भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.193

6.193.1

पार्वत्युवाच-
देवदेव महादेव सर्वज्ञ सकलार्थद ।
कृपां मयि परां कृत्वा यत्पृच्छे तद्वदस्व मे

6.193.2

श्रुतं च गीतामाहात्म्यं बह्वाश्चर्यकथायुतम् ।
तेन मे भक्तिरुत्पन्ना श्रोतुं कृष्णकथां पराम्

6.193.3

पुराणेषु तु सर्वेषु श्रीमद्भागवतं परम् ।
यत्र प्रतिपदं कृष्णो गीयते बहुधर्षिभिः ।
तन्माहात्म्यं यथातत्वं सेतिहासं वदाधुना

6.193.4

ईश्वर उवाच-।
नैमिषे सूतमासीनमभिवाद्य महामतिम् ।
कथामृतरसास्वादकुशलः शौनकोऽब्रवीत्

6.193.5

शौनक उवाच ।
अज्ञानध्वांतविध्वंसि कोटिजन्माघनाशनम्

6.193.6

श्रीमद्भागवताख्यानं सूताख्याहि रसायनम् ।
भक्तिज्ञानविरागाढ्यो विवेको वर्द्धते कथम्

6.193.7

माहामोहनिरासश्च वैष्णवैः क्रियते कथम् ।
इह घोरे कलौप्रायो जीवश्चासुरतां गतः

6.193.8

क्लेशाक्रांतस्य तस्याथ शोधने किं रसायनम् ।
श्रेयसां यद्भवेच्छ्रेयः पावनानां च पावनम्

6.193.9

कृष्णप्रीतिकरं यच्च साधनं तद्वदाधुना।
चिंतामणिं लोकसुखं सुरेंद्रास्पदसंपदम्

6.193.10

प्रयच्छति गुरुः प्रीतो वैकुंठं चातिदुर्लभम्

6.193.11

सूत उवाच-।
प्रीतोऽहं ते द्विजश्रेष्ठाः कथयिष्ये यथाश्रुतम् ।
सारात्सारतरं यच्च संसारभयनाशनम्

6.193.12

भक्तिप्रवर्द्धकं यच्च कृष्णसंतुष्टिहेतुकम् ।
तन्मे कथयतः साधो सावधानतया शृणु

6.193.13

कालव्यालमुखालीढ जगत्त्राणविधायकम् ।
श्रीमद्भागवतं शास्त्रं कलौ कृष्णेन भाषितम्

6.193.14

एतस्मादपरं किंचिन्मनः शुद्धिकरं नहि ।
जन्मांतरकृतैः पुण्यैर्लभ्यते साधुभिस्तु तत्

6.193.15

राज्ञः परीक्षितो मोक्षं ज्ञात्वा कमलसंभवः ।
तोलयामास शास्त्राणि पुराणानि महांति च

6.193.16

श्रीमद्भागवतं तत्र गरीयो भुवि संगतम् ।
श्रीमद्भागवती वार्ता सुराणामपि दुर्लभा

6.193.17

इति संचित्य बहुशो मुनयः साधवोऽमलाः ।
मेनिरे भगवद्रूपं श्रीमद्भागवतं क्षितौ

6.193.18

पठनाच्छ्रवणाद्यस्य नरो याति हरेः पदम् ।
वर्षेण श्रवणं तस्य बहुसौख्यप्रदायकम्

6.193.19

मासेन भक्तिराभास्यं लभते द्विजसत्तम ।
सप्ताहेन श्रुतं चैतत्सर्वथा मुक्तिदायकम्

6.193.20

किं बहूक्तेन वै साधो श्रीमद्भागवताऽमृतम् ।
नित्यं सद्भिः प्रपातव्यं कृष्णलीलाप्रकाशकम्

6.193.21

सनकाद्यैः पुरा प्रोक्तं नारदाय दयापरैः ।
ब्रह्मणः श्रुतपूर्वाय सप्ताहश्रवणे विधिः

6.193.22

शौनक उवाच-।
पितुर्लब्ध्वा वरं ज्ञानं श्रीमद्भागवताभिधम् ।
नारदो लोकतत्वज्ञः सर्वदा ह्यटते महीम्

6.193.23

कुत्र तैः संगमो जातो नारदस्य महात्मभिः ।
श्रुतो देवर्षिणा यत्र सप्ताहश्रवणे विधिः

6.193.24

सूत उवाच-।
अत्र ते वर्णयिष्यामि भक्तियुक्तं कथानकम् ।
यत्पुरा ब्रह्मरातेन मह्यं प्रोक्तं दयालुना

6.193.25

एकदा तु विशालायामुपविष्टमधोमुखम् ।
नारदं सनकाद्यास्ते ददृशुर्दीनमानसम्

6.193.26

तं दृष्ट्वा चिंतयानं तु देवर्षिर्भ्रातरं स्वकम् ।
पप्रच्छुर्विस्मयाविष्टा मुनयस्तत्वचिंतकाः

6.193.27

कुमारा ऊचुः-।
किं त्वं चिंतयसे ब्रह्मन्नतिदीन इवातुरः ।
तवेत्थं मुक्तिसंगस्य नोचितं वद कारणम्

6.193.28

नारद उवाच-।
अहं पृथ्व्यां समायातो ज्ञात्वा सर्वोत्तमोत्तमाम् ।
तीर्थैर्नानाविधैर्युक्तां पुण्यदैः पुण्यरूपिणीम्

6.193.29

पुष्करे च प्रयागे च काश्यां गोदावरीतटे ।
हरिक्षेत्रे कुरुक्षेत्रे श्रीरंगे सेतुबंधने

6.193.30

एतेष्वन्येषु तीर्थेषु भ्रममाण इतस्ततः ।
नापश्यं कुत्रचिच्छर्म मनः संतोषकारकम्

6.193.31

कलिना धर्ममित्रेण धरेयं बाधिताऽधुना ।
सत्यं शौचं दया दानं नास्ति कुत्रापि भूतले

6.193.32

उदरंभरिणो लोका वराकाः कूटसाक्षिणः ।
मंदाः सुमंदमतयो महापाखंडसंश्रयाः

6.193.33

स्त्रीप्रधानगृहस्थाश्च वर्णिनो व्रतवर्जिताः ।
वानप्रस्थाः पुरावासा न्यासिनो भोगतत्परा

6.193.34

कन्याविक्रयिणो लोभात्कृषिकर्मपरायणाः ।
भ्रष्टाचारा दंभिनश्च स्वेच्छाचारनिदर्शिनः

6.193.35

आश्रमा यवनै रुद्धास्तीर्थानि सरितो ह्रदाः ।
देवतायतनान्यत्र दुष्टैरुच्छेदितानि च

6.193.36

योगी सिद्धोऽथवा ज्ञानी सत्क्रियोऽत्र न दृश्यते ।
कलिदावानलेनाद्य साधनं भस्मतां गतम्

6.193.37

अट्टशूला जनपदाः शिवशूला द्विजातयः ।
कामिन्यः केशशूलिन्यो दृश्यंते भुवि सर्वतः

6.193.38

एकदाहमनुप्राप्तो यमुनायास्तटं शुभम् ।
दृष्टं वृंदावनं तत्र यत्र लीला हरेरभूत्

6.193.39

तत्र यच्चाद्भुतं दृष्टं श्रूयतां तन्मुनीश्वराः ।
एका तु तरुणी तत्र निषण्णाखिन्नमानसा

6.193.40

द्वौ वृद्धौ पतितौ पार्श्वे निःश्वसंतावचेतनौ ।
शुश्रूषंती प्रबोधंती रुदती च तयोः पुरः

6.193.41

दृष्टा दिशो निरीक्षंती रक्षितारमिवात्मनः ।
वीज्यमाना बहुस्त्रीभिर्बोध्यमाना मुहुर्महुः

6.193.42

दृष्ट्वा दूराद्गतश्चाऽहं कौतुकेन तदंतिकम् ।
मां दृष्ट्वोत्थाय सा बाला वचनं चेदमब्रवीत्

6.193.43

बालोवाच-।
भो साधोऽत्र क्षणं तिष्ठ मम चिंतामपाकुरु ।
पुंसां च दर्शनं भद्र सर्वाघौघनिवारणम् ।
पुण्येन प्राक्तनेनैव दर्शनं तव जायते

6.193.44

अतो मे मानसं दुःखं च्छेत्तुमर्हसि मानद ।
नारद उवाच ।
एवमुक्तस्तया चाहं कृपया स्निग्धमानसः ।
अपृच्छंतां वरारोहां कौतुकेन समाकुलः

6.193.45

का त्वमेतौ च कौ भद्रे काश्चेमाः पद्मलोचनाः ।
आख्याहि मत्पुरः सर्वं तव दुःखस्य कारणम्

6.193.46

इति पृष्टा मया सा तु बाला दुःखितमानसा ।
प्रोवाच निखिलं दुःखमात्मनो दुःखकारणम्

6.193.47

बालोवाच-।
अहं भक्तिरिति ख्याता एतौ मे तनयौ वरौ ।
ज्ञानवैराग्यनामानौ कालयोगेन जर्जरौ

6.193.48

गंगाद्याः सरितश्चेमा मम सेवार्थमागताः ।
एताभिः सेविता नित्यं सत्कारेणापि नारद

6.193.49

न च श्रेयो लभे किंचित्क्षीणाऽहं सर्वतो मुने ।
ममपूर्वं तु वृत्तातं शृणु ब्राह्मणसत्तम

6.193.6.193.50

येनाऽहं दुःखिता जाता न लभे शर्म कुत्रचित् ।
उत्पन्ना द्रविडे चाहं कर्णाटे वृद्धिमागता

6.193.51

स्थिता किंचिन्महाराष्ट्रे गुर्जरे जीर्णतां गता ।
तत्र घोरकलेर्योगात्पाखंडैः खंडितांगका

6.193.52

दुर्बलाहं चिरं जाता पुत्राभ्यां सह मंदताम्

6.193.53

वृंदावनमिदं प्राप्ता दैवयोगेन नारद ।
जाता हं तु पुनर्बाला नवीनेव सुरूपिणी

6.193.54

इमौ तु शयितावत्र सुतौ मे क्लिष्टमानसौ ।
अतिवृद्धौ परित्यज्य गंतुं नाहं क्षमाधुना

6.193.55

अहं बाला कथं जाता सुतौ मे जरठौ कुतः ।
त्रयाणामेकभावानां वैपरीत्यं कुतोऽभवत्

6.193.56

घटते जरठा माता बालकौ तनयाविति ।
अतः शोचामि चात्मानं विस्मयाविष्टमानसा

6.193.57

यदि त्वं वेत्सि धर्मज्ञ कृपालो दीनपालक ।
वद सर्वं यथातत्वं कारणं चात्र यद्भवेत्

6.193.58

एवं पृष्टस्तया चाहं क्षणं चैव विमृश्य तु ।
अवोचं भक्तिमाभाष्य क्लिष्टां कालेन भूयसा

6.193.59

ज्ञानेनाहं प्रपश्यामि वृत्तं सर्वं तवानघे ।
मा विषादं कुरु प्राज्ञे हरिः शं ते करिष्यति

6.193.60

सर्वसत्वहरो बाले युगोऽयं दारुणः कलि ।
लुप्तोऽनेन सदाऽचारो योगमार्गस्तपांसि च

6.193.61

जनाश्चाघा (द्या) सुरायंते शाठ्यदुष्कृतकारिणः ।
संतो ह्यस्मिन्सुदुःखार्ता असंतो हृष्टमानसाः

6.193.62

दृश्यते धीरचित्तस्तु पंडितोऽपि न कोऽपि च ।
अस्पृश्य नवलोक्येयं दुष्टभाराकुलाधरा

6.193.63

अन्वब्दं क्रमतो जातो मंगलं हीयतेऽन्वहम् ।
न त्वां तव सुतौ चेमौ कोऽपि पश्यति भामिनि

6.193.64

यूयं तु रागबहुलैस्त्यक्ता जर्जरतां गताः ।
वृंदावनस्य संयोगाद्बालात्वमभवः पुनः

6.193.65

धन्यं वृंदावनं चेदं भक्तिर्यत्राभवन्नवा ।
अत्रेमौ ग्राहकाभावान्नवीनत्वं न चागतौ

6.193.66

किंचिदात्मसुखेनेह प्रसुप्ताविति लक्ष्यते ।
भक्तिरुवाच-।
कथं परिक्षिता राज्ञा स्थापितोद्य शुचिः कलि ।
दयापरेण हरिणा ह्यधर्मः किमुपेक्षितः

6.193.67

एनं मे संशयं छिंधि त्वद्वाचा सुखितास्म्यहम् ।
तस्या वचः समाकर्ण्य भूयोऽहमवदं द्विजाः

6.193.68

यदि पृष्टस्त्वया बाले प्रेमतः श्रवणं कुरु ।
यदा मुकुंदो भगवान्क्ष्मां त्यक्त्वा स्वपदं गतः

6.193.69

कलिस्तद्दिनमारभ्य प्रवृत्तः सत्यबाधकः ।
दृष्टो दिग्विजये राज्ञा दीनवच्छरणं गतः

6.193.70

न हतोऽस्य गुणद्रष्टा सर्वसाधारणं त्विदम् ।
यत्फलं तपसा नैति न योगे न समाधिना

6.193.71

तत्फलं लभते धीमान्कलौ केशवकीर्तनात् ।
एतादृशं कलिं दृष्ट्वा सारात्सारफलप्रदम्

6.193.72

विष्णुरातः स्थापितवान्कलिजानां हिताय च ।
कुकर्माचरणात्सारः सर्वतो निर्गतोऽधुना

6.193.73

पदार्थाः संस्थिता भूमौ बीजहीनास्तुषा यथा ।
विप्रैर्भागवतीवार्त्ता गेहे गेहे जने जने

6.193.74

कारिता धनलोभेन कथासारस्ततो गतः ।
अत्युग्रभूरिकर्माणो नास्तिका दांभिका जनाः

6.193.75

तिष्ठंति सर्वतीर्थेषु तीर्थसारस्ततो गतः ।
कामक्रोधमहालोभतृष्णाव्याकुलचेतसः

6.193.76

समारभंते कर्माणि कर्मसारस्ततो गतः ।
मनसश्चाजयाल्लोभाद्दंभात्पाखंडसंश्रयात्

6.193.77

शास्त्रानभ्यसनाच्चैव ध्यानयोगफलं गतम् ।
पंडितास्ते कलत्रेषु रमंते महिषा इव

6.193.78

पुत्रोत्पादनदक्षाश्च न दक्षा मुक्तिसाधने ।
न हि वैष्णवता कुत्र संप्रदायपुरःसराः

6.193.79

देवनिंदापराः सर्वे साधुनिंदापरायणाः ।
अयं तु युगधर्मोऽस्ति दीयते कस्य दूषणम्

6.193.80

अतस्त्वं पुंडरीकाक्षं स्मृत्वा सौख्यमवाप्स्यसि

6.193.81

एवं मयोक्तं वचनं श्रुत्वा सा विस्मयं गता ।
उवाच वचनं भूयो मां प्रशस्य द्विजोत्तमाः

6.193.82

भक्तिरुवाच-।
देवर्षे त्वं तु धन्योऽसि मद्भाग्येन समागतः ।
साधूनां दर्शनं लोके सर्वसिद्धिप्रदायकम्

6.193.83

सुखोपायो यथा मे स्यात्तथादिश मुनेऽधुना ।
सर्वज्ञस्य तव ब्रह्मन्न साध्यं किमपीह वै

6.193.84

अजयदजितमायां यस्य कायाधवस्ते वचनरचनमेकं केवलं चाकलय्य ।
ध्रुवपदमुपयातो यत्कृपातो ध्रुवो वै तमहमरणभूतं ब्रह्मपुत्रं नतास्मि

6.193.193

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे भागवतमाहात्म्ये त्रिनवत्यधिकशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc