचिंतयेन्न सः ।
भजंति विष्णोश्चरणं तरंति ते यदंबुमूर्ध्ना हर धार्यते त्वया

6.199.36

विधेस्य भूयादनुजन्मपादयो रतिर्मदीया कमलाभयोर्भृशम् ।
यदीक्षण क्षोभितया तया जगत्समस्तमेतन्महदादि जायते

6.199.37

भवादृशो नास्ति कृपापरोपरो विपक्षपक्षे वितनोषि यत्सुखम् ।
स्वलोकशोकापनये कृपालुता यदुच्यते ते नृहरे तदज्ञता

6.199.38

नारद उवाच-
इत्यभिष्टूय देवेशं केशवं प्रणतोऽग्रतः ।
तस्थौ तद्वाक्यशुश्रुषा दत्तचित्तो महीयते

6.199.39

एवमाकर्ण्य मुनय स्तुतिं तस्य रमापतेः ।
कृतामिंद्रेण सदसि साधुसाध्विति चाब्रुवन्

6.199.40

शतमन्यो वर्षशतं ये कुर्वंति महत्तपः ।
न तेषामीदृशी भक्तिर्यादृशी तव माधवे

6.199.41

न योगः सुलभोष्टांगः ख्यातिर्येनाधिगम्यते ।
समत्वेन च तत्त्यागस्तद्भक्तिः शरणं नृणाम्

6.199.42

स्वधर्मार्जितवित्तैर्यद्यथा विधि विधीयते ।
कर्मतस्यार्पणं विष्णौ भक्तिरेषा शिवप्रदाः

6.199.43

न निंदेद्देवतामन्यां विष्णुबुद्ध्यां च यो नमेत् ।
न त्यजेद्वेदवाक्यानि स भक्तोऽस्य हरेः प्रियः

6.199.44

ये शृण्वंति हरेर्गुणानहरहः कुर्वंति ये कीर्तनं ये चास्य स्मरणं यदोश्च भजनं येऽमुं यजंते तथा

6.199.45

ये दास्येन नमंति चैनममुना कुर्वंति ये मित्रतां ये च स्वं च निवेदयंति नहि ते वांच्छंति मुक्त्यादिकम्

6.199.46

इंद्र भक्त्या त्वमप्येनमाराधय जगद्गुरुम् ।
न कामये किमप्यास्मत्कृतकृत्यो भविष्यति

6.199.47

नारद उवाच-
मुनिभिरिति शिक्षिते समस्तसेव्यां त्रिभुवनपारपदप्रदां निशम्य ।
हरिरनिशगुरुः कृतां स्वभक्तिं मधुरमुवाच वचो हरिं समाजे

6.199.199

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे।
कालिंदीमाहात्म्ये इंद्रयागविधिनोनाम एकोनद्विशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc